पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिया माणमुपन्यस्तं सभ्यैः परीक्ष्य प्रमाणीकरणीयमेव । न पुनस्तत्र छलमवतारणीयम् । तथा हि पूर्वमेव सूक्तं कृतमिदम् ' तत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः । भूतमेव प्रपद्येत धर्ममूला यतः श्रियः ॥ इत्यादिभिर्व- चनैः । अयं च प्रमाणावकाशः पूर्वावेदितविस्मृतस्यै- अभा.१६-१७ वोक्तः । (२) निर्णिक्तेति वदता (नारदेन ) जयावधारणो- त्तरकालमेव प्रमाणान्तरं निषिद्धं न प्रागपि । तस्मादु क्तेऽपि साक्षिभिः साक्ष्ये अपरितुप्यता क्रियान्तरमङ्गीकर्त- व्यमिति स्थितम्। पूर्वनिर्दिष्टानामसंभवे त्वनिर्दिष्टा अपि तथाविधा एव साक्षिणो ग्राह्या न दिव्यम् । 'संभवे साक्षिणां प्राज्ञो वर्जयेद्दैविकीं क्रियाम्' इति स्मरणात् । तेषामसंभवे दिव्यं प्रमाणं कर्तव्यम् । अतः परमपरितुष्य ताऽप्यर्थिना न प्रमाणान्तरमन्वेषणीयम् । श्रमिता. २३८० (३) सति लिखिते बलवत्सु साक्षिषु तान् विहाय स्वयमेव दुर्बलसाक्ष्युपन्यासेन पराजितस्य बलवत्तरप्रमा गोपन्यासो न न्याय्यो विफलोऽसाविति निर्णांतवचन स्यार्थः । तदेवाह कात्यायनोऽपि 'क्रियां बलवतीमुक्त्वा दुर्बलां योऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात् क्रियाम् ॥ तस्य स्वबलेनैव पराजितत्वात् । व्यमा. ३३५-३३६ (४) निर्णिक्तेऽवसिते व्यवहारे प्रमाणं लिखितं निष्फलं भवेत् साक्षिणो वा । पूर्वे व्यवहारदर्शनात् प्रमाणमस्तीति यदि नावेदितम् । आवेदितं चेत् पत्र- सायभावादवसितेऽपि पुनदर्शिते न पराजितो भवति । नाभा. १।५३ (५) निर्णिक्ते शोधिते । अन्यतरजयपराजयान्यतरा वधारणं प्रापित इति यावत् । पूर्वमेव दुर्बलप्रवलसकल प्रमाणोपन्यांसे कृते तु सर्वप्रमाणानुसारेण 'छलं निरस्य इत्यभिधानात् पश्चादुद्भावितं कृत्रिमत्वादिशङ्काकलङ्कि तमित्यनुपादेयमेवेत्यर्थः । (६) इति नारदोक्तिस्तु परीक्षितसाक्षिवाक्यविषयेति विवेकः । अत एवार्थिनः साक्षिरूपक्रियावलम्चने क्रिया न्तरावलम्बनं न दोषः । साक्षिरूपक्रियानिर्णयाभावात् । 'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्' इति नार

  • अप. मितागतम् ।

२२३ दोक्तेः । व्यउ. ५१ (७) इति तत् जयावधारणोत्तरं निषेधार्थे, न प्राग् इति विज्ञानेश्वरादयः । तन्न | 'कृतं वाप्यकृतं भवेदिति' प्रागुक्तमन्वादिविरोधात् । 'न्यायापेतं यदन्येन राशा- ऽज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेश- येत्' ॥ इति कात्यायनेन निर्णित्तेऽपि न्यायप्रवृत्तेः ' न चैकत्र क्रियाद्वयमिति निषेधाच्च । न तु न्यायतो निर्णिते इत्यर्थः । तत्वं तु सकारणे मिथ्योत्तरे वादिना ग्रहणे साक्षिभिः साधिते प्रत्यर्थी यदि प्रतिदानं प्रति- ग्रहं वा द्विगुणैः साक्षिभिः साधयति तत्परमिदम् । तदु- क्तम् । 'पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः' इति । न च पूर्वनिगदितत्वम् । तत्र पूर्वापरकालोक्तेः, अत्र च तदभावात् पूर्वनिर्दिष्टासंभवे त्वनिर्दिष्टा अपि साक्षिण एव न दिव्यम् । ‘संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत्क्रियाम्' इति नारदोक्तेः । विता. १८२ व्यप्र.८० येथा पक्केषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ॥ यत्पुनः प्रमाणं न पूर्वावेदितं न वाऽपि क्रियाकाले सूपन्यस्तं, तद्विद्यमानमपि निर्णिक्तव्यवहाराणां यथा अत्यन्ताभावेनाप्रमाणं तदाऽयं सोदाहरण श्लोकोऽभिहितो महर्षिणा । यथा पक्केष्विति । यथा पक्केषु धान्येषु वृष्टेर्गुणाः पुन: प्रकरणप्रारम्भादिका निष्फलाः एवं निर्णिक्तव्यव हाराणामपि वादिप्रतिवादिसभ्यानां पुनर्वादप्रारम्भविचा- रादिका गुणा निष्फलाः, अतिक्रान्तावसरत्वादिति । अभा. १७ बृहस्पतिः वादिप्रतिवादिनोर्मध्ये केंदा केन प्रमाणोपन्यासः कर्तव्यः “ ये तु तिष्ठन्ति करणे तेषां सभ्यैर्विभावना | (१) नासं. १९५४; नास्मृ. ११६३; अभा. १७; मिता. २१८०; व्यमा ३३५ र्णिक्त (वृत्त) तथा ( परम् ); व्यक. ३८ र्णिक्त (वृत्त) तथा (भवेत् ); व्यचि. ३१ र्णिक्त (र्णीत) कात्या- यनः; व्यनि व्यचिवत् ; व्यत. २३० व्यचिवत्, कात्यायनः; व्यसौ ३६ व्यकवत; वीमि. २११९ क्ति (णींत) राणां (राभ्यां) तथा (भवेत्); व्यप्र.८० यथा...न्येषु (पक्केषु धान्येषु यथा); व्यउ. ५१; सेतु. १२६ व्यचिवत्, कात्यायन:; प्रका. ५९; समु.३८ र्णिक्त (र्णीत) तथा (भवेत्). (२) शुनी. ४/६५४ ( कल्पयित्वोत्तरं सभ्यैर्दातम्यैकस्य