पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् २८६ सुकृतं यत्वया किलिजन्मान्तरशतैः कृतम् । तत्सर्वं तस्य जानीहि यं पराजयसे मृषा | (१) कूटसाक्षिणो मिथ्यावादिनः । तेषां यत् पापं तत् प्रकरणान्तरेण दर्शयति - साक्षिण इति । स्मृत्यन्त रान्यायाच्च प्राङ्मुखानुदङ्मुखान् वा प्रयतान् पूर्वाह्न प्रणिहितैकामानार्थप्रत्यर्थिसभ्यसमक्षं तथाभूत एव प्राडू- विवाकोऽपि हि 'ये पातककृतां लोका' इति श्रावयेत् । स्पष्टमन्यत् । एवं श्रावयित्वा तत्स्वरूपापेक्षया यथाई पृच्छेत् । धर्मानभिज्ञांस्त्वेवं प्रतिबोधयेत् –'यस्त्वया सुकृतं किञ्चिज्जन्मान्तरशतैः कृतम् । तत्सर्वं तस्य जानीहि परा- जयसि यं मृषा' ॥ विश्व.२।७७-७९ (२) अर्थप्रत्यर्थिसंनिधौ साक्षिणः समवेतान्– 'ना- समवेताः पृष्टाः प्रब्रूयुरिति गौतमवचनात् । वक्ष्यमाणं श्रावयेत् । तथा ब्राह्मणादिषु श्रावणे मनुना नियमां दर्शित: 'सत्येन शापयेत्' (८।१३) इति । ब्राह्मणं--- 'अन्यथा ब्रुवतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं 'वाहनायुधानि तत्र विफलानी'ति । 'गोबीजकाञ्चनादीनि तब विफलानि भविष्यन्ती’ति वैश्यम् । शूद्रं 'अन्यथा ब्रुवतः तव सर्वणि पातकानि भविष्यन्ती 'ति शापयेत् । अत्र चापवादस्तेनैव दर्शितः । 'गोरक्षकान् वाणिज कांस्तथा कारुकुशीलवान् । प्रेप्यान् वाघुषिकांश्चैव विप्रान् शुद्रवदाचरेत् || ( स्मृ. ८ | १०२ ) इति । विप्रग्रहणं क्षत्रियवैश्ययोरुपलक्षणार्थम् । कुशीलवा गायका: । 'जित: सविनयं दाप्यः शास्त्रदृष्टेन कर्मणा । यदि बादी निगकाङ्क्षः साक्षिसत्ये व्यवस्थितः ॥ इति स्मरणात् । साकाङ्क्षत्क्रियान्तरमवलम्बेतेत्यभिप्राय: । पातकोपपातक महापातककारिणामग्निदानां स्त्रीबाल घातिनां च ये लोकास्तान् सर्वानसौ आप्नोति यः साक्ष्य- नृतं वदेदिति । तथा जन्मान्तरशतैर्यत्सुकृतं कृतं तत्सर्व ( एतान् सर्वान् समाप्नोति ); ब्यप्र. १२७; ब्यड. ४९; विता. १६८; बाल. २१८३ उत्त.; प्रका. ५७; समु. ३५. (१) यास्मृ. २।७५; अपु. २५५/९-१०; शुनी. ४७०० | ७०१; विश्व. २ । ७९ सुकृतं यत्त्वया (यत्वया सुकृतं ) यं परा- जयसे (पराजयसि यं); मिता. मृषा (वृथा); व्यमा ३३१; अप.; व्यक. ५५; व्यचि. ५२; स्मृचि. ४८; नृप्र. १०; चन्द्र. १४८; ब्यसौ. ५२; वीमि. ; व्यप्र. १२७; व्यउ. ४९; विता. १६८; प्रका. ५७; समु. ३५; विव्य. १४ मितावत् तस्य भवति यस्ते अनृतवदनेन पराजितो भवतीति श्रावयेदिति संबन्धः । एतच्च शूद्रविषयं द्रष्टव्यम् । शूद्रं सर्वैस्तु पातकैरिति शूद्रे सर्वपातकश्रावणस्य विहितत्वात् । गोरक्षकादिद्विजातिविषयं च । गोरक्षकान् वाणिजकानि- त्युक्तत्वात् । अन्यानेकजन्मार्जितसुकृतसंक्रमणस्य महा- पातकादिफलप्रासेश्चानृतमात्रेणानुपपत्तेः । साक्षिसंत्रासार्थ मिदमुच्यते । यथाह नारदः – - 'पुराणैर्धर्मवचनैः सत्य- माहात्म्य कीर्तनैः । अनृतस्यापवादैश्च भृशमुत्त्रासयेदिति ॥

  1. मिता.

(३) ब्राह्मणा अपि क्षत्रियवैश्यशूद्रसमाः तेऽपि क्षत्रि- यादिवदेव प्रष्टव्याः । व्यमा. ३३१ (४) कर्तृगामिफलप्रदं हि धर्मे ‘अग्निहोत्रं जुहुया- त्स्वर्गकाम इत्यादीनि श्रुतिवचनानि बोधयन्तीति तद्विरोधपरिहारार्थं साक्षिणामुत्त्रासनायैव 'सुकृतं यत्त्वया किञ्चिदित्यायुच्यते । यानि पुनः श्रुतिभ्योऽविरुद्धानि तानि यथार्थान्येव स्मृतिवचनानि । तथाह नारदः - 'अवीचिनरफे कल्पं वसेयुः कूटसाक्षिणः' । बृहस्पतिः-- 'कूटसत्यः कूटसाक्षी ब्रह्मा च समः स्मृतः' । इत्यादीनि । अत एव प्रायश्चित्तप्रकरणे - 'उक्त्वा चैवानृतं साध्ये कृत्वा च स्त्रीसुहृद्वधम् । इत्यत्र ब्रह्महत्याप्रायश्चित्तं कूट- साक्षिणां मनुर्विदधाति । + अप. 6 (५) 'शुद्रं सर्वेस्तु पातकै: ' इति मानवसंवादात पातकश्रावणं झूद्रविषयकमिति मिताक्षराकारापगक । शपथदानश्रवण विधिभेदात् मानवे च शपथदान एव तन्नियमादस्य सर्वविषयतां तु युक्तामुन्नयामः । व्यप्र.१२७ साक्ष्यमब्रुवतो दण्डः अंब्रुवन् हि नरः साक्ष्यमृणं सदशबन्धकम् । राज्ञा सर्व प्रदाप्य: स्यात् षट्चत्वारिंशकेऽहनि ।

  • वाक्यार्थो विश्ववत् । वीमि, विता. मितागतम् । 'सत्येन

शापयेदित्यादिमनुलोको (८/११३) दिव्यप्रकरणान्तर्गतोऽपि • साक्षिप्रकरणे मिताक्षराकारादिभिः बहुभिर्निबन्धकारैश्च व्याख्यातः । तञ्चिन्त्यम् । 'बृहीति ब्राह्मणं पृच्छेत्' (८1८८) इत्यादिसाक्षि - प्रकरणान्तर्गतमनुःश्लोकविरोधात् । + शेषं मितागतम् । (१) यास्मृ. २१७६; अपु. २५५/५६; विश्व.२/७५ स्यात्... शके (षट्चत्वारिंशत्तमे); मिता. ; अप. विश्ववत् ; व्यक. ५८ विश्ववत् ; स्मृच. ९२ विश्ववत् ; दवि. ३४८ विश्ववत् : व्यसी. ५५; वीमि. वन् हि (वस्तु); व्यप्र. १३०; व्यम. १९;