साक्षी वेदाः सुविज्ञानं चिकितुषे जनाय सञ्चासञ्च वचसी पस्पृधाते। तयोर्यत्सत्यं यतरहजीयस्तदित्सोमोऽवति हन्त्यासत् ॥ चिकितुषे विदुषे जनायेदं मुविज्ञानं विज्ञातुं सुशकं भवति । किं तत् । सञ्चासच्च सत्यं चासत्यं च । वचसी सत्यासत्यरूपे वचने पस्पृधाते मिथ: स्पर्धेते । तयोः सदसतोर्मध्ये यत् सत्यं यथार्थं वचनं यतरद्यच्चजय ऋजुतममकुटिलं तदित्तदेवाकुटिलं सत्यभाषणं सोमो ऽवति रक्षति । असदुक्तविलक्षणमसत्यं हन्ति हिनस्ति । एवं सत्यावयोर्मध्ये कतरोऽनृतभाषीति विद्वद्भिः स विज्ञानमित्यर्थः । ऋसा. सत्यं वै चक्षुः सत्यं हि वै चक्षुस्तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम | चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्रौ विवदमानावेयातामहमद्राक्ष महमश्रौप मिति य एव ब्रूयात् अहमद्राक्षमिति तस्मा एव श्रद्दध्यात् । गौतमः साक्षिण: प्रमाणम्
- विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था |
(१) प्रायश इत्यर्थः । व्यमा. ३१७ (२) विप्रतिपत्तौ साक्षिणः प्रष्टव्याः | तैयथोक्तं तथा सत्यं व्यवस्थाप्यम् । गौमि. (३) विप्रतिपत्तिर्नानाविधा प्रतिपत्तिः अर्थप्रत्यर्थिनोः, तस्यां सत्यां साक्षिहेतुका सत्यव्यवस्था सत्यस्थापना (१) ऋसं. ७।१०४|१२; असं ८।४।१२. (२) शब्रा. ११३ । १।२७. (३) शबा.१४/८/१५/५. (४) गौध. १३।१; व्यमा. ३१७(सत्य०);मभा;गौमि. १३।१; स्मृच. २५, ८३ ;पमा. ४० सत्य (तस्य) ; व्यचि. ३५ (सत्य ०); सवि. ७१; व्यसौ. ३९ (सत्य ०); ग्यप्र. १०६ (सत्य • ); प्रका. १५; समु. १०. कर्तव्या । साक्षिणः पञ्चप्रकाराः यथाह नारद:- 'लिखितः स्मारितश्चैव यहच्छामिज्ञ एव च । गृहश्वोत्तर साक्षी च साक्षी पञ्चविधः स्मृतः' इति । तान्विचार्य तत्वा वोधं इत्यर्थः । साक्षिनिमित्तं सत्यमिति वक्तव्ये व्यवस्था- ग्रहणं साक्षिणां विप्रतिपत्तौ बहूनां वचनं प्रमाणम् । तत्रापि संदेहे विद्वद्वचनं प्रमाणम् । तत्रापि संदेहे तैरेव शपथपूर्वकं प्रतिपादितमित्येवमर्थम् । मभा. (४) साक्षिनिमित्तेति प्रमाणोपलक्षणार्थम् । तेनोत्तरानन्तरमर्थिना साक्षिणः सन्ति चेन्निर्देष्टव्या इत्यभिप्रायः । ते च निर्दिष्टाः सदोषाचेदूपयितव्याः । स्मृच. २५,८३ -- कियन्तः कीदृशाश्च माक्षिणः कर्तव्याः बहवः स्युरनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञाम् । निष्प्रीत्यनभितापाश्चान्यतरस्मिन् । (१) ते पुनः कीदृशाः कियन्तो वेत्याह-बहव इति । वर्णप्रयुक्तान्याश्रमप्रयुक्तान्युभयप्रयुक्तानि स्वानि कर्माणि श्रौतानि स्मार्तानि च तेवनिन्दिता अकरणादन्यथा- करणाद्वा | 'व्यवराः माक्षिणो ज्ञेयाः श्रौतस्मार्तक्रिया- पराः' इति याज्ञवल्क्यः | प्रत्ययः विश्वासस्तेन ये चरन्ति ते प्रात्ययिकाः, एवम्भूता राजामहप्रदीपतया विश्वसनीयाः | अप्रिय- थिनोरन्यतरस्मिन निष्प्रीतयो निःस्नेहा अनभितापा अकृतद्वेषाः । एवम्भूता बहवः साक्षिणः स्युः । 'उभ- यानुमतः साक्षी भवत्येकोऽपि धर्मवित्' इति याज्ञ- वल्क्यः | गौमि. (२) बहवः व्यवराः स्युरित्यर्थः । यथाह मनु:- 'व्यवरैः माक्षिभिर्भाव्यं नृपब्राह्मणसंनिधौ' इति । स्युर्ग्र हणं संदेहव्युदासार्थम् । अनिन्दिताः स्वकर्ममु विहिता- नुष्ठाना इत्यर्थ: । स्वग्रहणं धनपुत्रादावपि । यथाह मनुः - - - गृहिणः पुत्रिणो मौन्याः इत्यादि । कर्मस्विति (१) गौध. १३१२१३; व्यक.४४; मभा. त्यनभि (यभि); गॉमि. १३ (२; व्यसौ. ४ ४२.