पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् २८४ उन्मत्तो ग्रहाविष्ट: । अमिशस्तोऽभियुक्तो ब्रह्महत्यादिना । रङ्गावतारी चारण: । पाखण्डिनो निर्ग्रन्थप्रभृतयः । कूटकृत्कपट लेख्यादिकारी। विकलेन्द्रियः श्रोत्रादिरहितः । पतितो ब्रह्महादिः । आप्तः सुहृत् । अर्थसंबन्धी विप्रति पद्यमानार्थसंबन्धी । सहाय एककार्य: । रिपुः शत्रुः । तस्करः स्तेनः । साहसी स्वबलावष्टम्भकारी । दृष्टदोषो दृष्टवितश्रवचनः । निर्धूतो बन्धुभिस्यक्तः। आद्यशब्दा- दन्येषामपि स्मॄत्यन्तरोक्तानां दोपादसाक्षिणां भेदाद- साक्षिणां स्वयमुक्तेमृतान्तरस्य च ग्रहणम् । एते स्त्री बालादयः साक्षिणो न भवन्ति । मिता. (३) स्त्रीबालाद्या असाक्षिणः । एषामविहितत्वादेवा साक्षित्वे प्राप्ते यद्वचनं तद्विहितसाक्ष्यलाभे प्रतिषिद्ध- व्यतिरिक्तानां साक्षित्वज्ञापनार्थम् । अभिशस्तः पापकारि त्वेनाक्षिप्तः । रङ्गावतारी नटादिः । पापाण्डी अवेद- मूलस्मृत्यनुष्ठाता । कूटकृत्कुटमानादिकर्ता । आतो यौनसंबन्धी | माहसी हठकारी । दृष्टदोपः स्तेनादिः । निर्धूतः शिष्टैर्गर्हितः । प्रसिद्ध मन्यत् । Xअप. (४) पुरुषाणां न स्त्री साक्षिणी । बाल आषोडश- वर्षक: । वृद्धो ग्लानेन्द्रियः | उन्मत्त उन्मादयुक्तः । रङ्गा- बतारी नर्तकः। विकलेन्द्रियः सम्पग् दर्शन श्रवणाशक्तः । आप्तो यो यस्य सखा | साहसी मनुष्य मारणसाहसशील: । निद्भूतो निष्पकम्पः । धुञ् कम्पने इत्यस्य प्रयोगः लोक भयशून्य इत्यर्थः । सर्व एवैते मृपाभिधाने लोभाद्यन्य तमकारणस्य संभाव्यमानत्वादसाक्षिण इति बोद्धव्यम । + स्मृसा. १०२ (५) पाखण्डी वेदबाह्यः । सहायो वादिसाहाय्य कर्ता । साहसी प्रसह्य मारणादिकारी | दृष्टदोषः वादा न्तरेऽसत्याभिधायी । तुशब्देन स्यादिभिन्नानां तपस्वीत्यादि यथागुणशून्या- नामसाक्षित्वं व्यवच्छिनत्ति । +वीमि (६) मिता. टीका - अशीतिकेति । अशीतिः परि माणमस्य स अवरो यस्येति विग्रहः । ततोऽर्वाक् न भवति । तदारभ्य भवतीत्यर्थः । कारीति । तेन करोति न तु |

  • व्यप्र. प्रायः मितागतम्, अन्यत्र च गतार्थम् ।

x चन्द्र लोकप्रयोजनं अपवत्, पदार्थ: स्मृसावत् । + शेपपदार्थो मिलावत् । विता, सेतु स्मृसागतम् । विचारेण । अविचारितकारीत्यर्थः । बन्धुभिरिति । 'प्राम- राजकुलश्रेण्यादिभिर्निस्सारितः' इति कल्पतरुः । बाल, उक्तासाक्षित्वप्रतिप्रसवः उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् । सर्व: साक्षी संग्रहणे चौर्यपारुण्यसाहसे ॥ (१) देशकालाद्यपेक्षया पुनः - उभयानुमत इति । अर्थिप्रत्यर्थिभ्यामनु मतोऽतिशयगुणवानेकोऽपि साक्षी स्यात् । अपिशब्दाद् द्वावपि । साक्षिपुनर्वचनं च समक्षदर्शनादेव संग्रहणादौ साक्ष्यं यथा स्यात् । अवि शेषाभिधानेऽपि भूतार्थोपलम्भवचनाशक्तेर्बालादयो न स्युः । Xविश्व. २।७४ (२) व्यवरा: साक्षिणो ज्ञेया इत्यस्यापवादमाह - उभयानुमत इति । ज्ञानपूर्वकं नित्यनैमित्तिककर्मानुष्ठायी धर्मवित् । स एकोऽप्युभयानुमतश्चेत्साक्षी भवति । अपि- शब्दबलाद् द्वावपि । यद्यपि श्रौतस्मार्तक्रियापरा इति व्यवराणामपि धर्मवित्वं समानं, तथापि तेषामुभयानु- मत्यभावेऽपि साक्षित्वं भवत्येकस्य द्वयोर्वोभयानुमत्यैत्र साक्षित्वं भवति इत्यर्थवत् व्यवरग्रहणम् । तपस्विनो दान- शीला इत्यस्यापवादमाह - सर्व इति । संग्रहणादीनि वक्ष्यमाणलक्षणानि । तेषु सर्वे वचन निषिद्धास्तपःप्रभृ- ' तिगुणरहिताश्च साक्षिणो भवन्ति । दोषादसाक्षिणो भेदाद- साक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो न भवन्ति । J x शेषं व्याख्यानं 'तेषामपि न बाल: स्यात्' इति नारद- लोके द्रष्टव्यम् । (१) यास्मृ. २१७२; अपु. २५५/४-५ (असाक्षिण : सर्वसाक्ष्य चौर्यपारुण्यसाहसे ) ; शुनी ४ १६८० पू.; विश्व. २७४ साक्षी ... चौर्य (संग्रहणे साक्षी दण्ड); मिता.; व्यमा. ३१८ वत्येको ( वेदेको) पू. : ३२८ साक्षी संग्रहणे (संग्रहणे साक्षी) उत्त.; अप.; व्यक.४३ वत्येको (वेदेको) पू.; गौमि. १३१२ पू.; स्मृच ७३,७९ उत्त; स्मृसा. ९९ (=) व्यकवत्, पू.; व्यचि. ३९ व्यकवत्, पू .; दवि. २९४ उत्त.; स्मृचि ४६ व्यकवत्, पू .: व्यत. २१२ व्यकवत्, पू.; सवि. १३८ पू.; चन्द्र. १३४ व्यकवत्, पू . ; व्यसौ.४१ व्यकवत् पू.; वीमि.; व्यप्र, ११२ पू., १२० उत्त; व्यउ. ४८; ब्यम. १६ व्यकवत् पू.: १७ उत्त.; विता.१६४ पू., १६६ (=) उत्त.;

राकौ.४०२ पू.;

सेतु. ११८ व्यकवत् पू.; प्रका. ५१ उत्त.; समु. २८: विष्य. ११ व्यकबत्, पू.