पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी २९५ वधो मौण्डयं पुरान्निर्वासनं तथा । ललाटे चाङ्ककरणं प्रयाणं गर्दभेन च' इति ॥ यद्वा- 'गोरक्षका- न्वाणिजकांस्तथा कारुकुशीलवान् | प्रेष्यान् वाषिकां चैव विप्रान् शूद्रवदाचरेत् ॥ इति मनुवचनान्महत्य- पराधे विप्रविशेषस्थापि वधः प्राप्नोति । न च वाच्यं 'वर्णिनां हि वधः' इत्यत्र वर्णग्रहणं ब्राह्मणविषय मिति । यदाह मनु:- 'शुद्रविक्षत्रविप्राणां यत्र चोक्तो भवेद्वधः | तत्र वक्तव्यमनृतं तद्धि सत्याशिय इति ॥ अथवा ऽतिक्रान्तनिषेधेन यत्र ब्रह्मवधः क्रियते त त्रैतत् । अप (४) मिता. टीका - अनृतवचन निषेधो हि द्वि प्रकारः । साधारणोऽसाधारणश्चेति । साधारणस्तु 'नानृतं वदेद- ब्रुवन् विब्रुवन् वेंत्यादिकः । असाधारणस्तु 'स तान् सर्वानवाप्नोति यः साक्ष्यमनृतं वदेत्’ | इति, ‘विब्रुवन् हि नरः साध्यमित्यादिकश्च । एवं स्थिते योऽयम- साधारणो निषेधः साक्ष्यनृतवचनावचनयोस्तत्राभ्यनुज्ञा वशादनृतवचने अवचने वा न प्रायश्चित्तमित्यभिप्राये- गाह- 'साक्षिणामनृतवचनं चेति । ननु तर्हि 'तत्पाव नाये' त्यनेन प्रायश्चित्तार्थ सारस्वतचरुः व विधीयते इत्याशक्य साधारण निषेधातिक्रमाभ्यनुज्ञानाभावात तदतिक्रमदोपपरिहारायेदं प्रायश्चित्तमित्याह - 'यत्तु नानृतं वदेदिति । +सुत्रो. • तर्ह्यसत्यवचने तूष्णीम्भावे च शास्त्राभ्यनुज्ञया प्रत्यवा- याभाव इत्यत आह तत्पावनायेति । तत्पावनाय अनृत- वचनावचन निमित्तप्रत्यवायपरिहाराय सारस्वतश्चरुद्विजै- रेकैकशो निर्वाप्यः कर्तव्यः । सरस्वती देवता अस्येति सार- स्वतः। अनवस्रावितान्तरूष्मपक्कौदने चरुशब्दः प्रसिद्धः । इहायममिसंधिः – साक्षिणामनृतवचनमवचनं च यनि- पिद्धं तदिहाभ्यनुज्ञातम् । यत्तु नानृतं वदेत् 'अब्रुव- न्विब्रुवन् वाऽपि नरो भवति किल्पिीति च सामान्ये- नानृतवचनमवचनं च निषिद्धं तदतिक्रमनिमित्तमिदं प्रायश्चित्तम् । न च मन्तव्यं साक्षिणा मनृतवचनावचना- भ्यनुज्ञानेऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रम- निमित्त प्रत्यवायस्य तादवस्थ्यादभ्यनुज्ञावचनमनर्थक मिति । यतः, साक्षिणामसत्यवचनावचनप्रतिषेधातिक्रम- योर्भुयान् प्रत्यवायः असाधारणानृतवचनावचनयोरल्पी यानित्यर्थवदभ्यनुज्ञावचनम् । यद्यपि भूयसः प्रत्यवायस्य निवृत्या आनुषङ्गिकस्या- ल्पीयसः प्रत्यवायस्य निवृत्तिरन्यत्र तथापीहाभ्यनुज्ञा- वचनात् प्रायश्चित्तविधानाच्च भूयसो निवृत्याऽल्पीयान व्यानुषङ्गिकोऽपि प्रत्यवायो न निवर्तत इति गम्यते । • एतदेवान्यत्र प्रश्नेषु वार्णवधाशङ्कायां पान्थादी- नामनृतवचनावचनाभ्यनुज्ञानं वेदितव्यम् । न च तत्र प्रायश्चित्तमस्ति प्रतिषेधान्तराभावात् । निमित्तान्तरेण कालान्तरेऽर्थतत्त्वावग मेऽपि साक्षिणामन्येषां च दण्डा- भावोऽस्मादेव वचनात् अवगम्यत इति । #मिता (३) ब्राह्मणस्य यद्यपि वधः प्रतिषिद्धः 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । राष्ट्रादेनं बहिः कुर्यात् समग्रधनमक्षतम् ॥ न ब्राह्मगवधाद् भूयान धम विद्यते क्वचित् । तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत्' || इत्यादिमन्वादिवाक्यैः, तथाऽपि वध तुल्यता अस्ति दण्डस्य, यथाह मनुः - 'मौण्डयं प्राणा- न्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्ड: प्राणान्तिको भवेत्' इति ॥ तेन पुरनिर्वासनादि रपि दण्डो वधसम एव । तदुक्तं स्मृत्यन्तरे 'ब्राह्मणस्य ।

  • व्यप्र. पूर्वार्धव्याख्यानं मितावत् । उत्तरार्धव्याख्यानं

'कूष्माण्डैर्वाऽपी 'ति (८।१०६) मनुश्लोके (१.२७७) द्रष्टव्यम् । विस्तरस्तु विश्ववत् । विता. मितागतम् । (५) भगवत्पादमतं तु सामवतीष्टिवत् सारस्वतः । अयमर्थ:- तत्पावनाय शुद्धयर्थं दोपिणां संरक्षणार्थम् । एतत्पर्यन्तमेकं वाक्यम् । यत्र वर्णिनां वधस्तत्र तत्पावनाय साक्ष्यमनृतं वदेत् । अतो नैमित्तिकऋतु रिति सारस्वतश्चकनैमित्तिक इति । अत्र नैमित्तिकत्वे तत्पाव- नाय इति पदं नान्वीयादिति अन्यथति पदमध्याहृत्य व्याचष्टे टीकाकारः, अयमर्थ:-सत्यमेव वदित्वा सार- स्वतश्ररुर्नैमित्तिकः । न च सत्यवचनानन्तरं प्राणि- व्यापादे जाते तदपनोदनाय सारस्वतश्वरुः प्रायश्चित्त- मात्रमिति वाच्यम् । अनृतवचनस्य विहितत्वात्, विहिता- ननुष्ठान एव प्रायश्चित्तस्मरणात् । अत्र केचिदेतद्वचन मन्यथा पठित्वा व्याचक्षते - तत्त्वावनाय निर्वाप्यत X वाक्यार्थः सरल: । अत्रोद्धृतग्रन्थस्य व्यप्रकृतं खण्डनं 'शूद्रविडि'ति (८।१०४) मनुलोंके ( पू. २७५ ) द्रष्टव्यम् । + बाल. सुबोवत् ।