पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० दण्डस्ततो दशममंशं दद्यादिति दण्डितः पुनः पृच्छयते । मेधा. व्यवहारकाण्डम् (२) अव्याधितः साक्षी ऋणादानादिव्यवहारेषु पक्षत्रयं यावत् यदि साक्ष्यं न दद्यात्तदा तद्विवादास्पदी- भूतं सर्वर्णमप्युत्तमर्णस्य दद्यात् । तस्माच्च ऋणात् सर्व- स्माद्दशमं भाग राज्ञो दण्डं दद्यात् । #गोरा. (३) अगद इति राजदैवोपप्लव विरहोपलक्षणार्थम् । +मिता. २९७६ (४) बध्यत इति बन्धः दशानां भागानां संबन्धी बन्ध: भागस्तदेकदेशो दशबन्धः । सर्वतः सर्वस्मात् विवादविषयधनात् । इदं च स्मरणार्थ त्रिपक्षदानम् । मवि. (५) तदृणं साक्षिरूपप्रमाणसाध्यं धनं सबै सवृद्धिकं प्राप्नुयाद्दाप्य इत्यर्थः । स्मृच.९२ (६) सर्वतः सर्वेभ्यो ब्राह्मणादिभ्यः । मच. (७) प्राप्नुयात् दण्डत्वेन राज्ञे देयात् । न केवल मेतावदेव किन्तु सर्वतः सर्वद्रव्येषु विवादविपयादन्यत्र द्रव्यान्तरेष्वपि दशबन्धं दशभागं दण्डं प्राप्नुयादित्यर्थः । नन्द, कूटसाक्षिलिङ्गम् । तद्दण्डश्च । यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः | रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः (१) सप्ताहादिति पञ्चमीदर्शनादर्वागियध्याह्यते । सतानां दिवसानामन्यतमस्मिन्नहनि यस्य साक्षिणो रोगादि दृश्यते स मृपावादी देवेन विभावितः पूर्वोक्तेन विधिना दापयितव्यः । रोगोऽत्यन्त पीडाकरोऽग्निगंहंधन-

  • ममु., भाच. गोरागतम् । एतदेव मेधातात्पर्यम् ।

+ व्यप्र. मितावत् । (१) मस्मृ.८/१०८; मिता. २१८०; व्यक. ५८ मनु- नारदौ; उ. २ | २९८ वाक्य (साक्ष्य ) ऋणं... सः (दाप्यो दण्डं च तत्समम्); स्मृच.९४; पमा ११५ दृश्येत (पश्येत्तु); सुबो. २१८० पू.; स्मृसा. १०३ वाक्य (साक्ष्य ) मनुनारदौ; दवि.३४७ स्मृसावत्, मनुनारदी; स्मृचि.४८ दृश्येत (दृष्टे तु) मनुनारदौ; सवि.४९१ यस्य दृश्येत् (दृश्यते यस्य); चन्द्र. १५० स्मृसावत् ; व्यसौ. ५५ स्मृसावत् ; व्यप्र. १३१; व्यउ. ५१; व्यम १९; प्रका.६१ कात्यायनः; समु. ३८. १ गोवाइनदहनः दहनः । पुत्रदारादिप्रत्यासन्नज्ञातिमरणं तस्य कूट- साक्षित्वे लिङ्गम् । +मेधा. (२) यत्र तु प्रत्यर्थिनः स्वप्रत्यय विसंवादित्वेन साक्षि- वचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरि- तोषस्तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात्सप्ताहाव- घिकदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्र च दोषावधारणे विवादास्पदीभूतमृणं दाप्याः । सारानुसारेण दण्डनीयाश्च । अथ दोषानवधारणं तदा प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः - - यस्येति । एतच्च, 'यस्योचुः साक्षिण: सत्याम्' ( यास्मृ. २।७९) इत्यस्याऽपरितुष्यत्प्रत्यर्थिविषयेऽपवादो द्रष्टव्यः । मिता. २१८० 6 (३) उत्कढदिव्ये फलावधिरयम् । क्षुद्रेषु त्वर्वाक्च- तुर्दशादित्यादिस्मृत्यन्तरोक्तः । एतच्च तत्प्रागनुपजात- निमित्तकृतं ग्राह्यम् । मवि. (४) एतच्च परीक्षणं दूतकादे: साक्षिणः कार्य न पुनर्गुणान्वितस्य नृपाध्यक्षयोर्वा । तत्रैकस्याप्यनृतसंभा- वनाऽसंभवात् । स्मृच.९४ ✔ (५) मिता. टीका -- एतदुक्तं भवति । साक्षिभिः साक्ष्ये कथिते यदि प्रत्यर्थी परितुष्यति तदाऽर्थिनो जयः, प्रत्यर्थिनः पराजयः । अथ स्वप्रत्ययविसंवादित्वेन प्रत्यर्थी न परितुष्यति, तर्हि साक्षिपरीक्षणे सप्तदिनेषु क्रियमाणे यदि दोषवन्तः साक्षिणः तदा यस्य दृश्येत सप्ताहादि ति मनुवचनेन 'यस्योचुः साक्षिणः सत्यामि'ति योगीश्वरवचनमपोद्यते । तथा च प्रत्यर्थिनो जयः । अपरस्य पराजय इति ।

  1. सुचो. २१८०

८ (६) अत्र यद्यपि भवदेवेन कृतदिव्यस्येति लिखि- तं, तथाप्युक्तसाक्ष्यस्येत्यभिधानादकृतदिव्यस्यापि द्रष्ट- व्यम् । कृतदिव्यस्येति प्रायोवादः, अन्यथा निषिद्ध दिव्यस्य साक्षिणोऽतिपीडाकररोगादावपि कूटत्वं न स्यात्, अनतिपीडाकराग्निदाहे न कूटत्वम् । रोगादिकमत्राति- पीडाकरं विवक्षितम्, आचतुर्दशकादह्न इत्येकमूलक- त्वात्, अन्यथाऽतिप्रसङ्गात् रोगादि विशेषस्य तन्मात्र- गामित्वस्य चाप्रतिलम्भप्रसङ्गात् । चन्द्र. १५० (७) दमं कौटसाक्ष्यप्रयुक्तं दण्डम् । असति सप्ताहा- + गोरा., ममु. मेधागतम् । बाल. २१८० सुबोबत |