क्रिया अभियोक्ताऽर्थी देश्यं धनप्रयोगदेशवर्तिसाक्षिणं निर्दि- शेत् । प्रायेण साक्षिभिरेव स्त्रीमूर्खादिसाधारणनिर्णया प्राक्साक्ष्युपन्यासः । अन्यद्वा करणं पत्रादि कथयेत् । +ममु. (३) अन्यत् मम धनेनेदं क्रीतं द्रव्यादि । मच. (४) दिशति कथयति यथादृष्टमर्थमिति, देशः साक्षी। व्यप्र.६९ मानुषदेवप्रमाणविषयव्यवस्था यंत्र न स्यात् कृतं पत्रं करणं च न विद्यते । न चोपलम्भः पूर्वोक्तस्तत्र दैवी क्रिया मता ॥ याज्ञवल्क्यः निर्णयसाधनानि, मानुपदैविक भेदौ तयोर्व्यवस्था च प्रेमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् । एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥ (१) न चावश्यं तत्त्वाभिनिवेशिनामपि परमार्थाव गत्युपायाभाव एव । यस्मात् 'प्रमाणं' इत्यादि । यदा हि दृप्रैरेव लिखितादिभिस्तत्वावगतिः, तदा सर्व सुस्थ मेव । अथ तु तानि व्यस्तानि समस्तानि वा न सन्ति, विद्यमानान्यपि वा न परितोषक्षमाणि । तदा वक्ष्यमाण- दिव्यानामन्यतमेन तत्त्वावगमादविरोधः । विश्व.२।२२ (२) 'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् इत्युक्तं, किं तत्साधनमित्यपेक्षिते आह --- प्रमाणमिति । प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् । तच्च द्विविधं मानुषं दैविकं चेति । तत्र मानुषं त्रिविधं, लिखितं भुक्ति: + मच, भाच. ममुगतम् । x शेषं ममुगतम् । (१) मस्मृ.८।५१ इत्यत्र प्रक्षिप्तश्लोकोऽयम्, न स्या (तत्स्या) पत्रं (यत्र), मता (भवेत् ); स्मृसा. ११४ कर (कार). (२) यास्मृ. २१ २२; अपु. २५३१५०-५१; विश्व. २ २ २; मिता; अप.; व्यक. ३८; स्मृच. ५०,९५; पमा.८९ पू. : १५०; स्मृसा. ९५ (लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्) इति पूर्वार्धम् ; व्यचि. २८; व्यनि; स्मृचि. ४२; नृप्र. ७ पू.:८; व्यत. २११; सवि. १०५; व्यसौ. ३७; वीमि. २।२२ : २/६७ पू. : २९५ उत्त.; व्यप्र. व्यउ.४२ कीर्तितम् (तत्त्रयम् ); व्यम.१० : ६० उत्त.; विता. ११०; राकौ. ३९३; सेतु. ८२, १५२:१६९ उत्त.; ११० : १२४ उत्त.; प्रका. ३२; समु. २५. २१३ साक्षिणश्चेति कीर्तितं महर्षिभिः । तत्र लिखितं द्विविधं शासनं चीरकं चेति । शासनमुक्तलक्षणम् | चीरकं तु वक्ष्यमाणलक्षणम् । भुक्तिरुपभोगः | साक्षिणो वक्ष्यमाण- स्वरूपप्रकाराः । ननु लिखितस्य साक्षिणां च शब्दा. भिव्यक्तिद्वारेण शब्देऽन्तर्भावाद्युक्तं प्रामाण्यम् । भुक्तेस्तु कथं प्रामाण्यम् ? उच्यते - भुक्तिरपि कैश्चिद्विशेषणे- र्युक्ता स्वत्वहेतुभूतक्रयादिकमव्यभिचारादनुमापयन्त्यमु पपद्यमाना वा कल्पयन्तीत्यनुमानेऽर्थापत्ती चान्तर्भव तीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्य- तमस्याप्यभावे दिव्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाणमुच्यते मानुषा* भाव एव दिव्यस्य प्रामाण्यमस्मादेव वचनादवगम्यते । दिव्यस्य स्वरूपप्रामाण्ययोः आगमगम्यत्वात् । श्रमिता. (३) एप्रामन्यतमाभावे इति युक्त्यभावस्थाप्युप- लक्षणार्थम् । स्मृच.९५ (४) मिता. टीका - शासनमुक्तलक्षणमिति । 'दत्वा भूमि निबन्धं वा कृत्वा लेख्यं तु कारयेत्' इत्यत्रोक्तरूपमित्यर्थः। भुक्तिरपि कैश्चिद्विशेषणैरित्यादिना । विशेषणानि अनुमानरचनावेलायां स्फुटीभविष्यन्ति । अयमभिप्रायः अनुमानेऽर्थापत्तौ वाऽन्तर्भवतीति प्रमा- णमिति । इदं क्षेत्रादिकमस्य क्रयादिप्राप्तं भवितुमर्हति । आसेघरहितत्वे सति चिरकालोपभोगयोग्यत्वात् । 'संप्रति- पन्नवत्' इत्यनुमानम् । असौ देवदत एतत्क्षेत्रादिविष यकक्रयादिमान् । आसेधरहितचिरकालोपभोक्तृत्वात् । यथा संप्रतिपन्नः क्षेत्रादाविति वा । आसेधरहितचिरकाल भोगान्यथानुपपत्त्या क्रयादिकं परिकल्प्यत इत्यर्था- पत्तिः । एवमनुमानार्थापत्तिभ्यां सिध्दे कयादिके 'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेग्वि' त्यादिभिर्वचनोपेतै- नियतकारकत्वहेतुभिः स्वत्वं सिध्दं भवति । दिव्यस्य स्वरुपप्रामाण्ययोरिति । अयमर्थ: । दृष्टे सत्यदृष्टाश्रयण- स्थान्याय्यत्वात् । दिव्यस्वरूपस्य तत्प्रामाण्यस्य च शास्त्रै- कसमधिगम्यत्वेनालौकिकत्वेनादृष्टत्वाद्यावद्द्दष्टप्रमाणसं- भावना तावददृष्टप्रमाणस्यावसराभावादेषामन्यतमाभाव इत्यत्र दृष्टप्रमाणस्याभावनिर्णये सति एवं दिव्य प्रमाणी- कर्तव्यमिति तात्पर्यार्थः । सुबो.
- अप., विता. मितागतम् ।