पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी २९१

  • अप.

स्ववचनैः पराजितस्य, पौनर्भवो विधिः पुनर्न्यायकरणं प्रतिवादिनो वा जयपराजयावधारणरूपव्यवहारनि गेजने नास्तीत्यर्थः । उपन्यस्तस्य तु बलवत्प्रमाणस्यासंनिधा सति पूर्वोपन्यस्ता प्रमाणात प्रमाणान्तरस्य पूर्वमनुप- नेन दुर्बलप्रमाणग्रहणात् पराजितसाक्षिदोपसंबद्धत्वात् न्यस्तस्य प्रतिपादन मफलमित्याचष्टे, न पुनः प्रागपि अस्ति प्रमाणावसरः । एवं च यत्रापि द्वयोः साक्षिवचना निर्णेजनात् । निर्णयो जातः तत्रापि देवात् बलवत्तरसाक्षिसमाग - मात् तैरेव निर्णयः कार्य: । पूर्वनिर्णयहेतवः साक्षिणः कुटा भवन्ति । अत एव वादिना भाविते यदि प्रति वादी हि प्रतिपादयतीत्युक्तं कात्यायनेन । - (४) यत्रार्थिना संनिहिता असंनिहिताश्च बहवः साक्षिणो निर्दिष्टास्तत्रासंनिहितानयने क्लेशमालोच्य यदा संनिहितैरेवालमित्यङ्गीकृत्य तद्रचनान्निर्णीतमर्थिनं पराजयते । तं च पराजयं कौटसाध्य निबन्धनं मन्यमानोऽथीं पुनः पूर्वनिर्दिष्टानसंनिहितान् संनिहितेभ्यो गुणवत्तरान द्विगुणान्चा आनीय विजयी भवति तदा पूर्वसंनिहिताः साक्षिणः कुटाः स्युरिति । कात्यायनोऽपि – 'यत्र वे भावित कार्य साक्षिभिर्वादिना भवेत् । प्रतिवादी यदा तत्र भावयेत्कार्यमन्यथा || बहुभिश्च कुलीनैर्वा पूर्वाः स्युः कूटसाक्षिण :' इति ॥ अस्यार्थ: अर्थिना निर्दिष्टपु साक्षिष्वार्थपक्षानुकूलमभिहितवत्सु यदा प्रत्यर्थी संख्यथा गुणैर्वाऽधिकान् माक्षिण: पूर्वोक्तविपरीतं वादयति तदाऽर्थिनः साक्षिणः कुटास्युरिति । ननु चैकस्मिन व्यवहारे कथमार्थप्रत्यर्थिनोः साक्षिसंभवः । 'न चैकस्मिन् विवादे तु क्रिया स्याद्रादि-नोयोः' । इति प्रतिषिद्धत्वात् । सत्यम्, अत एव 'यत्र वै भावि- तम्' इत्यादिवचनस्य पुनर्व्यायविषयत्वमाश्रीयते । तेन न कश्चिद् विरोधः । स्मृच. ९४ (५) मिता. टीका-युक्त्यन्तरमाह एकस्मिन् व्यव हारे यथेति । अयमर्थः यथा परमते सिद्धान्तिनो मते साक्षिभिः साक्ष्येऽभिहिते सति प्रतिज्ञानार्थस्य अन्यथा- त्वेन स्वान्तःकरणप्रत्ययाभावात् प्रमाणान्तराङ्गीकरणं, एवमस्मन्मतेऽपि वादिप्रतिवादिनोः क्रियाद्वयमिति । एतदुक्तं भवति, सिद्धान्तिनो मते 'न चैकस्य क्रियाद्रय- मिति वचने जाग्रत्याप यथा स्वान्तःकरणविसंवादित्वेन प्रमाणान्तगङ्गीकरणं, तथाऽस्मिन्मतेऽपि 'न कस्मिन् विवादे तु क्रिया साद्वादिनोईयोः' इत्येतस्मिन् सत्यपि उक्तरीत्यैकस्मिन् विवादे क्रियाद्वयमिति निराचष्टे । तदण्याचार्य इति । आचार्यो विश्वरूपाचार्यः । 'विश्व- | रूपविकटोक्तिविस्तृति संग्रहात्मकत्वात् अस्य ग्रन्थस्य | 'उक्तेऽपि साक्षिभिः साक्ष्ये' इत्यतः शब्दादिति । अतो-

  • चन्द्र, विता. भावार्थ: अपवतु ।

व्यमा. ३३५-३३६ (३) साक्षिवचनप्रामाण्यभेदहेतुमाह-उक्तेऽपीति । वादिना प्रतिवादिना वा निर्दिष्ठैः साक्षिभिरुक्तेऽपि वाक्ये प्रतियोगनिर्दिष्टाः पूर्वसाक्षिभ्यो बलवत्तमा द्वैगुण्येन वा भूयांस उक्तमेवार्थमन्यथा ब्रूयुस्तदा पूर्वसाक्षिणः कूटा मिथ्यावादिनः स्युः । तथा च कात्यायन: 'यत्र वे भावितं कार्य साक्षिभिर्वादिनो भवेत् । प्रतिवादी तदा तत्र भावयेत्कार्यमन्यथा ॥ बहुमिस्त कुलीनैर्वा कुटाः स्युः पूर्वंसाक्षिणः'। कुलीनग्रहणं गुणातिशयोपलक्षणार्थम । ननु चैकस्मिन् व्यवहारे वादिप्रतिवादिनोः कथं साक्षि संवन्धः ? उक्तं हि· -'न चैकस्मिन् विवादे तु क्रिया स्याद्वादिनोर्द्वयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रिया द्रयम्' इति ॥ सत्यम्, तुल्यवदुभयोर्नास्ति क्रिया प्राप्तिः । यदा यस्य क्रिया शास्त्रतः प्राप्ता तदा तस्य तां मिथ्याभूतां विदित्वा तस्या मिथ्यात्वख्यापनाय साक्ष्य- •न्तरमुपन्यसनीय मित्येते नांच्यते । अत्र च स्मृत्यन्तगेत विशेषः । 'तीरितं चानुशिष्टं च यो मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्य पुनरुद्धरेत्' इति ॥ अधर्म एव विधर्मस्तस्माद् विधर्मतः । एतत्तीरितं लिखितम्। अनुशिष्टं साक्षिवचनं च यो मन्येत स द्विगुणं दण्डमुद्धृत्य तत्कार्य तं व्यवहारं पुनः साक्ष्यन्तरेरुद्धरे दित्यर्थः । यत्तु व्यासेनोक्तम् – 'अन्यैस्तु साक्षिभिः साध्ये दूपणे पूर्वसाक्षिणाम् | अनवस्था भवेदोपस्तेषामप्यन्य संभवात्' ॥ इति, तत्साक्षिदपणमेवान्यैः साक्षिभिर्न कार्य मित्येत्रमर्थम् । अनवस्थाप्रसङ्गश्च साक्षिणां साम्ये सति भवति, न पुनः संख्यादिवैषम्ये । यत्तु नारदेनोक्तम्- 'निर्गीते व्यवहारे तु प्रमाणमफलं परम् । लिखितं माक्षिणो वाऽपि न चेत्पूर्व निवेदितम्' इति ॥ तद्वादिनः