साक्षी २५९ स्ताः । न ह्येते साक्ष्यमवधारयितुं शक्नुवन्ति, बुद्धेरस्थै- र्यादेपरिपाकादिभिर्दोषैस्तदापदि प्रतिप्रेसयमानमसमञ्ज समिति, न ह्यापदि शक्तिरस्याविर्भवति । यो हि बया- तेन वा नवौदनः पक्तव्यः सत्यागौ तु पक्तव्ध इति तादृगेतत्स्यात् (?) । नैप दोष एवमर्थमेवोत्तरश्लोक । आरभ्यते । मेधा. (२) स्त्रीप्रभृतीनां दुष्टाशयत्वादिदोषरहितानामेव साक्षित्वंमत्र वेदितव्यम् । अप. २।७२ (३) तदेतत्सर्वं साहसा द्यस्थिरकर्मविप्रयम् । तत्र प्रश.. स्तानां दुर्लभत्वात् । स्मत्र.७९ बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा । जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा ॥ प्रतिप्रसवपूर्वकं स्त्रीणां सर्वथा निषेधपरत्वे संदर्भसामञ्ज स्यामिति । अलुब्ध इत्यकारप्रश्लेषं विनैव पूर्वपाट एवं लुब्धश्वेदेको न साक्षी अलुब्धस्त्वेकोऽपि पुमान् साक्षीति जीमूतवाहनेनैवं व्याख्यातम् । तत्र लुब्धानां बहूनामप्यसाक्षित्वे एकपदवैयर्थ्यमिति व्यवहार तत्वें दूषणमुक्तम् । तदप्युत्तरवाक्यशेषत्वादस्य न सम्य गिति द्रष्टव्यम् । +व्यप्र. ११६ स्त्रीबालादीनामसाक्षित्वस्य प्रतिप्रसवः 'स्त्रियाऽप्यसंभवे कार्य बालेन स्थविरेण वा । • शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ॥ (१) स्त्रियेति लिङ्गव्यत्यय उक्तः । बालेन स्थविरेण वेति वयोव्यत्ययः । शिष्येणेत्यादिना संबन्धिनः प्रतिप्रसवः । एतच्च प्रदर्शन मेवंविधानां नियमानां व्यभिचाराय । तेन शातिसादृश्ये अपि नाद्रियेते । मुहृद्वैरिदृष्टदोषा- दयस्तु नेष्यन्ते । येषां किञ्चिदसत्याभिधानकरणत्वं दृष्टं नातिव्यापकं ते न प्रतिप्रसूयन्ते । येषां तु बहुव्यापकं ऋचिदेव गुणातिशयं चेति व्यभिचरेत्ततः कचिदेव तत्साक्षिणः । उक्तं च –'एकः सहस्त्राल्लभ्येत न सौहादान शावात् । नार्थसंबन्धतो वाऽपि पुरुषोऽनृतमाचरेत्' इति || असंभवेऽन्येषां साक्षिणां स्त्रियाऽपि कार्यम् । किम् १ साक्ष्यमिति पूर्व श्लोकादनुपज्यते । शिध्येणेति मौखस्रोव संबन्धप्रदर्शनार्थमेतत् । बन्धुनेति (अहार्योत्पत्तिका ?) यौन संबन्धप्रतिप्रसवः । सत्यपि संचन्धिंत्वे यो नाति प्रत्यासन्नः स गृह्यते । तेन भातृव्यमातुलश्वशुरादयो न साक्षिणः । तथाविधे हि बन्धुशब्दो रूढः । दासेनेति स्वस्वामिसंबन्ध उपलक्ष्यते । न स्वाम्युपाध्यायो याजक श्च सर्वविधे विषये साक्षिणः । दासो गर्भदासो भृतको वैर्तेनिकः । ननु चासामर्थ्याद् बालादयः साक्षित्वे निर + प्रथमपाद्रव्याख्यानं ममुवत्, शेषं च मेधावत् । (१) मस्मृ८।७०; विश्व. २|७४; ब्यमा. ३२८; अप. २।७२; व्यक.४९ प्य (वा) ; स्मृच.७९; पमा १०१ बन्धु ... सेन (वापि दासेन बन्धुना); स्मृसा. १०३; व्यचि.४५; स्मृचि. ४५ वा (च) : ) : ४७ पू.; व्यत. २१५; चन्द्र. १४२; व्यसौ. ४७; व्यप्र.१२०; व्यम. १७; विता. १६६ भृत (मृत) नारदः; सेतु. १२१; प्रका. ५१; समु. २९. १ यान. २ न्धत्वे. ३ सर्वेवि, ४ तानि, (१) अनुमानानुसारिणी च निश्रयावगतिस्तत्रैवोक्ता -बालवृद्धेति । एवमन्यत्रापि व्यवहारप्रकरणे न्यायागम विवेकः प्रपञ्चनीयः । विश्व. २।७४ (२) अयमस्यार्थ: । नेहात्यन्तः प्राप्त निबद्ध भ्रान्तबुद्धयो बालादयो गृह्यन्ते येनारभ्योऽर्थ उपदिष्टः स्यात् । किन्तु ये शक्नुवन्त्यवधारयितुं न चातिस्थिरचेतसस्तेभ्य: अनु जायन्ते तेषां वचनमनुमानेन परीक्ष्यम् । यदि संवद् वदन्ति, न च स्वैलन्ति, न शङ्कयमानदोषेण केनचित्स अतास्तत: प्रमाणम् । तदाह - तेषां मृपा वदतामस्थिरां वाचं जानीयात् । एतदुक्तं भवति । वाचोऽस्थैर्येण मृपालं निश्चिनुयात् । तत्र वाचोऽस्थैर्य पदानामितरेतर- मसंगतिः । अस्फुटाऽपरिपूर्णाक्षरत्वं च । एतच्च बाला दीनामवस्थोपलक्षणार्थम् | ये च वयसा व्याधिना वा ऽप्यवस्थामियतीं गता यदन्यद् विवक्षन्तोऽन्यदुच्चारयन्ति तच्चाव्यक्तं, न ते साक्षिणः । एतत्प्रत्यक्षवेद्यमसाक्षित्व कारणम् । अन्यत्तु रागद्वेष धनलोभादि साधारण मनुमा नतः परीक्ष्यम् । तच्चोक्तमेव | उत्सिक्तचेतसः प्रकृत्यै- वोपप्लुता अधीरधियः । मेधा. (३) नन्वस्थिरबुद्धिवादिकारणावगमे स्त्र्यादीनां (१) मस्मृ.८/७१; विश्व २१७४ तां मृषा (तानृतम्); व्यमा. ३२८ च ( तु); व्यक. ४९; स्मृच.८५ व्यमावत् ; व्यसौ. ४७ स्थिरां (थिनां); प्रका. ५४ व्यमावत् ; समु. ३३ व्यमावत्. १ परि २ स्वमानसम ३ खल,
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३३७
दिखावट