सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिया ( १ ) यत्तु पितामहवचनं 'स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्' इति तदपि लिखितसामन्तादि सद्भावे दिव्यानि परिवर्जयेदिति व्याख्येयम् । ननु विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवकाश एव । सत्यम् । ऋणादिषु विवादेषु उक्तलक्षणसाश्यप न्यासे अर्थिना कृतेऽपि प्रत्यर्थी यदि च दण्डाभ्युप- गमावष्टम्भेन दिव्यमवलम्बते, तदा दिव्यमपि भवति । साक्षिणामाशयदोषसंभवाद् दिव्यस्य निर्दोषत्वेन वस्तु- तत्व विषयत्वात्तलक्षणत्वाच्च धर्मस्य । यथाह नारदः - 'तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत्' इति । स्थावरेषु तु विवा देषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृतेऽपि सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यमिति विकल्प- निराकरणार्थ 'स्थावरेषु विवादेष्वि'त्यादिपितामहवचनं नात्यन्तिकदिव्य निराकरणार्थम् । लिखितसामन्ताद्यभावे स्थावरविवादेष्वनिर्णय प्रसङ्गात् ।

  • मिता. २।९६

। (२) अत्र मानुपासद्भावे हेतुना निर्णयः । तदसंभवे राजाज्ञयेति मन्तव्यम् । स्मृच.५३ (३) मिता. टीका - स्थावरपदस्य सार्थकत्वमाह-स्थाव- रेषु तु विवादेषु प्रत्यर्थिनेति । अयमभिप्रायः । स्थावरेषु मानुषदिव्यप्रमाणयोर्न विकल्प इति विकल्पनिवारणार्थः स्थावरशब्द इति । सुत्रो.२।९६ (४) संदिग्धं हि सर्वत्र दिव्येन निर्गीयते, न च स्थावरेषु आत्मीयेषु लिखितसाक्षिभुक्तयः सर्वथा न सन्तीति संभवति । तेन तत्र संदेहाभावाद्दिव्याभावः । यत्र तु कालवशात् लिखनं विनष्टं, साक्षिणश्च नष्टाः, भोगश्च यथोद्दिष्टकालादूनः, तत्र संदेहस्य विद्यमान स्वात्, संभवति दिव्यावसर इति न किञ्चिदनुपपन्नम् । + स्मृसा. ११५ 1 (५) एतत् ( चन्द्रिकामतं ) च धर्मस्थानविहीनेषु विवादेषु राजाज्ञारूपप्रमाण निरूपणासंभवाद्धेयम् । न च

  • दित, विता, व्यम. मितागतम् ।

+ व्यचि. स्मृसावत् । ग्यप्र. मितावत् स्मृसावच्च । ४४४ पू.; चन्द्र. १२८; व्यसौ. ३७; व्यप्र. ८३ चे (वै) : २९३ पू.; ब्यड.५३; व्यम. ११; विता. २०३ पू.; राकौ. ४०९ पू.; प्रका. ३४ पू. समु. २६ अपवत्. ब्य. का. १० २३३ राजाज्ञाप्रमाणस्य निरवकाशत्वमिति वाच्यम् । 'उत्तरः पूर्वबाधकः' इति तद्व्याख्यानावसरे पूर्वमेव प्रपञ्चित - त्वात् । अत एव विज्ञानेश्वरमतमेव सभ्यक् । सवि. १०९ दुष्टेष्वनुमानेषु दिव्यैः कार्य विशोधयेत् ।। महापापाभिशापेषु निक्षेपहरणे तथा । दिव्यैः कार्य परीक्षेत राजा सत्स्वपि साक्षिषु ।। तत्र हि साक्षिणामनृताभिधानत्वं विधास्थति- वर्णिनां हि बधो यत्र' इत्यादिना । अप. २।२२ यस्मिन् यस्मिन् विवादे तु साक्षिणां नास्ति संभवः । 6 साहसेपु च सर्वेषु तत्र दिव्यानि दापयेत् || (१) साहसपदं प्राणान्तिकदण्डार्हपरम् । व्यमा. ३१६ (२) साक्षिग्रहणं मानुपप्रमाणोपलक्षणार्थम् । स्मृच. ९५ लेख्यं यत्र न विद्येत न भुक्तिर्न च साक्षिणः । न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः+ ॥ निश्चेतुं ये न शक्याः स्युर्वादाः संदिग्धरूपिणः । तेषां नृपः प्रमाणं स्यात् स सर्वस्य प्रभुर्यतः + || प्रजापतिः

  • लिखितादिक्रिया न स्याच्छपथं दिव्यमेव वा ।

सर्वेषु च विवादेषु योजयेद्दिव्यमेव वा ॥ हारीतः वादिप्रतिवादिनोर्मध्ये केन प्रमाणोपन्यासः कर्तव्यः प्रांङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ||

  • व्यचि. व्यमावत् । + व्याख्यासंग्रहः स्थलादिनिर्दे

शश्च दर्शनविधौ (पृ. १०५ ) द्रष्टव्यः । (१) समु. २६. (२) अप. २१२२ पापा (शापा); स्मृच. ५३; सवि. १०८ पापाभिशापे (शापाभिशंप्त); प्रका. ३४; समु. २६. (३) व्यमा. ३१६ यस्मिन् वि (एव वि); स्मृच. ९५ च सर्वेषु (विशेषेण); व्यचि. ३४; प्रका. ६२ स्मृचवत् ; समु. ५० स्मृचवत् ; विव्य. ११ उत्त. (४) व्यनि. ( = ) पू.; समु. २५. (५) निता. २१७, २१८०; व्यमा. ३०८ न्याय (न्यायें) क्ती तु (क्ती च) निदि शेत् (साधयेत्) मिथ्यो...तु (मिथ्योत्तरे पूर्ववादी); अप. २१८ न्याय (न्याये); स्मृच. ५३; स्मृसा. ९५; व्यचि. २२; व्यनि. अपवत्, बृहस्पतिः; नृप्र. ७; सवि. ९९; चन्द्र. ११८ अप- वत्; व्यम. ९; विता. ७३; राकौ. ३९१; प्रका. ३४ कात्या- यनः; समु. २६ न्याय (न्याये) कौतु (क्तौ च ).