पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ब्राह्मणं हत्वा ये लोका नरकादिलक्षणाः प्राप्यन्ते तत्कारिभिः ते तव भवन्ति मिथ्यावदतस्तस्मात्सत्यं ब्रूही त्यनुयोगः । यश्च मित्रं द्रुह्यति, ब्राह्मणदारसर्वस्वापहरणा दिना नाशयति, यश्च कृतमुपकारं विस्मृत्य तमेवोपकर्तार मपकरोति, यत्तस्य परत्र दुःखं तदवाप्नोति । मेधा जन्मप्रभृति यत्किश्चित्पुण्यं भद्र त्वया कृतम् | तत्ते सर्व शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा || (१) शुनो गच्छेन्निष्फलं स्याद् भवते इत्यर्थः । अत्यन्तंदोषप्रदर्शनार्थं श्वगमनवचनम् | यथा कृच्छ्रेण महता सुवर्णद्युत्तमद्रव्यमर्जयित्वाऽशुचिप्रवाहे त्यजेत्तादृक् सुकृतं भवति । न पुनरन्यकृतस्य सुकृतस्यान्यत्र गमन- मस्तीत्यसकृदुक्तमेतत् । मेधा मवि. (२) भद्रेति शुद्रसंबोधने । एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे । नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः || (१) पुण्यपापयोरीक्षिता द्रष्टा मुनिस्तूष्णीम्भूतः। मेधा (२) हे भद्र, एक एवाहं शरीरमात्रात्मक एवाहं इत्येवंरूपमात्मानं यस्त्वं बुध्यसे, मैवं मंस्थाः । यस्मादेष पुण्यपापानां द्रष्टा मुनिः स्वरूपतोऽत्यन्तशुद्धरूपस्तव हृदये नित्यमवस्थितः । गोरा. (३) मुनिः ज्ञानवान् परमात्मा । मवि. (४) हे भद्र, एक एवाहमस्मि जीवात्मक इति यदात्मानं मन्यसे, मैवं मंस्थाः । यस्मादेवं पापानां (तिनाम्) बुव (वद); स्मृच.८८ ब्रुव (वद); पमा १११; ब्यचि. ५० अपवत्, मनुनारदौ; स्मृचि. ४८; व्यत. २१५ घ्नो (ना) लोका (लोके) ध्रुव ( वद ) ; सवि. १५६ नो (ना) लोका (चौरा) नस्य (घ्नाश्च) भुव (वद); व्यसौ. ५१ प्नो (ना) लोका (लोके) ते स्यु (वै स्यु ) ; सेतु. १२२ स्मृचवत् ; प्रका. ५७ स्मृचवत्; समु. ३५ व्यकवत्. (१) मस्मृ.८।९०; व्यमा ३३० जन्म ( स्वजन्म ) किञ्चित् (सर्वं); अप.२।७५ भद्र (भद्रं); ब्यक. ५४ भद्र (भद्रं ) सर्वं शुनो (सर्वस्वतो); स्मृच. ८८; पमा. १११; व्यचि. ५० ते सर्व (सबै ते) मनुनारदौ; स्मृचि.४८; नृप्र.१०; सवि. १५६; व्यसौ. ५१; प्रका. ५७; समु. ३५. (२) मस्मृ.८।९१ क.ग.घ. पुस्तकेषु यस्त्वं ( यत्त्वं ) इति पाठः; १ त्येवेत्यर्थ: २ ल्पदोष. पुण्यानां च द्रष्टा मननान्मुनिः सर्वज्ञस्तव हृदये परमात्मा नित्यमवस्थितः । तथा च श्रुतिः - द्वा सुपर्णेत्यादि । #ममु. (५) मिथ्यात्वस्य सर्वदेवज्ञेयत्वमनुवदन् सत्यवादिनः सर्वतीर्थगमनफलवादेन तन्निषेधरूपस्तुतिमाह-एको ऽहमिति द्वाभ्याम् । मच. यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ (१) कः पुनरसौ मुनिर्भयातिशयप्रदर्शनार्थमाह-यम इति । यथा यमः सर्वप्राणिनां देहवनाचुच्छेदकारी यातनामिश्च निगृह्णीते' इति श्रुतिपथमागतो भवतः । सोऽयं तव हृदये वर्तते, न विप्रकृष्टः । सत्रा कृतापराधम- धुनैव नयति । मा चैवं मनसि कृथाः एष आत्मा मदीयो मामुपेक्षिप्यत इति । न ह्येतस्य कश्चिदात्मीयः । तेन चेदविवाद:, स चेत्प्रसन्नः प्रत्ययिनः, किं गङ्गागमनेन स्नानार्थिनः पापशुद्धये, किं वा कुरुक्षेत्रगमनेऽस्ति प्रयो जनम् । यत्फलं पापप्रमोचनलक्षणं ततः प्राप्यते, तदि- हैवाविसंवादिनि परमात्मनि । न हि पापकारिण आत्मा निर्विशङ्को भवति । कि मेऽतः स्यादेतेनेति नास्तिकस्यापि किंकथिका कदाचित् भवत्येव । गङ्गानदी पावयन्ती । कुरुक्षेत्रं तु देश एव पावनः । xमेधा. (२) सर्वसंयमनाद्यमः परमात्मा । वैवस्वत इति दण्डधारित्वात् । देवनाद्देवः । यस्तवैष हृदि तिष्ठति, तेन सह यथार्थकथने यदि तवाविवादः, यदा त्वन्मनोगतम- सावन्यज्जानाति त्वं चान्यथा कथयसि तदान्तर्यामिणा सह विप्रतिपत्तिः स्यात् । मनूक्तमेवात्र गङ्गाकुरुक्षेत्रयोः साम्यं मत्स्यपुराणे व्यासेन स्फुटीकृतम्– 'कुरुक्षेत्रसमा +ममु. गङ्गा यत्र तत्रावगाहिता' इति ।

  • भाच. ममुगतम् । x गोरा. मेधागतम् + शेषं मेधागतम् ।

व्यमा.३३० द्येष (द्देशे ); अप. २१७५ यस्त्वं (यदि ) ते (स) मुनि: ( पुन:); व्यक. ५४; स्मृच.८८; उयचि. ५०-५१ मनुनारदौ; व्यसौ. ५१; प्रका. ५७; समु.२३. (१) मस्मृ. ८।९२; व्यमा. ३३० पू.; अप. २/७५ देवो ... हृदि (देवस्तवैष हृदये); ब्यक.५४; स्मृच.८८; स्मृसा. १२१ देवो (राजा); व्यचि. ५१ मनुनारदौ; सवि. १५६; व्यसौ. ५१; प्रका. ५७; समु.३५. १ तेति.