पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरुषाश्च । अन्यत्र स्ववर्गेभ्यः । साक्षिभावानांनाह - प्रतिषिद्धा इति । स्यालादयो- sष्टौ साक्षिभावे प्रतिषिद्धाः । तत्र अन्वर्थी अर्थिनमनु- रातस्तदुपजीवी, न्यङ्गो निहीनाङ्गः, धृतदण्ड: राज- दण्डितः । शेषाः प्रतीताः । पूर्वे चाव्यवहार्या इत्यादि । पूर्वे अव्यवहार्याः पितापुत्राविभक्तभ्रात्रादयो व्यवहारा नर्हाः पूर्वोक्ताः । अहंवादी साक्षी भवामीति स्वयमागतः । शेषाः प्रतीताः । सर्व एते साक्षित्वे निषिद्धाः । अन्यत्र स्ववर्येभ्य इति । स्वस्ववर्ग्यातिरिक्ताः प्रतिषिद्धाति रेकिण: सामान्यतः साक्षिणो भवेयुः । हिंसादिषु उक्तासाक्षित्वापवादः साक्षी पारुण्यस्तेय संग्रहणेषु तु वैरिस्यालसहायवर्जाः । रहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद् राजतापसवर्जम् । ब्राह्मणोदकुम्भाग्निसकाशे साक्षिण: परिगृह्णी- यात् । तत्र ब्राह्मणं ब्रूयात् - सत्यं ब्रूहीति | राजन्यं वैश्यं वा मा तवेष्टापूर्तफलं, कपालहस्तः शत्रुकुलं भिक्षार्थी गच्छेरिति । शूद्रं - जन्ममरणान्तरे द् वः पुण्यफलं तद् राजानं गच्छेत् । राज्ञा किल्विषं युष्मान् अन्यथावादे । दण्डानुवन्धः । ! पश्चादपि ज्ञायेत यथादृष्टश्रुतम् । एकमन्त्राः सत्य- श्रीमू. | मवहरतेति । । अथ सायनुयोगविधिमाह - ब्राह्मणोदकुम्भाग्नि- सकाश इति । ब्राह्मणान उदकुम्भं अग्निं चाग्रे कृत्वा, साक्षिणः, परिगृह्णीयात् विभावयेत् । ब्राह्मणानुयोगमाह - तत्र ब्राह्मणमित्यादि । राजन्यं वैश्यं वेति । व्यादिति संबध्यते । वचनप्रकार: - मा तवेष्टापूर्तफलमिति । तत्र यज्ञफलं खातादिकर्मफलं च न सिध्येत् । कपाल- हस्तः भिक्षापात्रपाणिः, शत्रुकुलं शत्रुगृहं, भिक्षार्थी सन्, गच्छेः, यद्यनृतं ब्रूया इति शेषः । शूद्रानुयोगमाह--- शूद्रमिति | ब्रूयादितीहापि संबध्यते । वचनप्रकार:- जन्ममरणान्तर इति । जन्ममरणयोर्मध्ये, यद् वः, पुण्य- फलं कृतानां पुण्यकर्मणां फलं, तद् राजानं गच्छेत्, राशश्च, यद् जन्ममरणान्तरे किल्लिपं पापं, तद् युष्मान् गच्छेत्, अन्यथावादे असत्यकथने । दण्डश्च अन्यथा- वादनिमित्तः, अनुवन्धः अनुयायी कालान्तरभावी । न चान्यथावादनिश्चयो निरुपाय इत्याह - पश्चादपीति । यथादृष्टश्रुतं सत्यं तदात्वे गृहितं, पश्चादवि कालान्तरेऽपि, ज्ञायेत अस्मद्यत्नादिति शेषः । एकमन्त्राः यूयं सर्वे संभूय कृतसंमन्त्रणाः भूत्वा, सत्यं परमार्थं, अवहरत उपनयत इति । श्रीमू. पारुष्यस्तेयसंग्रहणेग्वित्यादि । तुशब्दो विशेषे । पारुष्यादिषु, वैरिस्यालसहायवर्जाः, सर्वे साक्षिणः स्युः । रहस्यव्यवहारेपु, एका स्त्री, एकः पुरुषः, एक उप- श्रोता साक्षादश्रावितोऽपि समीपस्थितिवशात् श्रुतार्थः उपद्रष्टा वा समीपस्थितिवशाद् यदृच्छादृष्टार्थो वा, साक्षी स्यात्, राजतापसवर्ज राजानं तापसं च वर्ज- यित्या | श्रीमू. स्वामिनो भृत्यानामृत्विगाचार्या : शिष्याणां मातापितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः । तेषामितरे वा । परस्पराभियोगे चैपामुत्तमाः परोक्ता दशबन्धं दरवराः पञ्चबन्धम् । इति साक्ष्यधिकारः । स्वामिन इति । ते, भृत्यानाम्, ऋत्विगाचार्या: शिष्याणां, मातापितरौ पुत्राणां च, अनिग्रहेण अवला त्कारेण आत्मैच्छयेत्यर्थः, साक्ष्यं साक्षिकर्म कुर्युः । तेषा- मितरे वेति । तेषां स्वामिनां ऋत्विगाचार्याणां माता- पित्रोश्च, इतरे भृत्याः शिष्याः पुत्राश्च, अनिग्रहेण साश्र्यं कुर्युः । परस्परेत्यादि । एषां स्वामिभृत्यादीनां परस्पराभियोगे, उत्तमाः परोक्ताः स्वामिऋत्विगादयः पराजिताश्चेद्, दशबन्धं पराजितधनदशभागं, दद्युः, अवरेभ्यः । अवराः भृत्यादयः, परोक्ताः, पञ्चबन्धं परा- जितधनपञ्चभागं, दद्युः, उत्तमेभ्यः । इति साक्ष्यधिकार म. का. ३१ इति । व्याख्यात इति शेषः । वर्णभेदेन साक्षिवचनविधि: २४९ श्रीमू साक्षिणामनुक्तों दण्डः अनवहरतां सप्तरात्रादूर्ध्वं द्वादशपणो दण्डः त्रिपक्षादूर्ध्वमभियोगं दद्युः । अनवहरतामित्यादि । सत्यावहरणार्थ सप्तरात्रावधि- र्दयः । तत ऊर्ध्वे, अनवहरतां द्वादशपणो दण्डोऽर्था देकैकदिवसस्य । त्रिपक्षादूर्ध्वे, अभियोगं अभियोग- द्रव्यं दद्युः, अर्थाद् दण्डसहितम् । इदं च विधान