पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ इति । तत्त्वावनाय सत्यसंरक्षणाय । अस्मिन्ननृतेऽपि सारस्वतश्चरुः नैमित्तिक एव । तत्त्वावनायेत्यस्यायमर्थ:- तत्त्वस्य अवनं रक्षणम् । तादृशे समये सत्यमनृत- वचनेनैव सेत्स्यतीत्यभिप्रायः । क्रियाग्रहणमात्रे चतुर्थी । सवि. १४६ व्यवहारकाण्डम् (६) अत्र द्विजैरिति निर्देशाद् गुणमुख्यसाधारणम् । अन्यथा शूद्रो मिथ्या वदन्नेवंविषये न प्रत्यवेयात् । द्विजैरिति स्वरसात्तान् प्रत्येव नियमः शूद्रस्य तु दानांदि । मच.८/१०६ (७) वर्णिनां ब्राह्मणक्षत्रियविशाम् । सारस्वतः सर- स्वतीदेवताकश्चरुः प्रागुक्तो निर्वाप्य इत्यङ्गमुखेन होम निर्देशः । तत्पावनायेति अकरणजन्यपापाभावायेत्यर्थः । अमृतवचनस्य यागीयहिंसावद्विहितत्वेन पापाजनक- त्वात् । वीमि. (८) यत्र सत्यवचने । संभाव्यत इत्यध्याहारः । अनृतवचनमवचनस्याप्युपलक्षणम् । वर्णिनो वर्णाः । ब्राह्मणादयश्चत्वार इति केचित् । ब्रह्मचर्यावन्तस्त्रय इत्यन्ये । इदं चोपलक्षणं मूर्धावसिक्तादीनामपि । व्यउ.५२ नारद: विवाद साक्षिभ्यो निर्णय: 'संदिग्धेषु च कार्येषु द्वयोर्विवदमानयोः । दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् || (१) यानि कानिचित् संदिग्धानि कार्याणि तेषु द्वयोर्वादिप्रतिवादिनोरपि विवदतोरिति अन्याऽन्यार्थवद्धा- ग्रहयोः विवादं कुर्वतोः साचिभ्यः सकाशात् कार्यव्यक्ति दर्शनं स्फुटीभवति । यतस्ते उदासीनाः । श्रुतार्थत्वादनु भूतार्थत्वाद्वा यत्साक्षिकाले किमपि ब्रुवते, तस्माद् व्यक्तिदर्शनं कार्यनिर्णयो भवति इत्यर्थः । अभा.६४ (२) साचिभ्यो व्यक्तिर्निर्णयः तस्य दर्शनं बोधः, , (१) नासं. २।१२४ च ( तु); नास्मृ. ४ | १४७ दृष्टश्रुतानु. भूतवात् (श्रुतदृष्टानुभूतार्थात्); अभा. ६४ नारमृवत्; व्यक्र.४१ च(तु) क्ति (क्त); पमा.९३ क्ति (क्त) मनुः; नृप्र. ९; व्यसौ. ३९ नासंवत् ; दानि. ६; व्यप्र. १०६ नासंवत्; व्यम. १५ व्यक वत; बाल. २१६८ व्यकवत; प्रका.४९ पमावत्; समु.२७ पम्स बप्. साक्षिभ्योऽन्यतरतत्त्वज्ञानम् । कुतः ? दृष्टश्रुतानुभूतत्वात् । दृष्टं चक्षुर्द्वारेण ज्ञातम् । श्रुतं श्रोत्रद्वारेण । अनुभूतं लिङ्गादिनिमित्तं स्वसंवेद्यज्ञानं अन्यथासंभव विलोपत्र- भिघातादिनैवमेव नान्यथेति परिच्छेदज्ञानम् । एतदुक्तं भवति प्रत्यक्षानुमानागमैर्यस्मादर्थः परिच्छिन्नः, तस्मात् तेभ्यो व्यक्तिदर्शनमुपपद्यते, यस्मात् सर्वपरिच्छेद- हेतवः प्रत्यक्षानुमानागमाः तैः परिच्छिन्नत्वादुपपन्नं तेषां प्रामाण्यमिति । - नाभा. २।१२४ (३) दृष्टश्रुताभ्यामनुभूतत्वादित्यर्थः । यद्वा दृष्टत्वात् श्रुतत्वादनुभूतत्वाच्चेत्यर्थः । अनुभूतत्वादित्यनेन च गोॠषन्यायेन प्रमाणान्तरजन्योऽनुभवो गृह्यते । व्यक्ति- दर्शनं विवेकज्ञानम् । व्यप्र. १०६ साक्षिनिरुक्तिः समक्षदर्शनात्साक्षी विज्ञेयः श्रोत्रचक्षुषोः । श्रोत्रस्य यत्परो ब्रूते चक्षुषोदर्शनं स्वयम् || (१) प्रत्यक्षदर्शनात् साक्षीत्युच्यते । तत्र अक्षीणि यत्तेषां प्रतिपत्तिसानुभवं प्रयोजनं तत्प्रत्यक्षम् । तेषां च श्रोत्रस्य यच्छद्वश्रवणं तत्परतः अर्थसानुभवम् । यत्तु चक्षुःसानुभवं तत्स्वयमेवार्थदर्शनसानुभवमिति । अभा. ६४ (२) यत्परो व्यवहारसमर्पकं वाक्यं ब्रूते तद्विषयं समक्षदर्शनम् । श्रोत्रस्य श्रोत्रसंबन्धीत्यर्थः । एवं चक्षुषः समक्षदर्शनं व्यवहाररूपशरीरव्यापारविषयम् । अप. २।६९ (३) साक्षिनिर्वचनम् - समक्षदर्शनात् सम्यगि न्द्रियेणोपलब्धत्वात् साक्षी विज्ञेयः । तथा च 'साक्षात् द्रष्टरि संज्ञायाम्' (व्यासू. ५१२१९१ ) इत्युक्तम् । त्रयाणां साक्षाद् द्रष्टृत्वेऽप्युदासीनः साक्षीत्युच्यते रुद्र- वाच्छब्दस्य । कस्येन्द्रियस्य समक्षदर्शनादिति न ज्ञायत इति तद् विशिनष्टि 'श्रोत्रचक्षुषोरि'ति । पुनरपि किं श्रोत्रस्य, किं चक्षुपः ? इति विशेषयति – श्रोत्रस्य यत्परो ब्रूते आक्रोशवादादि, चक्षुषः कायकर्म शरीरे यदुपनिपतति तत् तयोः समक्षमिति । नाभा. २११२५ --- (१) नासं. २११२५ षोर्दर्शनं स्वयम् (षः कायकर्म यत्); नास्मृ. ४|१४८; अभा.६४: अप.२/६९ षोदर्शनं स्वयम् (प: कार्यकर्मकृत्); समु.२७ १.