व्यवहार कण्डम २३४ (१) उत्तरानुसारेण सर्वत्रैव नियता क्रिया स्मर्यते -प्राङ्न्यायेति । मिता. २१८० (२) एवं च मिथ्याकारणयोः मानुषी दैविकी वा क्रिया । प्राङ्न्याये मानुष्येव । सत्ये न काचिदित्यनु संधेयम् । स्मृच.५३ (३) कारणोक्तौ बलवत्कारणोक्तौ । व्यचि. २२ व्यासः वादिप्रतिवादिनोर्मध्ये केन का प्रमाणोपन्यासः कर्तव्यः प्रौङ्न्याये कारणोक्तौ च प्रत्यर्थी साधयेत् क्रियाम् । मिथ्योत्तरे पूर्ववादी प्रतिपत्तौ न सा भवेत् ॥ (१) मिथ्योत्तरस्याभावरूपत्वात् अभावस्य च भाव निरूपणाधीननिरूपणत्वेन गौरवात्, भावे साक्ष्यादि- कारणसंभवाच्च, पूर्ववादिन एव दृष्टादृष्टक्रियोचितेति भावः। यत्र मिथ्योत्तरं एकत्रांशे सर्वथा समान एवांशान्तरे कारणं तत्र कारणोत्तरं ग्राह्यम् । चन्द्र. ११८ (२) प्राङ्न्यायकारणोत्तरयोः प्राङन्याये कारणे च साधितेऽर्थिसाध्यस्य ग्रहणस्य धारणासाधकत्वाद्यर्थं साधनं प्रत्यर्थिनाऽभ्युपगमाञ्चेति तत्रैव साध्यत्वाविर्भावा- त्तदुपन्यासकारिण एव प्रत्यर्थिनः प्रमाणोपन्यासस्त- त्साधनायोचितः । अर्थिसंबन्धविरहप्रत्यर्थिसंबन्धयोर्द्वयो रपि तेनैव निर्णयात् । मिथ्योत्तरे तु वादिनः प्रमाण दुर्भिक्षं यदि प्रतिज्ञातेऽर्थे, प्रमाणाभावादेव प्रत्यर्थ्यभि- मतोऽर्थिप्रतिज्ञातसाध्यहेत्वभावः सिध्यतीति तत्परिहाराय भावाभावयोर्भावस्यैव साध्यत्वौचित्याचार्थिन एव क्रिया संप्रतिपत्तौ तु न कस्यापि साध्यमस्तीति निरर्थकत्वात् क्रियैव नास्तीत्यर्थः । व्यप्र. ६८.६९ यच्च मिथ्योत्तरे पूर्ववादिनः क्रियादानं नोत्तरवादिन इति प्रागुक्तं तत्र भाषावादिनो मानुपप्रमाणसंभवादुत्तर- वादिनश्च तदसंभवान्मानुषसंभवे च दिव्यानवसरादिति न्यायो मूलमिति । यदि तत्रापि भाषावादिनो दिव्यभिन्न- प्रमाणाभावस्तदा 'न कश्चिदभियोक्तारं दिव्येषु विनि- योजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदै: '॥ इति कात्यायनीयादुत्तरवादिन एव दिव्यं देयम् । पूर्वार्द्धना- र्थिनो दिव्यनिषेधात् प्रत्यर्थिनोऽर्थात्तत्सिद्धौ पुनः परा- ईन तद्विधानस्य 'सिद्धे सत्यारम्भो नियमाय' इति न्यायेन निषेधदाढर्थार्थत्वात् । प्राङ्न्यायकारणोत्तरयोः क्रियापदमुभयक्रियापरमपि मिथ्योत्तरे मानुषमात्रपरं कात्यायनीयानुरोधात् । न चैवमनुषङ्गानुपपत्तिः । तदर्थ- कतयोभयान्वयस्यानुपमहेतुत्वं न यावदर्थकत्वस्य | विरु द्धार्थकत्वे व्यवायवत्संनिधिबाधेनानुषङ्गस्य तुल्ययोगिता- निबन्धस्याभङ्गः । किञ्चिदर्थानन्वयेऽपि तुल्ययोगितायाः सत्त्वात्तदभङ्गात् । यदा तु प्रत्यर्थी संदिहानस्तदा तस्या- धिकारनिश्चयाभावान्मानुषप्रमाणाभावेऽपि न दिव्यं किन्त्वर्थिनोऽधिकारनिश्चयादिति ध्येयम् । न च 'न कश्चित्' इति कात्यायनवचनविरोधः । अधिकारानिश्चये तत्प्रवृत्त्यसंभवात् । ॐव्यप्र. ८५-८६ 'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादनि । प्राङ्न्यायेऽपि तथैव स्यात् प्रतिपत्तौ न सा भवेत् ।। प्रोन्याये जयपत्रेण प्राविवाकादिभिस्तथा । सत्यं वादी समाप्नोति यद्यत्तेन निवेदितम् || (१) प्राङ्न्यायोत्तरे पूर्ववादिन एव जयपत्र, याय- द्रष्टारः अन्येऽपि वा तद्वेदिनः प्रमाणम् । तदाह व्यास:- प्राङ्न्याय इति । व्यमा. ३०९ (२) प्राङ्न्यायोत्तरे मानुष्येव जयपत्रादिका क्रिया इत्याह व्यासः - प्राङ्न्याय इति । - अप. २।८
- व्यवहारतत्वकारोक्त मेवात्र
न्यस्तमिति व्यवहारतत्वं नोध्द्धृतम् । सविस्तरव्याख्यानरूपेणोप- (१) शुनी. ४/६५६ न्याये (न्याय ) च ( तु) साधये (निर्दिश) पू. व्यक.३६ च (तु) साधये (निर्दिशे) मिथ्यो... वादी ( मिथ्योक्तौ पूर्ववादी तु); पमा.७७,८० शुनीवत् पू.; व्यचि. २७ न्याये ( न्याय ) च ( तु ); नृप्र.६ शुनीवत्, पू.; व्यत. २१०; सवि. ९५ (प्राङ्न्यायप्रत्यवस्कन्द्रे प्रत्यर्थी निर्दिशत्क्रियाम् ) पू.; चन्द्र. ११८ पूर्वार्ध शुनीवत्, मिथ्यो ... बादी (मिथ्योक्तों पूर्ववादी तु); व्यसौ. ३५ ये का (यक) च (तु) साधये (निर्दिशे) उत्तरार्ध चन्द्रवत् ; वीमि. २१७ च (तु) सा भवेत् (भावयेत् ); व्यप्र. ६४ शनीवत पू., स्मरणम्: ६८, ८१,१३२ पूर्वार्ध शुनीवत्, उत्तरार्ध चन्द्रवत् ; व्यउ. ४ १ सुनीवत, पू., स्मृतिः; उयम.८ शुनीवत्, प्.; विवा. ६८,७० शुनीवत, पू., स्मृतिः; सेतु. १०९; विष्य.९ पू., स्मृतिः । ९ था (दा). (१) व्यप्र. ८१. (२) व्यमा. ३०९; अप. २१८; व्यक. ३७ त्रेण (त्रे च) त्यं (त्य) त्ते (ने); स्मृच. ५२ त्ते (ने); व्यचि.३० त्यं (त्ये); चन्द्र. १२५ - १२६ यत्ते (घेते); व्यसौ. ३६; व्यम.८ पृ.; प्रका. ३३; समु. २६ तथा (सह); विष्य. +