पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ व्यवहारकाण्डम् सुवर्णादिस्पर्शनेन सूर्यादिदर्शनेन शापयेदिति शेषः । तथा पुत्रपौत्रैरिति । पुत्रपौत्रशिरः स्पर्शनेन स्वल्पेऽधं शापयेदित्यर्थः । यथावर्णमिति | यस्य वर्णस्य यद्रव्य- स्पर्शनेन शपथ आम्नातः । स्मृत्यन्तरे स तेनैव कारयितव्य इत्यर्थः । व्यक.५३ दुष्टसाक्षिलिङ्गानि तंत्र मन्त्रिभिः शास्त्रसामर्थ्यात् दुष्टलक्षणं ग्राह्यम् | तिर्यक् प्रेक्षते, समन्तादेवावलोकयति, अकस्मान्मूत्रपुरीषं विसृजति, देशाद्देशं गच्छति पाणिना पाणि पीडयति, नखान्निकृन्तति, मुख- मस्य विवर्णतामेति, प्रस्विद्यति चास्यं ललाटं, न चक्षुर्न च वाचं प्रतिपूजयति, अकस्माद् ददाति, प्रशंसति, पुनः पुनरन्यमपनुदति, बहिर्निरीक्षते, शस्त्रं परामृशति, शोकमुपवर्णयति, भूमिं विलि- स्त्रति, शिरः प्रकम्पयति, ओष्ठौं निर्भुजति सृक्किणी परिलेढि, अविस्मितः कर्मसु महत्स्वपि भ्रुवौ संहरति, हसति, तृष्णीं ध्यायति, पूर्वोत्तर विरुद्धं व्याहरति, एवमादि दुष्टलक्षणं क्रुद्धस्य च स्वामिनोऽन्यत्र प्रकृतिशीलात् । वैलक्षण्यस्य दुर्जेयत्वादत्यवधानेन परीक्ष्य वस्तुतत्वानु सरणं करणीयमिति सूचितम् । व्यप्र. १२४ (१) व्यक.५६-५७ औंष्ठौं निर्मु (तृष्णीं निर्भ) व्याह (ब्यवह); व्यचि. ५४ ग्राह्यम् + (तदाह) देवावलोकयति ( दवलो कते) मूत्र (मूत्रं) देशे (देशान्तरं ) खान् (खं ) ददाति (वदति) प्रकम्पयति (कम्पयते) किणी (कनी) कर्म (स्वकम) तूष्णीं (दृष्टिं ) (च०) शीलात् (शीलत्वात् ); व्यप्र. १२४ (तंत्र०) मूत्र (मूत्रं ) नुदति ( वदति) (शोकमुपवर्णयति, भूमि विलिखति ० ) प्रक (प्रक्र) अवि (अतिवि) मह (अमह) (हसति ०); विता. १८६ (तत्र ... लोकयति०) मूत्र (मूत्रं) (देशादेशं गच्छति०) (मुख... भ्रुवौ संह- रति०) (पूर्वोत्तरविरुद्धं व्याहरति ० ). असाक्षिण: शुल्कगुल्माधिकृतौ दूतो वेष्टितशिराः स्त्रियश्च सर्वा गुरुकुलवासिनः परिव्राजकवनस्थनिर्ग्रन्थ शङ्खव्यालग्राहिणः । (१) शुल्काधिकृत: शुल्क ग्रहणस्थानाधिकारी, गुल्मा- धिकृतः, पदातिसमूहो गुल्मः, तदधिकृतः । गुरुकुल वासिनो ब्रह्मचारिणः । निर्ग्रन्थः क्षपणकः। व्यक.४७ (२) अत्राऽसाक्षिण इति प्रकृतम् । गुल्मः स्वस्थान निवेशितः पदातिसमृहस्तदधिकृतः । वेष्टितशिराः उद्धत- वेषो मूर्धव्याथ्यभिभूतो वा । इतरे प्रसिद्धा व्याख्यात- तराश्र | व्यप्र. १२० कौटिलीयमर्थशास्त्रम् कीदृशाः कति च साक्षिण: कर्तव्याः "संप्रतिपत्तावुत्तमः । असंप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोऽनुमता वा त्रयोऽवरा- र्ध्या: । पक्षानुमतौ वा द्वौ ऋणं प्रति, न त्वेवैकः । (१) विकृतस्वरादयः कूटत्वसंभावनायां हेतव इति व्यचि. ५४ भावः । (२) अकस्मादिति तूष्णीमिति च यथायोगमनेकत्र संवन्धनीयम् । अन्यत्र प्रकृतिशीलादिति । प्रकृत्या ऋणसाधनप्रकारमाह संप्रतिपत्ताविति । धनिक- निवेद्यमानार्थाभ्युपगमे ऋणि केन क्रियमाणे, उत्तमो निर्ण- योपायः सिद्ध इत्यर्थः । असंप्रतिपत्तौ तु, साक्षिण: प्रमाणं विवादनिर्णयसाधनम् । साक्षिण इति लिखितस्या- प्युपलक्षणम् । कथम्भूताः साक्षिण : कार्याः, प्रात्ययिकाः स्वभावात् शीलं तिर्यकुप्रेक्षणादिधर्मा यस्य स तथोक्त विश्वासार्हाः, शुचयः बाह्याभ्यन्तरशौचयुक्ताः, अनुमता स्ततोऽन्यत्रैतानि दुष्टऋद्धलक्षणानि । एतेन अवान्तर वा वादिप्रतिवादिसंमताश्च ते च त्रयोऽवरार्थ्याः अम्रतः+( पुत्रपौत्रशिरःस्पश्चैन शापयेत् ); प्रका. ५८ (४४०) | व्यवराः | पक्षानुमतौ वा द्वौ उभयपक्षसंमती द्वौ वा श्राद्यैः (धैः ) षत: (पितस्य) अग्रतः (अग्रे); समु. ३६ (४४० ) साक्षिणौ, ऋणं प्रति ऋणविषये, न त्वेवैकः एकस्तु श्राद्यैः (त्रैः). साक्षी नैव कार्यः । श्रीमू. असाक्षिणः प्रतिषिद्धाः स्यालसहायान्वर्थिध निकधारणिक- वैरिन्यङ्गधृतदण्डाः । पूर्वे चाव्यवहार्याः राज- श्रोत्रियग्रामभृतककुष्ठित्रणिनः पतितचण्डाल- कुत्सितकर्माणोऽन्धबधिरमूकाहंवादिनः स्त्रीराज- (१) व्यक.४७ र्ग्रन्थ (र्गन्ध); व्यसौ.४५ तौ (तो); ब्यप्र. ११९ (च सर्वा०) न्थश (न्थाः श). (२) कौ. ३१११. अग्रेsपि इदमेव स्थलं बोध्यम् ।