पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी ज्ञानस्य प्रामाण्येन करणदोपकाना; तथेहापि साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोपदेशाच्च 'साक्षिभिर्भा- तिं वाक्यं सह सभ्यैः परीक्षयेत्' इति कात्यायनेनाप्यु- क्तम् । 'यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोध नम् । शुद्धाच्च वाक्याद्यः शुद्धः म शुद्धोऽर्थ इति स्थितिः' इति || प्रमेयसिद्धेः केनापि प्रमाणेनोद्देश्यत्वात् तस्याप्यागन्तु- कांतकथनेनेव दिव्येनापि निर्वाहात् । चन्द्र. १५२ (६) केचित्तु यस्य वादिनः साक्षिणो यथा सत्यत्वा ‘ऽनभिधायिन इत्यर्थमाहुः तदयुक्तम् । धर्मव्यवहारे छलस्य निरस्यतयाऽनभिधानमात्रेण पराजयासंभवादिति दिक् ।

  1. वीमि.

अनुगुणाननुगुणसाक्षिणां कूटसाक्षिणः कथं ज्ञेयाः उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः । द्विगुणा वाऽन्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ (१) 'अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः ' इत्यस्यापवादमाह-उक्तेऽपीति । पूर्वोक्तलक्षणैः साक्षिभिः साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थवैपरीत्येनाभिहिते यद्यन्ये पूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञातार्था- नुगुण्येन साक्ष्यं ब्रूयुस्तदा पूर्वे साक्षिणः कुटा मिथ्या- वादिनो भवेयुः । नन्वेतदनुपपन्नम् । अर्थिप्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः प्रमाणभूतैः साक्षिभिर्निगदिते प्रमाणान्तरा न्वेषणेऽनवस्थादोषप्रसङ्गात् । 'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वाऽपि पूर्वमा वेदितं न चेत् ॥ यथा पक्केषु धान्येषु निष्फलाः प्रावृपो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा' ।। (नास्मृ.४।६३) इति नारदवचनाच्च । उच्यते, यदाऽर्थी प्रतिज्ञातार्थस्यान्तरात्मसाक्षित्वेनानाविष्कृतदो पाणामपि साक्षिणां वचनमर्थविसंवादित्वेनाप्रमाणं मन्य- मानः साक्षिष्वपि दोषं कल्पयति तदा प्रमाणान्तरा- न्वेषणं केन वार्यते ? उक्तं च, 'यस्य च दुष्टं करणं, यत्र च मिथ्येति प्रत्ययः, स एवासमीचीन' इति । यथा चक्षु- रादिकरणदोषाऽनध्यवसायेऽप्यर्थविसंवादात्तजनितस्य

  • स्वपक्षो मितावत् ।

(१) यास्मृ. २१८०; अपु. २५५/१२-१३ माः (राः); विश्व. २१८२ तमाः (त्तरा:); मिता; ब्यमा ३३५ धन्ये (थँके); अप.; व्यक.६० अपि ( तु) तमाः (तरा:); स्मृच. ९४ विश्ववत् ; स्मुसा. १२१ विश्ववत् ; व्यचि. ६१ विश्ववत् ; नृम. ११; व्यत. २२० विश्ववत्; चन्द्र. १२६ (=) विश्ववत् ; ग्यसौ.५७ यथन्ये (यदन्ये); वीमि. विश्ववत् ; व्यप्र. १३०; व्यउ. ५०; ग्यम. १९; विता. १८१; प्रका. ५९:६१ विश्व- अत् समु.३८ विश्ववत्, भ्य. का. ३७ २८९ क्रिया साक्षिलक्षणा 'नार्थसंबन्धिनो नाता' इति न्यायाधंदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवाक्यंशोधनं कर्तव्यम् | वाक्यशुद्धिश्च सत्यार्थप्रतिपादनेन । 'सत्येन शुद्धयते वाक्यमिति स्मरणात् । एवं शुद्धायाः क्रियाया शुद्धवाक्याच यः शुद्धोऽवगतोऽर्थः स शुद्धः तथाभूत इति स्थितिरीदृशी मर्यादा न्यायविदाम् । करणदोष- बाधकप्रत्ययाभावे सति अवितथ एवार्थ इत्यर्थः । ननु स्वयमर्थिना प्रमाणीकृतान् साक्षिगोऽतिक्रम्य कथं क्रियान्तरं प्रमाणीक्रियते ? नैष दोषः; यतः, ‘क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवलम्वते । स जये- ऽवधृते सभ्यैः पुनस्तां नानुयाक्रियाम्' || इति कात्या- यनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रहनिषेधाज- यावधारणात् प्राक् क्रियान्तरपरिग्रहो दर्शितः | नारदे-

नापि 'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्' इति

वदता जयावधारणोत्तरकालमेव प्रमाणान्तरं निषिद्धं न प्रागपि । तस्मादुक्तेऽपि साक्षिभिः साक्ष्ये अपरितुष्यता क्रियान्तरमङ्गीकर्तव्यमिति स्थितम् । तु एवं स्थिते यद्यभिहितवचनेभ्यः साक्षिभ्यो गुणव त्तमाः द्विगुणा वा पूर्वनिर्देिश असंनिहिताः साक्षिणः सन्ति तदा त एवं प्रमाणीकर्तव्याः । स्वभावेनैव यद् ब्रूयुस्तद् ग्राह्यं व्यावहारिकम्' इत्यस्य सर्वव्यवहारशेष- त्यात् । 'निर्गिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वाऽपि पूर्वमावेदितं न चेत् ॥ इति नारर्दवचनाच्च । पूर्वनिर्दिष्टानामसंभवे त्वनिर्दिष्टा अपि तथाविधा एवं साक्षिणो ग्राह्या न दिव्यम् । 'संभवे साक्षिणां प्राज्ञो वर्जयेदैविकी क्रियाम्' इति स्मरणात् । तेषामसंभवे दिव्यं प्रमाणं कर्तव्यम् । अतःपरमपरितुष्यता- ऽप्यर्थिना न प्रमाणान्तरमन्वेषणीयं मनुवचनादिति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यार्थिनः स्वप्रत्ययविसंवादित्वेन साम्रिवचन-