पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ व्यवहारकाण्डम् बहुवचनमापद्विहितस्याप्युपसंग्रहार्थम् । बहुवचनाद्राज- नियुक्तानां सभासदादीनामपि । चकारान्नार्थसंबन्धिनश्च ।

  • मभा.

सर्ववर्णीयाः साक्षिणः प्रमाणम् अपि शूद्राः । शूद्रा अप्येवंविधाश्चेत्साक्षिणो भवेयुः किं पुनः द्विजातय इति । एवं च गुणवद्विजात्यभावे शूद्रा अप्येवं विधा भवन्तीति द्रष्टव्यम् । xगौमि, अब्राह्मणवचनात्र ब्राह्मण: साक्षी ब्रह्मणस्त्वब्राह्मणवचनादनवरोध्योऽनिबद्धश्चेत् । (१) ब्राह्मणो नात्र (?) श्रोत्रियः । अस्य वृत्तान्त स्यासौ ब्राह्मणः साक्षीत्यब्राह्मणेनोक्ते राज्ञा साक्षित्वेन नावरोध्यो न निर्बन्धेन ग्राह्यः । अनिवद्धश्चेत् स चेल्लेखनिबद्धो न भवति । लेख्यारूढस्तु भवत्येव साक्षी । नात्र कश्चिद् हेतुरस्ति वचनमेव प्रमाणम् ।...तदिह श्रोत्रियः क्वचिदपि साक्षी न भवतीति नारदस्य पक्षः । इहाब्राह्मणवचनादित्युक्तत्वाद् ब्राह्मणेनोक्तः श्रोत्रियोऽपि भवत्येव साक्षी । गौमि. (२) अब्राह्मणः क्षत्रियादिः । अब्राह्मणग्रहणादेव सिद्धे ब्राह्मणग्रहणं श्रोत्रियपरिग्रहार्थम् | इतरो ग्राह्य एवेति । तुशब्दाद् अन्येऽपि लिङ्गिनो न ग्राह्याः विशेषेण ब्राह्मणा इति । +मभा. साक्षिभिः कदा वक्तव्यम् नौसमवेतापृष्टाः प्रब्रूयुः । (१) असमवेता असमुदिता राजा प्राड्विवान

  • शेपपदार्थो गौभिवत् ।

x मभा. गौमिवत् । + शेपवाक्यार्थ: गौमिवत् । (१) गौध. १३१४; व्यक. ४४; भा; गौमि. १३१३; व्यसौ. ४२. (२) गौध.१३।५; व्यक.५८; मभा.; गौमि. १३४. (३) गौध. १३१६; मिता. २।७३ तापू ( ताः पृ ); व्यमा ३२९ नासमवेता (नामसमेताः पृथक्); व्यक.५६ नास (अस) तापृ (ता: पृ); मभा. तापृ ( ता अट); गौमि. १३।५; स्मृच. ९० मितावत्; व्यचि. ४६, ५३ मितावत् ; व्यप्र. १२६ मितावत् ; व्यउ. ४९ नासम (सम) शेषं मिता- वत् ; विता. १६८ नास (तेइस ) शेषं मितावत् ; प्रका. ५९ वाऽपृष्टाः सन्तो न ब्रूयुः । किन्तु समवेताः पृष्टाश्च प्रब्रूयुः । गौमि, (२) समुदिता यावन्तस्ते समवेता अपि राज्ञा प्राङ्क्षिवाकेन वा अपृष्टाः न प्रब्रूयुः । आ प्रश्नात्तद्व्यापारं प्रति मौनिन एव भवेयुरिति प्रशब्दोपादानम् | मभा. (३) असमवेतप्रतिषेधः समवेतानां साक्षिभाव एव । न सर्वत्र । यत आह वसिष्ठः- 'समवेतैस्तु यद्द्दृष्टं वक्तव्यं तु तथैव तत् । विभिन्नैरेव यत्कार्य वक्तव्यं तत् पृथक् पृथक् ॥ भिन्नकाले तु यत्कार्यं ज्ञातं वा यत्र साक्षिभिः । एकैकं वादयेत्तत्र विधिरेष प्रकीर्तितः' इति ॥ +स्मृच.९० (४) तदपि वसिष्ठोक्तसमवेतसाक्ष्यविषयम् । हरदत्तस्तु नासमवेतापृष्टाः प्रब्रूयुरिति पाठं धृत्वाऽसमवेता अपृष्टाश्च न ब्रूयुरिति व्याख्यौ । पूर्वपाठस्तु मिताक्षरा- कारधृतेः सम्यगिति । व्यूप्र. १२६ •साक्षिभिरनुक्तौ दोष: अवचने च दोषिणः स्युः । (१) ते चैत्रम्भूता यदि जानन्त एव दोषिणो दुष्टाः स्युः । इह राजा दण्ड्याः नारकिणः । न ब्रूयुस्तदा परत्र च गौमि. (२) प्रश्नकालेऽप्यवचने चकारादन्यथा वचने च दोषिणो दण्डभाजः स्युः । तथा च मनुः- 'सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् | अब्रुवन् विब्रुव न्वापि नरो भवति किल्विषी' इति ॥ तस्मात्तथ्यमेव वक्तव्यमित्यभिप्रायः ।

  • मभा.

सत्यासत्योक्तिफलम् स्वर्गः सत्यवचने विपर्यये नरकः । न केवलं तथ्यवचने दण्डाभावमात्रं विपर्यये दण्ड- भाक्त्वमेव । किं तर्हि ? स्वर्ग इति । सत्यवचन निमि त्तात् धर्मात्स्वर्गश्च भवति, विपर्यये अनृतवचननिमि

  • स्मृच. मभागतम् ।

+ व्यचि. स्मृचगतम् । मितावत् ; समु. ३६ मितावत्. (१) गौध. १३।७; मभा; गौमि. १३१६ अवचने + (अन्यथा वचने); व्यचि. ५६. (२) गौध. १३१८; मभा; गौमि.१३।७,