पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी न चाज्ञानादस्मरणाद्वा वस्तुनोऽभावो भवति । विप्रति पत्तौ च नैकाधिकेनाधिक्यं ग्राह्यं, किन्तु द्वित्राद्यधिक त्वेनेत्युक्तम् | समेषु च इत्युभयार्थमुभयत्र च संबन्धः तेन समेषु गुणेषु बहुत्वेन निर्णयः कार्यः । तथा समेषु समांशेषु गुणोत्कर्षान्निर्णयः कार्य: । एकान्तगुणोत्कर्षे त्वसंख्येनापि निर्णयः । यथा शङ्खलिखितौ - कामं त्रया- गामेकोऽपि स्वपरिगृहीतः सर्वलोकसंमतः । व्यमा. ३३५ (२) समसंख्यानां वा समगुणानां वा द्वैधे युक्ति- सध्रीचीनं वचनं ग्राह्यमित्यर्थादुक्तं भवतीति । सवि. १४१ कूटसाक्ष्ये कार्यनिवर्तनम् । दण्डपरिमाणम् । य॑स्मिन् यस्मिन् विवादे तु कूटसाक्ष्यनृतं वदेत् । तत्तत्कार्य निवर्तेत कृतं चाऽप्यकृतं भवेत् ।। शंतनाशे पट्चत्वारिंशद्दिवसप्रतीक्षणम् । द्विश- तनाशे त्रिसप्ताहप्रतीक्षणम् । पञ्चशतनाशे द्वि- सप्ताहप्रतीक्षणम् । सहस्रनाशे सप्ताहप्रतीक्षणम् । अथ शतादिसंख्या संख्येयत्वं ताम्रिकपणानामित्याह भारुचिः | सुवर्णमाषाणामित्याह वरदराजः । दण्ड- विधाने 'सहस्रं ब्राह्मणो दण्ड्यः' इत्यादौ सहस्रसंख्यासं- ख्येयत्वं ताम्रिकपणानामित्याह विज्ञानयोगी | भारुचिस्तु सहस्रसंख्यासंख्येयत्वं सुवर्णभाषाणामित्याह । अत्र देशतो व्यवस्था | सवि. १५० पितापुत्रविरोधे न साक्षित्वम् 3 • पितापुत्रविरोधे तु साक्षिणां दशपणो दण्डः । असाक्षिणः 'पित्रा विषदमानगुरुकुलवासिपरिव्राजकवान- प्रस्था निर्मन्थाश्चासाक्षिणः । २४७ (१) पित्रा विवदमाननिर्ग्रन्थयोदांपादप्यसाक्षित्वसंभवे वचनादप्यसाक्षित्वे न विरोधः । व्यप्र. ११४ (२) मिता. टीका – गुरुकुलेत्यनेनोभयोरपि ग्रहणम् । निर्ग्रन्था इति, पापण्डिन इत्यर्थः । बाल.२१७० समुदायसाक्षित्वं पृथग्वा प्रांडूविवाको नृपो वाऽथ समबेतान्पृथक् पृथक् । fi कीदृशाः साक्षित्वमर्हन्ति अंथ साक्षिणः । श्रोत्रियो गुणवान् रूपवान् माणवक: शीलवान् क्षत्रियस्तथा वैश्यः शूद्रो वा धर्मवांश्च वयःशीलोपपन्नः कर्मवादैर्विदितो न त्वेकः । मौला: प्रतिष्ठिता: साक्ष्यर्थ विदितवन्तः कुलीना ऋजवो जन्मतः कर्मतोऽर्थतः शुद्धाः पुत्रिणः सत्यवादिनः श्रौतस्मातक्रियायुक्ताः विगतद्वेष- मत्सरा अप्रवासिनो युवानो लोभमोहविवर्जिता- स्त्र्यवराः नवसंख्याका न जातु कूटतां प्रतिपद्यन्ते । कामं त्रयाणामेकोऽपि स्वपरिगृहीतः सर्वलोक- संमतः । एको न साक्षी एक: साक्षी सर्वथा न ग्राह्यः । गुणवतोऽप्यग्रहणमिति सर्वथापदस्यार्थः । *व्यमा. ३१८ साक्षिशपथविथिः साँक्षिणः सुवर्णरजतरत्नगोधान्यसूर्याग्निगज- स्कन्धाश्वष्टृष्ठरथोपस्थशस्त्रादिभिः तथा पुत्रपौत्राद्यै- यथावर्ण परिग्रह विशेषतः स्याद्देवब्राह्मणस्वामिना- मप्रतः ।

  • व्यचि. व्यभावत् ।

(१) प्रका. ५५; समु.३३ ऽथ (ऽपि ). (२) व्यक.४४; व्यसो.४२ (अथ साक्षिण : ० ) रूपवान्, गुगवान् (गुणवान् रूपवान् ) ( माणवक: ० ) द्रो वा (द्रोडथ) (च०) वादेवि (प्रदानवें). (३) सवि. १३८. 1 (१) विस्मृ. ८/४०; व्यक. १०३ कूटसाक्ष्यनृतं वदेत् (काँटसाक्ष्यं कृतं भवेत्) चाप्य ( वाप्युप) मनुविष्णू; ब्यसौ. ९३ यस्मिन् वि (किल वि) क्ष्यनृतं (क्ष्यं कृतं ) तत्तत् (तत् ) निव (विनिव) तं चा (तम); व्यप्र. ९३ कूटसाक्ष्यनृतं वदेत् (कौट- साक्ष्यं कृतं भवेत् ) . (२) सवि. १५०. (३) विस्मृ.५।११९. (४) मिता. २|७०; सवि. १४० ( परिव्राजक ० ) स्था निर्ग्रन्थाश्चा (स्थनिर्गन्धा अ); व्यप्र. ११३; व्यउ.४८ ल (ला) स्थाश्चा (स्था अ); समु. ३१ निर्मन्थाश्चा (निरुद्धा अ). (४) व्यमा. ३३५. (५) व्यमा.३१८; व्यचि. ३९. (६) व्यक. ५३ णं + (षत् ). जत (जतबन्न) त्राद्यैः (त्रैः ) 3 व्यचि.५० त्राद्यैः (त्रैः ); व्यसौ. ५१ स्थ (स्था) (परिग्रह०) पतः (ष:); वीमि. २/७५ (साक्षिण:... तथा ० ) त्राथैः (त्रैः) ५