पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् २२६ (३) अनुमानं भुक्तिः, उल्काहस्तत्वादि युक्तिश्च । स्मृच. ५३ (४) लिखितसाश्यादिलेशे सत्येव दिव्यं देयं नान्यथा निरालम्बनवादप्रसङ्गादिति धारेश्वरोद्योतनकृष्णादयो मन्यन्ते । एतच्च विश्वरूपकुमारविज्ञानेश्वरादयो न सहन्ते । अप्रकाशविवादेषु दिव्याभावप्रसङ्गात् । व्यनि. 'ऋणादिकेषु कार्येषु कल्पयेन्मानुषीं क्रियाम् । नृपद्रोहे साहसे च कल्पयेदैविक क्रियाम् || मणिमुक्ताप्रवालानां कूटकृन्न्यासहारकः । हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा ॥ मँहापापाभिशापेषु निक्षेपहरणे तथा । दिव्यैः कार्य परीक्षेत राजा सत्स्वपि साक्षिषु ॥ (१) निक्षेपहरणं वधार्हमहापातकादन्यत् । यथा मनु:- ' रत्नानां चैव सर्वेषां हरणे वधमर्हति' । व्यमा. ३१६ (२) महापापाभियोगे समीचीनसाक्षिसत्वेऽप्यति- निष्कर्षार्थ दिव्येन निर्णयः । सर्वथाशक्यवैपरीत्यसाक्षि- संभवेऽपि तल्लङ्घनमनुचितमिति तदनुसारेण संकोचो बोद्धव्य इति रत्नाकरः । चन्द्र. १२९ (३) अत्र सत्स्वपि साक्षिषु इत्यनेनैतादृशि विषये साक्षिण एव तावन्न संभवन्ति । संभवन्तोऽपि वा कथ- ञ्चित्कूटतया प्रायः प्रदुष्टा इति विवक्षितं, न तु यथा- श्रुतम् । व्यप्र.८४ (१) अप. २१ २२ उत्त.; व्यक. ३९ दिकेषु (दिषु च); व्यसौ. ३८ नृप ... च (साहसे चैव नृपद्रोहे). (२) व्यक. ४० प्रवाला (नालका) क्ष्य: (क्ष्या:); पमा ८९ न्यास (पाश) न्याङ्ग (न्त्याङ्ग) ; व्यनि. सदा (सह); नृप्र.८ टक्कृन्न्यास (टं कृत्वाऽप) ( हिंसको वञ्चकश्चैव परीक्ष्यः शपथैस्त- था); व्यसौ. ३८ प्रवाला (नाशका) कृन्न्यास (कृन्मांस); व्यप्र. ८४; व्यम. ११ प्रवाला (नाणका) क्ष्यः (क्ष्याः); विता. १११ ( मणिमुक्तानाणकानि कूटकृत्या सहासक:) क्ष्यः (क्ष्याः); प्रका. ३३ सदा (तथा); समु. २६ ग्यमवत् . व्यक. ४०; (३) शुनी. ४/७५१-७५२ शापे (शप्ते) तथा (षु च); व्यमा. ३१६; पमा. ८९ क्षेप (क्षेपे ) ; व्यनि. झापे (योगे) क्षेत (क्ष्येत); नृप्र.८; व्यसौ. ३८; चन्द्र. १२९ शापे (योगे); व्यप्र.८४; विता. १११; प्रका. ३३ शांपे (योगे) कार्य (कार्यै:); विग्य. ११ शापे (योगे) तथा (पुच). 'चिरन्तनोपांशुकृते चिरनष्टेषु साक्षिषु । प्रदुष्टेषु समानेषु दिव्यैः कार्य विशोधयेत् || (१) चिरन्तनोपांशुकृते चिरन्तनकृते रहस्यकृते च, समानेषु सदृशेषु | व्यक. ४० (२) चिरन्तनकृते उपांशुकृते रहसि कृते इत्यनेन लेख्याद्यसंभवमेवोपलक्षयति । अत एवाग्रे चिरनष्टेषु प्रदुष्टेषु समानेषु इत्यनेनासाक्षिवन्निमित्तान्युपलक्षितवान् । व्यप्र. ८४ कात्यायनः वादिप्रतिवादिनोर्मध्ये कदा केन प्रमाणोपन्यासः कर्तव्यः 2 शोधिते लिखिते सम्यगिति निर्दोष उत्तरे । प्रत्यर्थिनोऽर्थिनो वाऽपि क्रियाकरणमिष्यते ॥ (१) अर्थिनः प्रत्यर्थिनो वा यस्य साध्यमस्ति असौ तत्साध्यसिद्धये सदुत्तरानन्तरमेव प्रमाणलेखनं कुर्यादि- त्यर्थः । स्मृच.५० (२) एतदेव चन्द्रिकाकारादयः प्रत्याकलनमित्याहुः । Xसवि. १०५ व्यप्र. ६८ (३) क्रियाकरणं क्रियोपन्यासः । न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् || कारणात्पूर्वपक्षोऽपि ह्युत्तरत्वं प्रपद्यते । अतः क्रिया सदा प्रोक्ता पूर्वपक्षप्रसाधिनी ॥ (१) क्रिया प्रत्याकलना । अप. २।१७ x वाक्यार्थ: स्मृचवत् । निर्देशश्च उत्तरप्रकरणे (पृ. १७९) द्रष्टव्यः । (१) सुनी. ४।७५१ समाने (प्रमाणे) येत् ( नम्) उत्त; व्यक. ४०; पमा ९० षु स ( ध्वनु ) ; नृप्र.८ पमावत् ; व्यसौ. स ३८; व्यप्र. ८४ कृते (कृत). (२) शुनी. ४।६४९ शोधि.... ते (लिखिते शोधिते) गिति (क् सति) प्रत्य…...नो (अर्थिप्रत्यर्थिनो:); स्मृच. ५० कर (कार); सवि. १०५ स्मृचवत्, बृहस्पतिः; व्यप्र. ६८ शुनीवत् ; प्रका. ३२ स्मृचवत् ; समु. २५ स्मृचवत्.

  • व्याख्यासंग्रहः स्थलादि-

(३) शुनी. ४/६५८ पू.; अप. २०१७ घिनी (धनी); व्यक. ३६ पु... प्र (उत्तरं प्रति); पमा. ८ ७ छु (उ) सदा (तदा) धि (घ); व्यचि.२२ क्षु (उ); व्यनि. ह्यु (उ) पक्ष (कर्म); नृप्र. ७ व्यचिवत् ; व्यसौ. ३५ झु (उ) प्रोक्ता (देया); व्यप्र. ६० व्यचिवत्; समु. २५ अपवत्.