पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी त्तादधर्मान्नरकश्च भवति । वचनग्रहणं साक्षिणां एत Xमभा. त्फलं, न तु व्यवस्थाहे तोर्नृपस्येति । अनिर्दिष्टैरपि वक्तव्यम् अनिबद्धैरपि वक्तव्यम् । 6 (१) निबद्धा निर्दिष्टा ' यूयमत्र साक्षिण' इति । तद्विपरीता अनिबद्धास्तैरपि साक्ष्यं वक्तव्यम् । ते च 'अन्ननर्दिष्टा' इत्यारभ्य कथिता गौमि. द्रष्टव्याः (२) इदानीं यत्र पञ्चप्रकारा अपि साक्षिणो न भवन्ति तत्र कथमित्यत आह - अनिबद्धैरिति । निबद्धाः निश्चयेन बद्धाः स्मृताः, पञ्चविधत्वेन स्मृता इत्यर्थः । ये पञ्चविधत्वेन न स्मर्यन्ते ते अनिबद्धाः, येन केन चित्प्रकारेण तद्व्यापारज्ञाः तद्ग्रामस्था इत्यर्थः । तैरपि वक्तव्यम् । अपिशब्दो निबद्धाभावसूचनार्थः । अनि बद्धा अपीत्युक्तेऽपि साक्षिप्रकरणत्वात् साक्षिणः स्युरिति सामर्थ्यलब्धत्वादेव समस्तार्थे लभ्यमाने वक्तव्यग्रहणं तत्रापि येषां वचनं प्रमाणत्वेन निर्दिष्टं तेषामेव वचनं ग्राह्यं नार्थसंबन्धिनां वचनं, ततश्चार्थसंबन्धादिदोपरहि तैरेव वक्तव्यमिति । हिंसादिदोषे निर्गुणा अपि साक्षिण: ने पीडाकृते निबन्ध: । (१) पीडाकृतं डाकरणम् । निबन्धो निबन्ध नमर्थसंबन्धादि । पीडाकरणे हिंसाविषये साक्षिणां नि- बन्धो न निरूप्यः । अर्थसंबन्धादि न किञ्चिदपि दूषणं भवति । आह व्याघ्रः - 'स्तेये च साहसे चैत्र संसर्गे च स्त्रियास्तथा । गरादीनां प्रयोगे च न दोषः साक्षिपु स्मृतः' इति ॥ गौमि. (२) अत्र बन्धशब्देन व्यवस्था उच्यते । निश्चय बन्धो निबन्धः पीडाकृते हिंसादौ । न निबन्धः न प्रति पंधोऽस्तीत्यर्थः । पञ्चप्रकारैरन्यैश्च अर्थसंबन्धादिदूषण- युक्तैरपि वक्तव्यमेवेत्यभिप्रायः । तथा चोशनाः--- ‘साहसे सर्वे भवन्ति' इति । मभा. x गौमि. मभावत् । (१) गौध. १३९; मभा; गौमि. १३१८. (२) गौध. १३।१०; मभा.; गौमि, १३१९. मभा. प्रमत्तोक्ते च । (१) प्रमादोऽनवधानम् । अन्त्ये (?) परे वाक्ये साक्षिणा यदृच्छया यदुक्तं तत्रापि निबन्धो न भवति । अर्थसंबन्धादिदूपणं न भवति । गौमि. (२) प्रमत्तः अज्ञानतः वञ्चनया वा । प्रशब्दोपादा- नात् । यदा निगूढाः साक्षिणः कृत्वा उपायैरेनं रहस्या पादयन्ति ततः तत्स्थाः अर्थसंबन्धादिदूषणयुक्ता अपि साक्षिणो भवन्तीति । प्रमत्तेनोक्त परिभाषित इत्यर्थः । चकारात् स्त्रीगमन व्यापारेऽपि । तथा च व्याघ्र: - 'स्ते ये च साहसे चैव संसर्गे च स्त्रियास्तथा । गरादीनां प्रयोगे च न दोषः साक्षिषु स्मृतः' इति ॥ मभा. अधर्मवचने साक्ष्यादयः सर्वे दोषिणः साँक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम् । विपर्यये नरक उक्तः । न स केवलं साक्षिण एवं किं तर्हि ? साक्षिसभ्येति । तन्त्रं लोकव्यवहारः । धर्म- तन्त्रयोः पीडायां सत्यां साक्षिषु सभ्येषु राजनि कर्तरि च सर्वेषु दोषो भवति । कर्तृग्रहणं दृष्टान्तार्थम् । यावान् कर्तुर्दापस्तावान् साक्ष्यादीनामपि इति । यद्यपि, साक्षिणः पूर्वे दोष उक्तः तथापीह ग्रहणं सम्यादीनां ससाक्षिकेऽपि दोपग्रहगार्थम् । अन्यथाऽसाक्षिकव्यवहारे सभ्यादीनां दोषः । ससाक्षिके तु साक्षिणामेवेत्युक्तं स्यात् । xगौमि. विषयभेदेन साक्ष्यनृतदोपतारतम्यम् २३९ क्षुद्रपश्वनृते साक्षी दश हन्ति । (१) विपर्यये नरक इति सामान्येन साक्षिणो दोष उक्तः । इदानीं व्यवहारविशेष दोपविशेषमाह- क्षुद्रेति । क्षुद्रपशवोऽजाविकादयः । तद्विपयेऽनृतवदने साक्षी दश हन्ति । तेषां दशानां वधे यावान्दोपस्तावानस्य भवति इति । दण्डप्रायश्चित्तेऽपि तदनुगुणे द्रष्टव्ये । गौमि. (२) साक्षिग्रहणं सभ्यादीनामप्युपलक्षणार्थम् । X मभा. गौमिबत् ।

  • शेषं गौंमिगतम् ।

(१) गौध. १३१११; भा.; गौमि. १३।१०. (२) गौध. १३११२; मभा. ; गौमि. १३।११. (३) गौध. १३११५३ मभा., गौमि. १३ १४.

  • मभा.