पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ सत्येन वाति पवनः । सत्येन भूर्धारयति । सत्ये- नापस्तिष्ठन्ति । सत्येनाग्निस्तिष्ठति | खं च सत्येन । सत्येन देवाः । सत्येन यज्ञाः । व्यवहारकाण्डम् अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते || संत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव । वरं कूपशताद्वापी वरं वापीशतात् ऋतुः ॥ वरं ऋतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् । सत्येन भूर्धारयति सत्येनोदेति भास्करः ।। सत्येन वायुः पवते सत्येनापः स्रवन्ति च । सत्यमेव परं दानं सत्यमेव परं तपः || सत्यमेव परो धर्मो लोकानामिति नः श्रुतम् । नास्ति सत्यात् परो धर्मो नानृतात्पातकं परम् ॥ साक्षिधर्मविशेषेण सत्यमेव वदेत्ततः । सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन सत्यमेष्यसि || जॉनन्तोऽपि हि ये साक्ष्ये तूष्णीम्भूता उपासते । ते कूटसाक्षिणां पापैस्तुल्या दण्डेन वाऽप्यथ । एवं हि साक्षिणं पृच्छेद्वर्णानुक्रमतो नृपः ॥ पारयन्तोऽपीत्यपिशब्देन जानन्तोऽपि, यदि सत्या भिधाने स्वकीयमनर्थप्रवेशमाशङ्कमानास्तूणीमासते. तदा न (?) ते दण्डनीया भवन्तीत्युक्तम् । व्यमा ३३२ •साक्ष्युक्तिरव जयपराजयकारणम् यस्योचुः साक्षिणः सत्यां प्रतिज्ञांस जयी भवेत् । अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः || (१) विस्मृ. ८ | ३६; व्यमा. ३३१; व्यक. ५२ विष्णु नारदौ; १; स्मृसा. १२१ तु (च) मनुः; व्यचि. ५६ तु (च) व ि (बावि) विष्णुनारदौ; व्यत. २१५ व विशिष्यते (वातिरिच्यते मनुः; सेतु. १२२ तु (च) साद्धि (स्राणि) मनुः. (२) व्यमा. ३३१. (३) विस्मृ.८।३७; व्यमा ३३२ जानन्तोऽपि हि (पार यन्तोऽपि) क्ष्ये (क्ष्यं) भूता (भूत्वा) ल्या (ल्यो) वाऽप्यथ (चैत्र हि) प्रथमार्थद्वयम् ; अप.२।७७ जानन्तोऽपि हि (पारयन्तो ऽपि) क्ष्ये (क्ष्यं) वाऽप्यथ ( चैव हि ) प्रथमार्धद्वयम्; ब्यक ५८ अपवत्, प्रथमार्धद्वयम् ; गौमि. १३।१३ अन्त्यार्धमेव; दवि. ३४९ अपवत्,प्रथमार्धद्वयम्; व्यसौ. ५५ अपवत्, प्रथमार्थद्वयम्. (४) विस्मृ.८३८; व्यमा. ३३२ वः (वं); व्यक.६० विष्णुयाशवल्क्यौ; व्यचि.५७. (१) प्रतिपाद्यतया यावत् प्रतिज्ञातं तावजानीम इति यदि साक्षिणो ब्रूयुस्तदा स जयी भवति । न तु भाषा- काले यावत् साध्यं निर्दिष्टं विभावितैकदेशन्यायनिर्विष यापत्तेः । अस्य विस्तरेण पूर्व प्रतिपादितत्वात् । यस्य पुनः साक्षिणोऽन्यथा वदन्ति मिथ्येति तन्न भवत्येवायमर्थस्तस्य • भङ्ग (?) इति, तदाह व्यासः - 'तीर्णप्रतिज्ञो विजयी मिथ्यावादी विहीयते । मिथ्यावादत्वावधारणाद् भङ्ग इत्यर्थः । अत एव यत्र न स्मरामः इत्याहुस्तत्र न प्रति ज्ञातस्य सत्यत्वं नापि मिथ्यात्वं इति । न तत्र जयपराजयौ, परीक्षकाणामन्यतरपक्षावधारणे प्रमाणाभावात्, अतः क्रियान्तरेण दिव्यादिना निर्णयः कार्य: । व्यमा.३३३ (२) अन्यथावादिन इति प्रतिशातार्थस्यासत्यवादिन इत्यर्थः । पूर्वार्ध प्रतिज्ञातार्थसत्यत्वस्यैवोपस्थिततया अन्यथापदेन तदसत्यत्वस्यैवाभिधानात्तथैव व्युत्पत्तेः वादिन इत्यस्य विभागे अर्थपौनरुक्त्यात् अन्यथेतिमा त्रस्य साकाङ्क्षतया भवन्तीत्यध्याहारगौरवात् अध्याहार- लक्षणवाक्यभेदापत्तेश्चेति । व्यचि.५७ साक्षिद्वैध बहुत्वगुणाद्यनुसारेण निर्णयः बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः । समेषु च गुणोत्कृष्टान् गुणिधे द्विजोत्तमान् || (१) न च गृहीतानां वचनद्वैधपरमिदं वचनं, साक्षिद्वैध इति निर्देशात् साक्षि ग्राह्यतया शात्, न तु तत्तद्वचनस्य, न्यायसाम्यावा उभयविषय- परत्वमेव वचनस्य । एवं चैकस्य सति पत्रेऽन्यस्य साक्षिणो न ग्राह्याः । व्यमा. ३०८ पृष्टानां तु वचनद्वैधे कर्तव्यतामाहतुर्मनुविष्णू - बहुत्वमिति । द्वैधमेकस्य अन्वयाभिधायित्वे- ऽपरस्य च व्यतिरेकाभिधायित्वे भवति । पुनर्न जानामि न स्मरामि इत्यभिधानेऽपि सत्यपि वस्तुनि तत्संभवेऽपि द्वैधापवादकत्वात् । अत एव नारद:- 'साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो मताः । तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये शुचिमत्तराः ॥ विप्रतिपत्तिर्विरुद्धार्थाभिधान एव भवति, (१) विस्मृ. ८/३९ परि (प्रति); व्यमा. ३०८, ३२५, च ( तु) : ३३५ मनुविष्णू; अप. २।७७; व्यक. ५९ मनुविष्णू ; सवि. १४१ (साक्षिद्वैधे बहूनां वा गुणवत्तमानां वा वचनं ग्राह्यम् ); व्यसौ. ५६-५७ त्कृष्टा (त्कर्षा).