पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी दिति विधिः । आजातीरिति नायं मर्यादाभित्रिध्योराङ् तथा सति पञ्चमी स्यात् । तस्मादुपसर्गोऽयमनर्थकः प्रल- म्बत इति यावत् । द्वितीया चेयम् । आवृत्तिश्चात्र गम्यते । शतं जन्मान्यावर्तते उदरगृहीतः । #मेधा. (२) विवशं इति क्रियाविशेषणम् । सवि. १५८ (३) शतमाजाती: जन्मशतं व्याप्य | भन्न. (४) आ प्रेत्य जायत इत्याजातिरिति जन्मकालो विवक्षितः । तेनात्यन्तसंयोगे द्वितीया । नन्द • ब्राह्मणो वा मनुष्याणामादित्यस्तेजसामिव । शिरो वा सर्वगात्राणां धर्माणां सत्यमुत्तमम् || ब्राह्मणो वा ब्राह्मण इवेत्यर्थः । एवं शिरो वेत्यत्रापि वाशब्द उपमानार्थोऽवगन्तव्यः । स्मृच.८६ स्थितिश्च लोकधर्मश्च तस्मात्सत्यं विशिष्यते || नाँस्ति सत्यात् परो धर्मो नानृतात् पातकं परम् । साक्षिधर्मे विशेषेण तस्मात्सत्यं विशिष्यते ।। एकमेवाद्वितीयं तु प्रब्रुवन्नावबुध्यते । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव || सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ (१) पूयते शुद्धयति । अन्यस्मादपि पापान्मुच्यत इति यावत् । शेषं गतार्थम् । मेधा. (२) लोकानाप्नोतीत्युक्तम् । हेतुः सत्येनेति । प्रूयते तत्प्रातिप्रतिबन्धकादधर्मान्मुच्यते । अत एव तद्धर्भोंड- प्रतिबन्धतया स्वफलं जनयतीत्याह वर्धत इति । अत (१) इतः प्रभृति सत्यवचनार्थः साक्षिणामनुयोग विधिः । सत्यं वदन् लोकान् स्वर्गादिलक्षणान् अनि न्दितानगर्हितानमिप्रेतफलभोगहेतून् लभते साक्षी । • जातिवचनो वा लोकशब्दः । शुभे जन्मनि जायत इत्यर्थः । अस्मिंश्च जन्मनि कीर्तिः ख्यातिरनुत्तमा, यस्या अन्यदुत्तमं प्रकृष्टं नास्ति, तां लभते । साधुवादो जनेनास्मै दीयते । यस्मादेषा च वाक् सत्या सरस्वती ब्रह्मणा प्रजापतिना पूजिता ।

  1. मेधा.

मच. नन्द. (२) ब्रह्मणा सत्येन विशिष्टा । (३) ब्रह्मपूजिता वेदप्रशस्ता | साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम् । विवशः शतमाजातीस्तस्मात्साक्षी वदेहतम् || (१) पूर्वेण दृष्टादृष्टशुभाशुभप्रदर्शनेन सत्यवचने साक्षिणः प्रोत्साहिताः । अनेन विपरीताभिधाने दुःखो त्पत्तिदर्शनम् । सत्यवचनार्थमेवैतत् । साक्षिणः कर्म माश्यम् । तत्रासत्यं ब्रुवाणो वारुणैः पाशैर्वध्यते पीड्यते । भृशमत्यर्थं विवशः परतन्त्रीकृतः सर्वचेष्टासु वाक्चक्षुर्ग- तास्वपि शतं यावजन्मानि, वारुणाः पाशा धोराः सर्प रज्जवो जलोदराणि वा । एतदोषपरिहारार्थ सत्यं वदे

  • गोरा., ममु. मेधागतम् ।

स्मृच. ८५; पमा. १०८ साक्ष्ये (सत्ये) नाप्नो (न्प्राप्नो); व्यचि. ४७ साध्ये (साक्षी) साक्षी (साध्ये) पूजिता (निर्मिता); स्मृचि. ४७ व्यचिवत्; नृप्र. १० ध्ये (६) नाप्नो ( प्राप्नो) पू.: व्यसौ. ४९; नाभा. २।१७९ (-) वागेषा (वाग्लेषां); व्यप्र. १२७; विता. १७१; प्रका.५५; समु. ३३. . (१) मस्मृ. ८८८२ साक्षी (साक्ष्य); अप. २।७५ पाऊँ.... भृशम् (साक्षी पाशैर्यध्येत दारुणै:) साक्षी (साक्ष्ये); व्यक. ५१ पारौ.…..भ्रंशम् (साक्षी पाशैर्बध्येत वाणै:) साक्षी (कोपे): स्मृच.८६ भृशम् (नर:) जाती (जाति); व्यचि.४७-४८ पूर्वार्ध व्यकबत् ; स्मृचि.४७ व्यचिवत् ; सवि. १५८ ( वदन साक्ष्यनृतं पाशैवंध्यते वारुणैर्नर:) वशः (वशं) जाती (जाति); चन्द्र.१४६ पारौ…...भृशम् (साक्षी पाशैविध्येत दारुणैः) सार्क्ष (साक्ष्ये); ग्यसौ.४९ व्यचिवत् ; नाभा. २११७९ भृशम् (नरः); व्यप्र. १२७ साक्षी (साध्ये) शेषं व्यचिवत्; विता. १७१ शतमाजाती: (पातमायाति) शेषं व्यचिवत्; प्रका. ५५ नाभावत् ; समु. ३४ नाभावत्. १ न्मनि २६१

  • गोरा., मवि., ममु. मेधागतम् ।

(१) मस्मृ. ८1८२ इत्यस्योपरि प्रक्षिप्तश्लोकोऽयम्, ब्राह्मणो वा (ब्रह्मणो वै) इव (दिवि ) इति पाठः; स्मृच.८९; पमा. १०८ उत्तरार्धस्तु नारदस्य; प्रका. ५५; समु. ३३. (२) समु. ३३. मनुस्मृतौ नोपलभ्यते । (३) मस्मृ. ८/८२ इत्यस्योपरि प्रक्षिप्तश्लोकोऽयम् । (४) स्मृ.८१८२ इत्यस्योपरि प्रक्षिप्तश्लोकोऽयम्; समु.३३ उत्त. ( ५ ) मस्मृ. ८1८३; शुनी. ४।६ ९७-६९८ पूय (पूज्य); व्यक. ५१; स्मृच. ८६६ पमा.१०८नारद: व्यचि. ४८; स्मृचि.४७; सवि. १५८; चन्द्र. १४६ शुनीवत् ; व्यसौ. ४९ पूय (पूज्य) वर्ण (धर्मे); व्यप्र. १२७; प्रका. ५५; समु. ३३,