पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ कलयित्वोत्तरं सम्यक् दातव्यैकस्य वादिनः || (१) ये तु तिष्ठन्ति विप्रतिपत्तिवादिन इति शेषः । विभावना किया दातव्येत्यन्वयः । व्यक. ३६ (२) तेषां धर्माधिकरणस्थानां मध्ये एकस्यार्थिनः प्रत्यर्थिनो वा विभावना क्रिया सभ्यैर्निर्धारयितव्येत्यर्थः । स्मृच. ५० (३) करणे धर्माधिकरणे । ये तिष्ठन्ति वादिनः प्रति यादिनश्च । तेपामुत्तरं मिथ्यादिचतुर्भेदम् । कलयित्वा विचार्य, एतदुत्तरे कस्य क्रियोपन्यास उचित इति निर्धार्य । विभाव्यते साध्यमनयेति विभावना क्रिया प्रमाणमिति यावत् । एकस्य वादिनः अर्थिप्रत्यर्थ्यन्यतरस्य । सभ्यै दर्दातव्या उपन्यसनीयत्वेनाज्ञापयितव्येत्यर्थः । व्यप्र.६८ प्रतिज्ञां भावयेद्वादी प्रत्यर्थी कारणं तथा । प्राग्वृत्तवादी विजयं जयपत्रेण भावयेत् || (१) प्रतिज्ञातमर्थं प्रमाणेन साधयेत् । एतच्च मिथ्यो त्तरे । प्रत्यर्थी कारणं साधयेदित्यर्थः । एतच्च प्रत्यवस्क- न्दनोत्तरे । व्यवहारकाण्डम् व्यक. ३६ (२) प्राग्वृत्तं प्राङ्याय: । जयपत्रेणेति प्राङ्न्याय दार्शप्रभृत्युपलक्षणम् । Xव्यप्र. ६९ मिथ्योक्तौ च चतुष्पात्स्यात्प्रत्यवस्कन्दने तथा । प्राङ्न्याये च स विज्ञेयो द्विपात्संप्रतिपत्तिषु + ॥ प्राङ्न्याये प्रत्यवस्कन्दे प्रत्यर्थी साधयेत्स्वयम् । उत्तरार्थ प्रतिज्ञार्थं अर्थी मिथ्योत्तरे पुनः ॥ मिथ्योत्तरेऽभ्युपगमाभावेन भाषार्थस्य साध्यताभा- वात् प्रतिज्ञार्थमर्थ्यव साधयेदित्यर्थः । कारणोत्तरे तु भाषार्थस्याभ्युपगमादेव साध्यत्वहानान्न प्रतिज्ञावादिनः प्रतिज्ञातार्थसाधनं, किं तूत्तरार्थे अर्थिना यदनभ्युपगतं कारणं तदेव प्रमाणेन प्रत्यर्थिना साध्यम् । स्मृच. ५२ x शेषं व्यकवत् ।

  • व्यचि. व्यकवत् ।

+ व्याख्यासंग्रह स्थलादिनिर्देशश्च व्यवहारस्वरूपप्रकरणे (१.१७) द्रष्टव्यः । भावना) उत्त.; ब्यक.३६ ब्यैक (व्या त); स्मृच. ५०; व्यसौ. १५ तु (ऽत्र) कल (कल्प); व्यप्र. ६८ सम्यक् (सभ्यै:); प्रका. ३२; समु. २४ २५. (१) व्यमा. ३०९; व्यक. ३६; व्याचे. ३०; व्यसौ. ३५; व्यप्र. ६९ दी वि (दिवि ). (२) स्मृच.५२ अर्थी (अथ); प्रका. ३३; समु.२६. 1 श्रुत्वा पूर्वोत्तरं सभ्यैर्निर्दिष्टा यस्य भावना । विभावयेत्प्रतिज्ञातं सोऽखिलं लिखितादिना || विभाव्यते साध्यते साध्यमनयेति विभावना क्रियैव । पूर्वोत्तरं पूर्वपक्षमुत्तरं चेत्यर्थः । द्वन्द्वैकवद्भावः । निर्दिष्टा ब्रूहीत्युपदिष्टा । व्यप्र. ६८ निर्णयसाधनानि, तेषां दैवमानुषभेदौ, तयोरवान्तरभेदाश्च द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा । एकै काsनेकधा भिन्ना मुनिभिस्तत्त्ववेदिभिः ॥ वीमि. २।७ क्रिया प्रमाणम् । साँक्षिलेख्यानुमानं च मानुषी त्रिविधा स्मृता । घटाद्या धर्मजान्ता च दैवी नवविधा स्मृता || (१) अनुमानं भुक्तिः, तथा भोक्तुर्भोग्ये स्वाम्यमनु- मीयते । अप. २।२२ (२) तत्र स्वयम्भुवेति शेषो द्रष्टव्यः । नारदस्मृत सत्यादिभिः सह दैव्या वस्तुतो बहुविधत्वात् । स्मृच. ५० (३) लेखो भोगस्याप्युपलक्षणम् । व्यचि.२७ (१) शुनी. ४/६५४-६५५ श्रुत्वा यै: (साध्यस्य सा धनार्थं हि); व्यक.३७ सोऽ (योs); स्मृच. ५४; स्मृचि. ४२ निर्दि (निकृ) दिना (दिभिः); व्यसौ. ३६; व्यप्र. ६८; प्रका. ३४ (=); समु.२७. (२) व्यमा ३०६ मुनि... भिः (ऋषि- भिस्तत्वदर्शिभिः); अप. २१२२ नेक (नैक) मुनि (ऋषि); व्यक. ३८ मुनि (ऋषि); स्मृच. ५४ वेदि (दर्शि); पमा.८ ७ व्यकवत् ; व्यचि. २७ मुनि (ऋषि) वे (वा); व्यनि. व्यमा वत् ; नृप्र. ७ व्यकवत् ; व्यत. २११ पू.; सवि. १११; व्यसौ. ३६ वे (वा); वीमि. २|७ व्यचिवत् ; व्यप्र. ८१ वे (वा); विता.७५ पू. ; प्रका.३५ स्मृचवत्; समु. २५; विव्य.८ पू. (३) व्यमा ३०६; अप २१२२ स्मृता (क्रिया) जान्ता च (जात्यन्ता ) स्मृता (क्रिया); ब्यक. ३८ त्रिविधा स्मृता (त्रिविधा क्रिया) न्ता (न्या) वी नवविधा (विक्री नवधा); स्मृच. ५० न्ता (ता); पमा.८७ त्रिविधा स्मृता (त्रिविधा क्रिया) पू.; दीक. ३३; व्यचि. २७ ख्या ( खा ) वी नवविधा (विकी नवधा); व्यनि. पू.; नृप्र. ७ स्मृता (क्रिया) पू.; व्यत. २११ वी नधविधा (विकी नवधा); व्यसौ. ३६ पूर्वार्ध व्यकवत्, (घटाया धर्मजान्या तु दैविकी नवधा भवेत्); बीमि.२।७ ख्या (खा) न्ता (ता) शेषं व्यतवत् ; व्यप्र. ८१ मानु... ता (त्रिविधा मानुषी क्रिया) पू.; विता. ७५ न्ता (त्या) त्रिविधा स्मृता (त्रिविधा क्रिया); प्रका.३२ पू.; समु. २५ स्मृता (क्रिया); विव्य.८ पू.