साक्षी २६७ भूम्यपहारी स्यात् । मीमांसकैरुक्तम् – 'न भूमि: स्यात्स र्वान् प्रत्यविशिष्टत्वात्' इति । (१) कथं पुनरजातानामसति संसर्गे परकीयेन संयोगो येनेदमुच्यते 'हन्ति जातानजातां श्वे'ति । उक्तम्, अर्थवादोऽयमिति । 'सर्वे भूम्यनृते हन्ति मा स्म भूम्य- नृतं वदः'। माऽवादीः भूमिसंबन्ध्यसत्यम् । 'स्मोत्तरे लङ् च' इति लङ्वादः । माऽवादीरित्यादरार्थ मध्यमेन प्रत्यक्षं संबोधनम् । का पुनरियं भूमिर्नाम, यदेतत्पृथिवी- गोलकं पर्वतावष्टम्भनं सागरावधि प्रसिध्दं, 'नन्वियत्याः कः स्वामी को वाऽपहर्ता ? न हि सार्वभौमः कश्चिदस्ति ! तथा च गाथा (ऐब्रा. ८/२१, शब्रा. १३/७/१/१५ ) भूमेः – 'न मा मर्त्यः कश्चन दातुमर्हति' । न कश्चित्सा र्वसौमोऽस्तीत्यभिप्रायः। 'विश्वकर्मन् भौवन मां दिदा सिथ' विश्वकर्मन् भौवनेति पितृव्यपदेशेन स्वनाम्ना च राज्ञो आमन्त्रणं श्रुतम् । मामसौ दातुमिच्छतीति । 'उप- मध्यैति या सलिल मध्ये निमज्जेऽहं, सलिलस्य मध्यम् | एवं संकल्पं वृथा संकल्पितवति त्वयि सलिले मज्जामि । सलिलमज्जनेन नैष्फल्य मत्र दानसंकल्पस्याह । यथा सलिले निक्षिप्तं निष्फलमेव मेतदपीति । 'मृषैष कश्य- पाय संगर:' । तवैष संगरः प्रतिश्रवः प्रतिज्ञानं कश्यपाय ददामीति मोघो वन्ध्योऽस्तु; सर्वसाधारणाऽहं सर्वजनोप- भोग्या । केवलं राजानो रक्षानिर्बन्धमात्रभाज इत्यभिप्रायः । अत एतावत्या भूमेर्न दानापहारसंभव इति कुतो विवाद: ? सत्यम्, यथै भूमिशब्दोऽत्र वर्तते एवं क्षेत्रग्राम स्थाण्डिलादावपि । तत्र च संभवत्येव साम्यं प्रत्यक्षस्यैव दानापहाराविति न किञ्चिदनुपपन्नम् । अपहारश्चास्याः यादृशेन रूपेण अपहारः गृहादेर्न वीरुद्विच्छेदः । अतश्च यः परकीये क्षेत्रे चॅङ्क्रम्येत मृदो वा कश्चिदादद्यान्नासौ स्मृच.८ ८ वदः (वदीः); पमा. ११२वदः (वदेः); स्मृसा. १२१ अपवत् ; स्मृचि.) वे. ४८ अपवत; व्यत. २२० मा स्म... वदः (साक्ष्ये साक्षी मृषा वदन् ) बौधायन: ; सवि. १५६ वदन् ( वदेत्) वदः (वंदे:); व्यसौ. ५२ पमावत्; व्यप्र. १२८ स्मृचवत्, मनु- नारदौ; बिता.१७२ सर्वे (सर्व) नृते (नृतं) मनुनारदौ; सेतु. १२२ मा... वदः (साक्ष्यं साक्षी मृषा वदन्) मनुनारदवीधायनाः; प्रका.५८ पमावत; समु. ३५. १ न त्वि. २ विश्वकर्मा भौवनमादिशद्विश्वकर्म भौवनेति पितृव्यपदेशेन स्वनाम्ना च राशा आमन्त्रणं श्रुतम् । मयासौ रन्तुमिच्छतीति । ३ मैष्यति सलिल, ४ चक्र. एकदेशवंचनं च भूमिशब्दमधिकृत्य भगवान् कृष्ण- द्वैपायनो दानधर्मेषु पठितवान् – 'परैरप्यनुमन्तव्यो दान- धर्मो नृपैर्भुवि । अक्षयो हि निधिर्ब्राह्मो विहितोऽयं महीभृताम्' इति ॥ कृत्स्नगोलकाभिप्रायमेव अदेयत्वं भूमेर्विश्वजिति मीमांसकैरुक्तम्- 'न भूमि: स्यात्सर्वान् प्रत्यविशिष्टत्वादिति । सर्वान् पुरुषान् प्रति चङ्क्रमणादि- योग्यतयाऽविशिष्टा भूमिः स्वीकर्तुमशक्या कथं दीयत इत्यर्थः । अस्मिंस्तु पक्षे ग्रामनगरादि विश्वजिति दात- व्यम् । अन्ये तु पठन्ति 'अन्तरेण सदः पत्नीशालं च दक्षिणा नयन्ती'ति भूमौ गुण विधेरस्यासंभवात्क्षेत्रादे- रप्यत्र दानम् | वदन्ति च एकवचन निर्देशाच्छृणु सौम्येति, साक्षिविषयमेवैतत्संबोधनं, न शिष्यविष- यम् | 'शूद्रमेभिस्तु पातकैः' इत्यत आरभ्य यावन्तो मध्यमपुरुप निर्देशास्ते सर्वेषां पातक भूयस्त्वसमानाख्यात रूपाद्येकवाक्यत्वाच्छूद्रानुयोगार्थाः । ‘अन्धः शत्रुगृहं गच्छेत्' इत्यत आरभ्य सर्वे साक्षिविषया अनुयोगाः । आख्यातवैरूपयेण प्रकरणस्य विच्छेदात् मध्यमपुरुषे समानार्थक्रमत्वात्कर्तव्यो गच्छेदिति प्रथमपुरुपनिर्देश: पूर्वाधिकारनिवृत्यर्थः । मेधा. (२) हिरण्य विषये अनृतं वदन् जातान् पित्रादीन् अजातांच पुत्रादीन् आत्मानृतत्वात् नरके योजयति । भूमिविपये चानृतं वदन् सर्वे प्राणिजातं नरके योज यति, तस्माद् भूमिविषयेऽनृतं न वदेत् ।
- गोरा.
(३) अजातान् पुत्रादीन् । अत्रापि सहस्रमित्य न्वयः | सर्व सहस्रादप्यधिकम् । मवि. (४) जातानजातानिति । स्वकुल इति शेषः । 'पशुवत्क्षौद्रघृतयोर्यच्चान्यत्पशुसंभवम् । गोवद्वस्त्रहरण्येषु धान्यपुष्पफलेषु च । अश्ववत्सर्वयानेषु खरोष्ट्राश्वतरादिषु ।। सवि.१५७
- गमु.
गोरावत् । (१) मस्मृ. ८।९९ इत्यस्योपरिष्टात् अर्धत्रयं प्रक्षिप्तम, ट्राश्व (ष्ट्रव) इति पाठः; समु. ३५ क्षद्र (क्षीर) द्वस्त्र (द्वसु). १ बशनं. २ नादे. ३ स्वामीक