पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी अनृतोक्तौ विषयभेदेन दोषतारतम्यम् 'हिरण्यार्थेऽनृते हन्ति त्रीनेव च पितामहान् । पञ्च पश्वनृते हन्ति दश हन्ति गवानृते || " शतमश्वानृते हन्ति सहस्रं पुरुषानृते । सर्व भूम्यनृते हन्ति साक्षी साक्ष्यं मृषा वदन् || अथेदानीं विप्रतिपत्तिविषयभूतदृष्टविशेषापेक्षयाऽनृत- वदने. दोषमाह-हिरण्यार्थ इत्यादि । अत्र हिरण्य- शब्दो रजतादिवचनः । 'हन्ति जातानजातांश्च हिरण्या र्थेऽनृतं वदन्' इति सुवर्णविषये मानवदर्शनात् । बौवि. साक्षिद्वैधे गुणायनुसारेण निर्णय: स्मृतौ प्रधानतः प्रतिपत्तिः । साक्षिद्वैधे सति राज्ञा तत्पुरुषैश्च किं कर्तव्यमित्याह- स्मृताविति । प्राधान्यं तपोनिर्दिष्टविद्यादिभिः। तद्वचनात प्रतिपत्तिः निश्चयः । कार्य इत्यध्याहारः । किमुक्तं भवति ? 'द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः' ॥ इत्येतदुक्तं भवति । बौवि. अन्यथा निर्णये नरकः अँतोऽन्यथा कर्तपत्यम् । उक्तोपायादुपायान्तरेण निर्णये सति 'कर्तपत्यं ' नाम दोषो भवति । कर्ते नरकं तस्मिन्निपातः कर्तपत्यम् । बौवि. अधर्म्यनिर्णयप्रायश्चित्तम् द्वादशरात्रं तप्तं पयः पिबन् कूष्माण्डैर्वा जुहुयात् । तत्र प्रायश्चित्तमाह – द्वादशेति । घृतमिति शेषः । अस्मार्तत्वादाहवनीय एवायं होमो राज्ञो राजपुरुषाणां त्र (?) । कूष्माण्डानि, 'यद्देवा देवहेलनम्' इत्यारभ्य 'पुनर्मन: पुनरायुर्म आगादि' त्यन्तानि आरण्यके प्रसि द्धानि । प्रतिभन्त्रं च होमभेदः । प्रत्यहं होमावृत्तिरिति केचित् । अपरे द्वादशरात्रस्यान्ते सकृदेवेत्याहुः । बौवि (१) बाँध. १ |१०|३५-३६; व्यक. वदन् ( भुवन् ) 'हिरण्यार्थ' इत्यर्थं नास्ति, (२) बौध. १ | १०१ ३८; अप. २१८३ स्मृतौ ... पत्तिः (प्रधा- नतः प्रतिपत्तिरतोऽन्यथा ). (३) बौध. १९१०।३९. (४) बौध. १।१०।४०; अप. २१८३ द्वादश ( कर्ता द्वादश ) (तप्तं०) (वा०). वसिष्ठः कीदृशाः साक्षित्वमर्हन्ति । जातिभेदे साक्षिभेदः । अंथ साक्षिणः । श्रोत्रियो रूपवान् शीलवान् पुण्यवान् सत्यवान् साक्षिणः सर्वेषु सर्व एव वा । स्त्रीणां तु साक्षिणः स्त्रियः कुर्यात् द्विजानां सदृशा द्विजा: । शूद्राणां सन्तः शूद्राश्च अन्त्यानामन्त्य- योनयः । समुदायसाक्षित्यम् समवेतैस्तु यद् दृष्टं वक्तव्यं तु तथैव तत् । विभिन्नैरेव यत्कार्य वक्तव्यं तत् पृथक् पृथक् ॥ यत्कार्यं दृष्टमित्यनुषङ्गः । व्यप्र. १२६ प्रातिस्विकसाक्षित्वम् 3 भिन्नकाले तु यत्कार्य ज्ञातं वा यत्र साक्षिभिः । एकैकं वादयेत्तत्र विधिरेष प्रकीर्तितः ॥ साक्षिवचनविधि: प्राङ्मुखोऽधःस्थितः साक्षी शपथैः शापितः स्वकैः । हिरण्यगोशकृद्दर्भास्तान् संस्पृश्य वदेतृतम् || अनृतषदनदोषः ब्रूहि साक्षिन् यथातत्त्वं लम्बन्ते पितरस्तव | तव वाक्यमुदीक्षांणा उत्पतन्ति पतन्ति च ॥ नैनो मुण्ड: कपाली च भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुकुले गच्छेद्यः साक्ष्यमनृतं वदेत् || (१) वस्मृ. १६।२२-२४ (ख) (सर्वेषु० ) अन्त्ययोनयः (अन्त्याः). (२) स्मृच. ९० ; पमा. ११३ यत्का (तत्का) तत् ( स्यात्); चन्द्र. १४६ व्यं तु (व्यं च ) तत् (च) रेव यत् (श्च कृतं ) वक्तव्यं तत् (तद्द्वक्तव्यं); व्यप्र. १२६; व्यम. १८ नैरेव यत् (न्नेनैव तत्) तत् पृ (तु पृ); विता. १६९ नेरेव (नेनैव); प्रका. ५९ रेव (नेनैव) तत् पृ (च पृ); समु. ३६ वितावत् . (३) शुनी. ४/६९२ पूर्वार्धे ( विभिन्नकाले यज्ज्ञातं साक्षि- भिश्चांशतः पृथक् ) प्रकीर्तितः ( सनातन:); स्मृच. ९०; पमा. ११३ यत्र (यच्च); व्यप्र. १२६ शातं वा (विज्ञात); व्यम. १९ व्यप्रवत् ; प्रका. ५९; समु.३६. (४) स्मृच.८९; पमा ११२ ऽध: ( डव) ण्य (ण्यं); नृप्र. १० ऽध: (५); सवि. १५७ ऽध: (य:) तान्संस्पृश्य ( उपस्पृश्य ); प्रका. ५८; समु. ३६ वदेदृतम् ( ऋतं वदेत् ). (५) वस्मृ. १६।२७ (ख) उदीक्षाणा ( उदीर्यन्तम् ). (६) वस्मृ. १६।२८ (ख) य: साक्ष्यम यस्तुसाक्ष्य).