पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् (३) वदतो यस्य वाक्यादिति शेष: । क्षेत्रज्ञः पर- मात्मा न तुष्यतीति । नन्द. अनृतवादिसाक्षिणः विषयभेदेन पातकतारतम्यम् यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन् । तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः * ॥ (१) द्रव्यविशेषानृताश्रयाः पापविशेषाः कूटसाक्षिण इत्येतत्प्रदर्शनार्थे प्रकरणमारभ्यते । तत्रायं श्लोकः ' संबोधनद्वारेणोपदिश्यमान आदरार्थ: संपद्यते । यद् गुह्यं मिथ उपदिश्यते तद् यथाकथञ्चिद्भवतीत्यवधारितं ग्रहणं नातिगुरु | इदं त्वतिमहाप्रयोजनमवहितैः श्रोत- व्यमिति । सौम्येति चैकवचन मनेक शिष्यसंनिधाने भृगावेव विवक्षितम् । यस्मिन् साक्ष्य इति व्यधिकरणसप्तमी । यस्मिन् द्रव्यभेदमिन्ने व्यवहारे यत्साक्ष्यं तत्र तन्निमित्तं यदनृतमित्येषा विषयससमी, अपरा 'यस्य च भावे नेति (व्यासू. २|३|३७) । अथवा द्रव्यभेदात्साक्ष्यभेद- स्ततः समानाधिकरण एव । तावत इति परिमाणे व्युत्पा द्यते । तत्र निमित्तमपि परिमाणं संभाव्यते, शिशून स्त्रियो वृद्धान् इति विशिनष्टि----संख्ययेति । अनुपूर्वश इति सुखप्रतिपत्तये । अनुपूर्वेण ह्यभिधीयमानं सुखेन प्रतीयते । आनुपूर्वी च संख्यागताऽत्राभिप्रेता । तस्या एव वक्ष्यमाणत्वात् 'पञ्च पश्वे' त्यादि । +मेधा. (२) बान्धवान् पूर्वपुरुषान् हन्ति नरके पातयति । केचित्तु तावत्पुरुषहन्तृदोषो भवतीत्यस्यार्थ इत्याहुः । मत्रि एवं संबन्धनात्तस्मान्मुच्यते नियतावृतः । पशून् गोऽश्वपुरुषाणां हिरण्यं भूर्यथाक्रमम् || पँच पश्वनृते हन्ति दश हन्ति गवानृते ।

भविगतं च । गोरा. अशुद्धिसंदेहान्नोद्धृतम् । + ममु. मेधागतं (१) स्मृ. ८ ९७; व्यमा. ३३० साक्ष्ये (साक्ष्य); अप. २।७५ व्यमावत्; व्यक. ५४ मनुनारदौ; स्मृच.८८; पमा. १११; व्यसौ. ५२; व्यप्र. १२८ तावतः (तावन्तः) मनु- नारदौ; प्रका. ५७-५८; समु. ३५. (२) मस्मृ. ८/९७ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् (३) मस्मृ.८८९८; व्यमा. ३३०; अप. २७५; व्यक. ५४ मनुनारदौ; मभा. १३/१६ स्मृत्यन्तरम्; गौमि. १३।१५ १ संबन्धो धन. १ स्तत्र, 1 शतमश्वानृते हन्ति सहस्रं पुरुषानृते* || (१) पशुनिमित्तमनृतम् । शाकपार्थिववत्समासः । पञ्चचान्धवांश्चानृतं हन्ति । ततश्च तेषां नरकपातनम् । मातापितरौ जायापतिमिथुनं चापत्यमिति पञ्च । कथं पुनरन्यकृतेनैनसाऽन्यस्य फलम् ? संसर्गादिति ब्रूमः । तैरयं परित्यज्यत इत्युक्तं भवति । अथवा, तैर्हतैर्यत्यापं तदस्य भवतीत्यन्नन्नपि हन्तीत्युच्यते । अदृष्ट कार्यतुल्य- त्वात् । अर्थवादश्वायं, न तत्कार्योपदेशः । तत्कार्योप- देशे हि हिंसाप्रायश्चित्ती स्यात् । कौटसाक्ष्यप्रायश्चित्तमेतद् भवति । उत्तरोत्तरसंख्यादिवृद्धिः प्रायश्चित्तगौरवार्था । न पुनर्विवक्षितैव । तेनोत्तरोत्तरस्य गरीयः प्रायश्चित्तमित्युक्तं भवति । अयं पुरुषः कस्य दास इत्येवं संशये यदनृतं तत्पुरुपानृतमुच्यते । +मेधा. । (२) पशुविषयेऽनृते पञ्च वान्धवान् नरकेण योजयति, दश गोविषये, शतमश्वविषये, सहस्रं पुरुषविषये । गोरा. (३) पश्वनृते गवाद्यन्यपश्वर्थमनृते सहस्रं पूर्वपूर्व- पुरुषानेव | मवि. (४) हननं तिर्यग्यो नित्वप्राप्तिः । मच. (५) अत्र हरदत्तेन 'क्षुद्रपवे' (गौध. १३/१४- १५) त्यादिगौतमवचनव्याख्याने मनुवचः 'पञ्च पश्च- नृते' इत्याग्रुपन्यस्य व्याख्यातं तत्तु 'यावतो बान्धवान्' इति मानवोपक्रमानालोचननिबन्धनमित्युपेश्यम् । तस्मात् साक्षिसंबन्धिपित्रादिगतसंख्यापरतयैव व्याख्यानं सूचितम् । गौतमीयमपि मानवसंवादेनैव व्याख्येयमेक- मूलकल्पनालाघवाय । ‘त्रीनेव च पितॄन् हन्ति' इत्यादि- बौधायनादिवचनसंवादोऽप्येवम् । व्यप्र. १२९ र्हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्व भूम्यनृते हन्ति मा स्म भूम्यनृतं वदः ॥

  • मभा., गौमि. च (गौध.१३।१५-१६) इत्यत्र (पृ.

२३९-२४०) द्रष्टव्ये । + गोरा, ममु. मेधातिथिभाष्यस्य प्रथमकल्पवदर्थः । (=); स्मृच.८८; पमा.१११; स्मृसा. १२१; स्मृचि. ४८; व्यत. २२० बौधायनः; सवि. १५६ ; व्यसौ. ५२; व्यप्र. १२८ मनुनारदौ; विता. १७१-१७२ मश्वा (श्चान्या) मनु- नारदौ; सेतु. १२२ मनुनारदबौधायना:; प्रका. ५८; समु. ३५. (१) मस्ट. ८/९९ वदः ( वदी: ) ; व्यमा ३३० सर्व (सर्व); अप.२।७५ बदः (वदेव ) ; व्यक. ५४ मनुनारदौ; १ जायामिथुनं.