पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौतमः निर्णयसाधनानि किया विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था । शपथेनैके सत्यकर्म + । आपस्तम्बः 'संदेहे लिङ्गतो दैवेनेति विचित्य । ते च निर्णयन्तः संदेहस्थलेषु लिङ्गतोऽनुमानेन, दैवेन तप्तमाषादिना, इतिशब्दः प्रकारे, यच्चान्यदेवं युक्तं वचनव्याघातादि तेन च विचित्यार्थस्थितिमन्विष्य, निर्णेतारः स्युरित्यध्याहृतेन वाक्यपरिसमाप्तिः । सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत । उ. आ दैवप्रश्नेभ्यः साक्षिप्रभादिभिः शपथान्तैः सुवि चितं यथा भवति तथा विचित्य निरूप्य । राजा दण्डाय प्रतिपद्येत उपक्रमेत । उ. वसिष्ठः 3 ' लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् । धनस्वीकरणं पूर्व धनी धनमवाप्नुयात् ॥ विष्णुः तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समयक्रिया च । वादिनोर्मध्ये कतरस्य प्रमाणोपन्यासः

  • व्याख्यासंग्रहः स्थलादिनिर्देशश्च साक्षिप्रकरणे द्रष्टव्यः ।

+ व्याख्यासंग्रहः स्थलादिनिर्देशश्च दिव्यप्रकरणे द्रष्टव्यः । (१) आध. २१२९१६ ; हिध. २१२०. (२) आध. २|११|३; हिघ. २९. आधर्य कार्यवशाद् यत्र पूर्वपक्षस्य भवेत् तत्र प्रतिवादिनोऽपि । योर्विवदमानयोर्यस्य पूर्ववादस्तस्य साक्षिणः स्थाने। प्रष्टव्याः । (३) वस्मृ. १६७. (४) विस्मृ. ६।२३. (५) विस्मृ. ८/१०; ब्यमा. ३०८ वादः (पक्षः); ब्यसौ.२९ पूर्ववाद (पूर्व: पक्ष). मनुः अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता दिशेद्देश्यं करणं षाऽन्यदुद्दिशेत् ॥ (१) यदा राशा प्राविवाफेन वा संसदि व्यवहारा- धिकरणे 'देहि उत्तमर्णाय धनमिति उक्तस्यापन्हवोऽ- पलापोऽधेमर्णस्य भवति तदाऽभियोक्ता धनस्य प्रयोक्ता उत्तमणों दिशेद्देशं साक्षिणं प्रमाणभूतं निर्दिशेत् । अन्यद्वा करणं लेख्यादि । देशशब्देन लक्षणया धन- प्रयोगप्रदेशवर्तिनां साक्षिणामुपादानात् । करणशब्दः सामान्यशब्दोऽपि गोचलीवर्दवत्साक्षिव्यतिरिक्तं लेख्या- दिकरणमाचष्टे । ततश्च पाठान्तरं ' कारणं वा समुद्दिशे- दिति । अस्याप्ययमेवार्थः । अथवा अयमन्यः पाठः अभियुक्तो दिशेद्देशमिति । अयं वाऽर्थः । यत्राधमण देहीत्युक्तः प्रतिजानीते, सत्यमेव धनं प्रतिदत्तं, यदसा- वभियोक्ता आसीत्स एवाभियुक्तः संवृत्तः । स चाभि- युक्तः संदिशेद्देशं कस्मिन्देशे त्वया मे प्रतिदत्तं कालं च निर्दिशेद्देशग्रहणस्य प्रदर्शनार्थत्वात्करणं वा समुद्दि शेत् । अस्ति भा किं तव प्रतिपादने तत्समुद्दिशेत्येवं ब्रूयात् । अथवा दिशेद्देश्यं यत्तस्मिन्काले चाहे साक्ष्यादि तस्यैव प्रदर्शनं करणं वेति । वाशब्द: चशब्दस्य xमेधा. (२) 'उत्तमर्णस्य धनं देही' ति सभायां प्राविवाके- नोक्तस्याधमर्णस्य 'नास्मै धारयामी'त्यपलापे सति

  • अत्रत्यगोविन्दराजीयग्रन्थः अशुद्धिवाहुल्यान्नोध्द्धृतः ।

X व्यक., मवि., नन्द मेधागतम् । (१) विस्मृ. ८ /११; व्यमा. ३०८ ध (धा) यत्र (यस्य). (२) मस्मृ. ८/५२ ख. श्यं (शं); गोरा. श्यं (शं) ऽन्यदु (समु); व्यक.३७ कर (कार); व्यसौ. २५ श्यं (शं ) कर (कार); व्यप्र. ६९ व्यसौवठ्; समु. ८२. १ रणादिदेश उत्त. २ धर्मेण भ. ३ युक्तो. ४ वृतः. ५ नाहं,