सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी बाल, वैयर्थ्यायैकदेशान्वयाभावाय च भेदेन व्याचष्ट य इति । आदिना सामादिपरिग्रहः । विवादादिति । हेतौ पञ्चमी । पराजये तस्य लक्षणा । गर्गदण्डनन्यायेन समु दाये दण्डविश्रान्तिवारणायाह - पृथगिति । पूर्वाङ्गीकृतसाक्ष्यस्य तदपह्नवे दण्डः येः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः । स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ (१) उत्तरसाक्षी तु प्रवत्स्यता मुमूर्षुणा वा साक्ष्यमित्यादि । अतोऽवश्यं वक्तव्यं साक्ष्यं सत्यं च । तु यः विश्व. २८४ (२) अपि च यस्तु साक्षित्वमङ्गीकृत्यान्यैः साक्षिभिः सह साध्यं श्रावितः सन्निगदनकाले तमोवृतो रागाद्या क्रान्तचित्तस्तत्साश्यमन्येभ्यः साक्षिभ्यो निहुते, नाहमत्र माक्षी भवामीति । स विवादपराजये यो दण्डस्तं दण्डमष्ट. गुणं दाप्यः । ब्राह्मणं पुनरष्टगुणद्रव्यदण्डदानासमर्थ विवा सयेत् । विवासनं च नयीकरणगृहभङ्गदेश निर्वासन लक्षणं विषयानुसारेण द्रष्टव्यम् । इतरेषां त्वष्टगुणद्रव्य दण्डासंभवे स्वजात्युचितकर्मकरण निगडबन्धन कारागृह- प्रवेशादि द्रष्टव्यम् । एतच्च पूर्व श्लोकेऽप्यनुसर्तव्यम् । यदा सर्व सायं निहुवते तदा सर्वे समानदोषाः । यदा तु साक्ष्यमुक्त्वा पुनरन्यथा वदन्ति तदाऽनुबन्धाद्यपेक्षया दण्डया: । Xमिता. (३) यस्तमोतः तामसः सभ्यैर्यथाविधि साक्षिप्रश्न वाक्यं श्रावितः सन् वादकालेऽन्येभ्यः साक्षिभ्यः स्वकीय सायं साक्षित्वं निहुते-नाहमत्र माक्षी भवामीत्यपलपति स साक्षिदण्डमष्टगुणं दाप्यः । स्वकीयसाक्षित्वापह्नवमन्या न्साक्षिणो ज्ञापयतीति अन्येभ्य इति चतुर्थ्या अर्थः । स्त्रयं तावत्साक्षित्वापह्नवं करोति, परांश्च कारयितुमिच्छतीत्यति X स्मृच. मितागतम् । (१) यास्मृ. २१८२; अपु. २५५/१४-१५, विश्व.२१८४ ऽन्येभ्यो (ऽन्येन) दण्डं (द्रव्यं); मिता; अप.; व्यक. ५८ ६यं (क्ष्य) तो (ते) सदाऽप्योष्ट (तदप्यष्ट); स्मृच. ९२; व्यचि. ५५ क्ष्यं (क्षी) तत् (तु); दवि ३४६ ६ (क्ष्ये); व्यत. २२० सन्तमो (तमसा) ण तु (णश्च); व्यसो. ५५ ६ (६) तो (ते): वीमे ; व्यप्र. १२७; व्यम. १९; विता. १८८; बाल. २।२५: सेतु. १२३ (= ) तत्तमो (तमसा) दण्डं (द्रव्यं); प्रका. ६० : समु.३८ ते तत्त (वीत त). २९३ दुष्टत्वादष्टगुणं दण्डं दाप्य: । ब्राह्मण श्वेदेवंविधस्तं स्वदेशाद्विवास येन्निर्वासयेन्न तु दण्डयेत् । श्रावित इति वचनादङ्गीकृतसाक्षिभावोऽसाविति गम्यते । अप. (४) मिता. टीका - एतदिति । ब्राह्मणस्य द्रव्यदाना- समर्थस्य विवासनं, क्षत्रियादीनां च द्रव्यदानासमर्थानां निगडबन्धनादिकं यदुक्तं तत् पृथक् पृथक् पूवक्तप्रकारेण दण्ड्य इत्यर्थः । तदाऽनुवन्धापेक्षया इति । जातिद्रव्य गुणद्रव्यगुणाद्यपेक्षयेत्यर्थः । सुची. (५) श्रावितः श्रावितवान् । व्यचि.५५ (६) त्वमन्येभ्यः साध्यं श्रावयेति वादिना प्रयुक्तो यः श्रावितः । एवम्भूतोऽपि सभायां निगदकाले साक्ष्यं निहुते यस्तस्याष्टगुणो दण्डः । *व्यत. २२० (७) यस्तु साक्ष्यमन्येभ्यः श्रावितः श्रावितवान् अह- मिममर्थं जानामीति कथितवान् पश्चात्तमोवृतो रागाद्या- क्रान्तचित्तः साक्ष्यं निद्भुते निगदकाले यस्तपति स विवादपदादष्टगुणं द्रव्यं दाप्यः | तादृशापराधेऽपि ब्राह्मणं विवासयेदेव | तुशब्देनार्थदण्डव्यवच्छेदः । त्रीमि, (८) यः साक्ष्यमङ्गीकृत्य अन्यैः साक्षिभिः सह् साध्यं श्रावितः सन् निगदसमये तमोगुणेनावृतो रागद्वेषा- द्याक्रान्तचित्तस्तत्साक्ष्यमन्येभ्यो निहुते नाहमत्र सायं स्वीकरोमीति प्रकाशयति । यथा तेऽपि एतदनुरोधात्तन्न स्त्रीकुर्वते कुटतां वा कुर्वन्ति, स विवादपराजय निमित्तक- दण्डापेक्षयाऽष्टगुणदण्डं दाप्योऽपराधमहत्त्वात् । अन्येभ्य इति 'लाहुङस्थाशपां जीप्समानः' (व्यासू. १।४।३४) इत्यनेन संप्रदानसंज्ञायां चतुर्थी । तेन पूर्वोकार्थलाभः । ब्राह्मणं तु तथा कुर्वाणं विवासयेत् । विवासनं च व्याख्यातरीत्या देशनिर्वासननग्नीकरण गृहभङ्गान्यतमरूप- मनुबन्धाद्यपेक्षया व्यस्तसमस्तविधया ज्ञेयम् । यत्तु मिता- क्षराकृता अष्टगुणदण्डदानासमर्थमिति व्याख्यातम् । तत्प्रधान क्रियानिरूपितवैलक्षण्यप्रतिपादकतुशब्दविरोधा- दुपेश्यम् । न चैवल्पविषयेऽपि विवासनमदण्डता वा प्रसज्जेतेति वाच्यम् । वचनोपात्तविषयस्यैव दण्डस्य युक्तत्वात् । अत एवाह नारदः -- 'श्रावयित्वा ततोऽन्येभ्यः साक्षित्वं यो विनिहुने । स विज्ञेयो भृशतरं कूट- साध्यधिको हि सः' इति ॥

  • सेतु व्यतवत् ।