पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ तथा चापराकर्कोऽपि – 'ब्राह्मण श्वेदेवंविधस्तं विवासये- न्नतु दण्डयेत्' इत्येवं व्याख्यौ । क्षत्रियादीनां तु दण्ड- दानासामर्थ्य स्वजात्युचितकर्मकरण निगडबन्धनकारा- गृहनिरोधनादि तावत् द्रव्यसमीकरणानुरूपं बोध्यम् । सर्वेषामपि निह्नवकारित्वे समानदोपत्वात्सर्वेऽपि प्रत्येक मष्टगुणं दण्ड्याः | व्यप्र. १३७ (९) मिता. टीका -- ननु 'यः स' इति सामान्योक्त्या पादत्रयोक्तदण्डस्य सर्ववर्णविषयत्वं सकृदपराधेनाभ्यासे तद्गमकाभावात् 'तमोतृत इति हेतूक्त्या तत्रापि लोभादिसारया सामान्यपरिज्ञान विषयत्वलाभेऽपि न तद्वि- शेषपरिज्ञान विषयत्वं गमकाभावात् । एवं साक्ष्यङ्गी कारादिपूर्वकनिह्नवदोपस्य पूर्वत आधिक्येन द्विगुणदण्डा दष्टगुणदण्डोक्तावपि तद्रदत्राप्यन्य विपयत्वं न ब्राह्मण- विषयत्वं तत्र विवासनस्यैव व्यवस्थापितत्वात्तुर्यपादेन | एवं सति अत्र तुर्यपादेन सामान्यप्राप्ताष्टगुणदण्डापवादेन विग्रस्य कथं विवासनविधि: ? न हि पूर्वदण्डोऽपि महा विषयक एवेति वक्तुं शक्यः तत्र विवासनस्यैव व्यवस्था- पितलादत आह - ब्राह्मणमिति । त्वर्थमाह पुनरिति । स्वल्पविषये बहुदण्डम्यायोग्यत्वात् । तत्र ब्राह्मणे अर्थ दण्डस्यानुपदमेव व्यवस्थापितत्वादाह - अगुणेति । अयं भावः - यद्यपि सामान्येनार्थदण्ड उपदिष्टो योगिना तथापि तहानसमर्थ प्रत्येवायमुपदेशो नासमर्थ प्रतीत्य वश्यं वक्तव्यमन्यथा मुनेर्भ्रान्तत्वापत्तिस्तथा च ब्राह्मण- स्यापि तत्सामर्थ्य तद्विषयेऽयमेव मुख्यः तदसंभवे- ऽनुकल्पो विवासनम् । एतलक्षण्यमूचक एव तुः । सर्वथा तस्य शारीरदण्डाभावेन सेवादि निषेधेन चानु कल्पान्तरस्यासंभवात्सर्वथा दण्डाकरणे राज्ञो दोषश्रव गात् प्रागुक्तविवासनमेव तस्यानुकल्प इति । एतेन C प्रधानक्रियानिरूपितवैलक्षण्यसूचकतुशब्द विरोधात 'अदृष्टगुणे त्यादि (मिता.) चिन्त्यमिति वीरमित्रोदयो क्तमपास्तम् । पुनः स्वष्टार्थमाह - विवेति । साक्षिणां सत्यवचनापवादविषयः । तादृशानृतोक्तिप्रायश्चित्तम् ।

  • बाल.

वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् । १ व्यवहारकाण्डम् ,

  • शेषं सुबोगतम् |

(१) यास्मृ. २१८३; अपु. २५५/१५ पू.; विश्व. २१८५ हि (तु) निर्वाप्य (कर्तव्य); मिता; अप.; व्यक. ५९; गौमि. तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः ।। (१) ' यः साक्ष्य मि' त्यस्यापवादमाह - वर्णिनामिति । शूद्रेण तु दानादय इत्यभिप्रायः । चतुर्ष्वपि भवा ब्राह्म- गादयो वर्णिनः । तेषां यत्र साक्षिणि सत्याभिधातरि वध: स्यात्, तत्र साक्षी अनृतं वक्तुमर्हति । सदोष मपि गुणभूम्नाऽनृतवचनमभ्युपगम्यते । तथा च गौतमः--- 'नानृतवचने दोषो जीवनं चेत्तदधीनम्' इत्युक्त्वाह 'न तु पापीयसो जीवनम्' इति । अदोषवचनं चाल्प- दोषाभिप्रायं प्रायश्चित्तविधानसामर्थ्याद् द्रष्टव्यम् । एतच्च न्यायप्राप्तमेव मन्दबुद्धिप्रतिबोधनाय । प्रायश्चित्तविधा- नाच्चावश्यकर्तव्यताऽत्रोच्यते । अन्यत्रापि गुरुलघुत्वे समीक्ष्य पापस्याप्यनुष्ठानं प्रायश्चित्तं च तदपनुत्तये कार्ये यथा स्यात् । धर्मान्तरोपयोगित्वाच्चैतत् कामकृत- मप्यकामकृतमेव द्रष्टव्यम् । विश्व. २१८५ (२) साक्षिणामवचनमसत्यवचनं च सर्वत्र प्रति. पिम् । तदपवादार्थमाह-वर्णिनामिति । यत्र वर्णिनां शूद्रविक्षत्रविप्राणां सत्यवचनेन वधः संभाव्यते तत्र साश्यनृतं वदेत् । सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिद्धमसत्यवचनम वचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यत्रचने वर्णनो बधोऽनृतवचने न कस्यापि वधस्तत्रानृतवचन- मभ्यनुज्ञायते । यत्र तु सत्यवचनेऽर्थिप्रत्यर्थिनोरन्यतरस्य वधोऽसत्यवचने चान्यतरस्य वधः तत्र तृष्णीम्भावाभ्य नुज्ञा, राजा यद्यनुमन्यते । अथ राजा कथमप्यकथने न मुञ्चति तदा भेदादसाक्षित्वं कर्तव्यम् । तस्याप्यसंभवे सत्यमेव वदितव्यम् । असत्यवचने वर्णिवदोषोऽसल- वचनदोषश्च | सत्यवचने तु वर्णिवधदोषः । तत्र च यथाशास्त्रं प्रायश्चित्तं कर्तव्यम् । १३|२४; स्मृच.८९; व्यचि. ५६; नृप्र. ११ हि (च) पू., स्मरणम् ; व्यत. २१५ वर्णि (वर्णा); सवि. १४५ तत्र साक्ष्य (साध्ये तत्रा) तत्त्वावनाय इति टीकायाम् : १५९ तत्र ... वदेत् (वंदत् साक्ष्यं तथाऽनृतम्) पू.; मच. ८/१०६; व्यसौ. ५५; वीमि.; व्यप्र. १३८ - १३९ हि (नु); व्यउ ५१-५२ हि (तु ) ; व्यम. १९; विता. १९१ तत्पाव (तस्याव); सेतु. १२२ १२३ (=) व्यतवत् ; राकौ. ४०४ उत्त.; प्रका. ५८; समु.३६; भाच.८।१०४ वर्णि (प्राणि).