पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ (१) साक्षिविप्रतिपत्तौ कथं निर्णय: ? इत्यत आह द्वैध इति । साक्षिणां द्वैधे विप्रतिपत्तौ बहूनां वचनं ग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनः तेषां वचनं प्रमाणम् । यदा पुनर्गुणिनां विप्रतिपत्तिस्तदा ये गुण- वत्तमाः श्रुताध्ययनतदर्थानुष्ठानधनपुत्रादिगुणसंपन्नास्तेषां वचनं ग्राह्यम् । यत्र तु गुणिनः कतिपये, इतरे च बहवस्तत्रापि गुणिनामेव वचनं ग्राह्यम् । 'उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित्' इति गुणातिशयस्य मुख्यत्वात् । यत्तु भेदादसाक्षिण इत्युक्तं, तत्सर्वसाम्येना- गृह्यमाणविशेषविषयम् । मिता. व्यवहारकाण्डम् (२) साक्षिणामेकतरवादि निगादितानामुभयवादिनि गादितानां वा द्वैधे तु परस्परविरुद्धार्थाभिधायित्वे बहूनां विरुंद्धाभिधायिसाश्यपेक्षयाऽधिकानां साक्षिणां वचनं ग्राह्यम् । यत्र गुणिनः समसंख्याश्च उभयत्र कोटौ साक्षिणः तत्र विरुद्धाभिधायिसाक्ष्यपेक्षया ये गुणवत्तरा स्तेषां वचनं ग्राह्यम् । तुशब्देन ग्राह्यविपरीतवचनस्य ग्राह्यत्वं व्यवच्छिद्यते । यत्र वादिनोः साक्षिद्वैधे सर्वथा साम्यं तत्र 'साक्षिषूभयतः सत्सु ' इत्यादिना प्राग्व्य- वस्था कृता । स्वसाक्षिणामेव परस्परद्वैधे सर्वथा च साम्ये मानान्तरमनुसरणीयमिति मिश्राः । , वीमि प्रतिशाधनुगुणाननुगुणसाक्ष्युक्त्यधीनों जयपराजयौ य॑स्योचुः साक्षिणः सत्यां प्रतिज्ञांस जयी भवेत् । अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः* (१) एवं च परीक्षितवचना:- 'यस्योचुः साक्षिण: सत्यामि' त्यादि । प्रतिज्ञामित्यविशेषवचनात् कृत्स्नप्रति ऋष्यमा व्याख्यानं अस्मिन्नेव विष्णुवचने (पृ. २.४६) द्रष्टव्यम् । (१) यास्मृ. २१७९; अपु. २५५/११-१२; विश्व. २।८ १ स्योचुः (स्याहुः); मिता.; व्यमा. ३३२ ध्रुवः (ध्रुवं ) विष्णुयाल वस्क्यौ; अप.; व्यक.६० विष्णुयाज्ञवल्क्यौ, स्मृच. ९१: सुबो. २८ ० (८) पू.; स्मृसा. ११८ ध्रुवः (ध्रुवं ) नारदः; व्यचि. ६० पू.; नृप्र. १०; न्यत. २१५ यस्यो... तिज्ञां सत्यां प्रतिज्ञां यस्योचुः साक्षिण:): २.२९ नारद: ; सवि. १४५. स जयी (विजयी); चन्द्र.१५१ न्यमावत्; उयसौ. ५७; वीमि पूर्वार्ध व्यतवत्, ध्रुवः (ध्रुवं ) ; ब्यप्र. १३० व्यमावत् ; ब्यउ. ५.० म्यमावत् ; विता.१७६ सत्यां (सत्यं) दिनो (दितां); राकौ ४०३; सेतु. ११५ नारद:; प्रका. ५९; समु. ३७. शातार्थसत्यत्व एव जयो विज्ञेयः । अन्यथा तु पराजय एव स्यात् । तथा च नारदः– 'देशकालवयोद्रव्य- प्रमाणाकृतिजातिषु । यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तदपि चान्यथा' इति ॥ बह्वर्थप्रतिज्ञायां च–‘न्यून- मभ्यधिकं चार्थे प्रब्रूयुर्यत्र साक्षिणः। तदप्यनुक्तं विशेय- मेष साक्ष्यविधिः स्मृतः' इति ॥ अतः कृत्स्नप्रतिशांतार्थ- सत्यत्व एव ध्रुवो जयः । न्यायमूलत्वाच्च व्यवहारस्मृतेः । विश्व. २१८१ (२) साक्षिमिश्च कथमुक्ते जयः कथं वा पराजय इंत्यत आह - यस्येति । यस्त्र वादिनः प्रतिज्ञां द्रव्य- जातिसंख्यादिविशिष्टां साक्षिणः सत्यां वदन्ति सत्य- मेवं जानीमो वयमिति स जयी भवति । यस्त्र पुनर्वा दिन प्रतिज्ञामन्यथा वैपरीत्येन मिथ्यैतदिति वदन्ति तस्य पराजयो ध्रुवो निश्चितः। मिता. (३) साध्यार्थनिर्देश: प्रतिज्ञा । तत्र प्रथमवादिनः सा तावद् भवति । प्रत्यवस्कन्दप्राङ्न्यायोत्तरयोरपि साध्यविषयत्वात्प्रतिज्ञाशब्देन परिग्रहः । तेन यत्र वादिनः प्रतिज्ञावादिनो वा प्रतिज्ञां साक्षिणः सत्यामाहुः, सजयी भवति । यस्य तु मिथ्याभूतामाहुः स ध्रुवं पराजयी ; न पुनरर्थापत्तिगम्यः । एकस्य तु जयित्वे द्वितीयस्य पराजयो न साक्षिवचनात् साक्षागम्यते किं चर्थात् ।

  1. अप.

( ४ ) ' यस्ये' ति स्मृतेर्न्यायमूलकतया साक्षिपदस्योप- लक्षणत्वे केनापि प्रमाणेन यत्प्रतिज्ञातोऽर्थः प्रमितः स जयीति । व्यचि. ६० (५) एतावता संदेहे तूष्णींभावे वा न जानामीति भाषणे वा किञ्चिदभिंधाने वा यावत्यर्थे संशयः तत्र क्रियान्तरेण निर्णय इत्यायाति, प्रकृताऽविरोध्यधिका- भिधाने जय एव । प्रकृतविरोध्यधिकामिधाने भङ्गं । एवेति । रत्नाकरकृतस्त्वनभिधानपक्षे क्रियान्तरमनुसर- णीयमिति केचित् | तन्न । व्यवहारविरोधादित्याहुः । एवं च व्यवहारविरोधः, पुरुषशक्तिनिरूपके व्यवहारे प्रमाण- त्वेन वादिना परिगृहीतेन साक्षिणा साध्यसिद्धौ प्रमा- णान्तरपरिग्रहणस्याप्रयोजकत्वात् । तत्प्रमाणकप्रतिज्ञा- तार्थसिद्धेरेव जयित्वप्रयोजकत्वात् । प्रमेयनिरूपणार्थे तु

  • स्मृच., सवि. अपग़तम् ।