संधिः बृहस्पतिः पूंर्वोत्तरे संनिविष्टे विचारे संप्रवर्तिते । प्रशमं ये मिथो यान्ति दाप्यास्ते द्विगुणं दमम् ॥ मिथो यान्ति । नृपं वञ्चयित्वेति शेषः । स्मृच. ४९ आंवेद्य तु गृहीतार्थे प्रशमं यान्ति ये मिथः । अभियोगानुरूपेण तेषां दण्डं प्रकल्पयेत् । अकृतं तदिति प्राहुः शास्त्रे शास्त्रविदो जनाः ॥ पूर्वोत्तरेऽभिलिखिते प्रक्रान्ते कार्यनिर्णये । द्वयोः संतप्तयोः संधिः स्यादयः खण्डयोरिव ॥ सक्षिसभ्यविकल्पस्तु भवेत्तत्रोभयोरपि । दोलायमानौ यौ संधिं प्रकुर्यातां विचक्षणौ ॥ (१) एकस्य वादिनः एकान्तपराजयादर्वाक् । यौ संधिं प्रकुर्यात तौ विचक्षणावित्यर्थः । Xस्मृचः ४९ (२) उत्तापकारण माह – साक्षिसभ्येति । व्यत. २१६ (३) साक्षिविकल्पः–उभयत्र समाः साक्षिणः । x सवि. स्मृचवत् ।
- पमा, व्यप्र. स्मृचवत् ।
(१) अप. २।१६ मं ये (मय्य); व्यक.३५ संनिविष्टे (विनष्टे स्ते द्वि (स्तद्भि); स्मृच.४९; पमा. ८४ वत्तिरे (वरूपे); व्यचि. ३५ संनिविष्टे (निविष्टे तु); व्यसौ. ३४ व्यकवत्; व्यप्र. ७७; विता.७९-८०; प्रका. ९२; समु. २४. (२) व्यनि. (३) अप.२११९ तरेऽभि (त्तरार्थे ); व्यक. ३५ भि (वि) संतप्त (उत्तर) ; स्मृच. ४९; पमा. ८५; व्यनि.sभि (तु) कात्यायन: ; स्मृचि. ४२ खण्ड ( पिण्ड ) ; व्यत. २१६ संतप्त (उत्तप्त) खण्ड (पिण्ड); सवि. १०४ भिलिखिते प्रक्रान्ते (तु लिखिते प्रकृते) खण्ड (पिण्ड ) ; व्यसौ ३४ खण्ड (पिण्ड); व्यप्र. ७७ संतप्त (उत्तर); प्रका.३१; समु. २४ इभि (तु). (४) व्यक. ३६ प्रकुर्या ( कुर्वीया); स्मृच. ४९ दोलायमानौ (डोलायमाने); पमा. ८५ नौ यौ (नयोः) धिं (धिः)णौ (णैः); ब्यनि. स्तु (श्च) तत्रो (यत्रो) (दोलायमाने कार्ये च तत्र संधिः प्रशस्यते) कात्यायन: ; स्मृचि. ४२ तत्रो (यत्रो) प्रकुर्यातां (कुर्यातो तौ); व्यत. २१६ स्मृचिवत्; सवि. १०४ दो (डो); चन्द्र. १२४ स्मृचिवत्; व्यसौ. ३४ प्रकुर्यातां (कुर्यातां तौ); व्यप्र.७७ व्यसौवत्; विता. ८० तत्रो ( यत्रो); प्रका. ३१ स्मृचवत्; समु. २४ स्तु (च) शेपं स्मृचवत्. ध्य. का. २७ सभ्यविकल्पः – अद्वेषरागाणां सभ्यानां स्वाभाविकः परस्परपरामर्षविरोधः । चन्द्र. १२४ (४) साक्षिसभ्यविकल्प इति । उभयोरप्यार्थिप्रत्य- थिनोः किमेते वक्ष्यन्तीति साक्षिसभ्यविषयको विकल्पो भवेत् । तत्र कार्यनिर्णये दोलायमानौ संदेहदोलारूढी यौ अर्थिप्रत्यर्थिनौ संधि कुर्यातां, तो विचक्षणी चतुरौ पराजय जनिताऽप्रतिष्ठादितिरोधानादित्यर्थ इति कल्पतरुः । रत्नाकरस्तु साक्षिणां सभ्यानां च विकल्पः परस्पर- विरोध इत्याह । +व्यप्र.७७ प्रेमाणसमता यत्र भेदः शास्त्रचरित्रयोः । तत्र राजाज्ञया संधिरुभयोरपि शस्यते ॥ (१) चरित्रं आचारः । अप. २।१९ (२) उभयोरप्यर्थिप्रत्यर्थिनोः पक्षे सभ्यानां प्रमाण- साम्यं यत्र प्रतिभाति । यत्र च भेदः शास्त्रचरित्रयोः । शास्त्र शास्त्रान्तरेण, चरित्रे व्यवहारे चरित्रान्तरेण, विप्रतिपत्तिस्तत्र राजाज्ञया संधिः प्रशस्ते इत्यर्थः । Xव्यक. ३६ (३) धर्मशास्त्रविरोधे व्यवहारस्यार्थशास्त्रत्वेन दुर्ब- लत्वात् तत्र राजाज्ञया संधिः कार्यत्वेन प्रशस्यते । धर्माथॉपग्रहादिहेतुत्वात् । निग्रहानुग्रहाढ्यब्यवस्थानिव- तकत्वाच्च ।
- व्यप्र. ७७-७८
धैर्मार्थोपग्रहः कीर्तिर्भवेत्साम्येन भूभृतः । न क्लिश्यन्ते साक्षिसभ्या वैरं च विनिवर्तते । ' निग्रहानुग्रहं दण्डं धर्म्य प्राप्य यशोऽयशः । + अस्मद्दृष्टव्यवहारकल्पतरुपुस्तके अनत्यः कश्चनांशो गलित इति व्यवहारप्रकाश एवोद्धृतः ।
- वाक्यार्थी व्यकवत् ।
X चन्द्र. व्यकवत् । (१) अप. २११९; व्यक. ३६; स्मृच. ४९; पमा.८५; व्यनि. कात्यायनः; स्मृचि. ४२ शस्यते (संमते); सवि. १०४ समता (संमतो); चन्द्र. १३४ चरित्र (विचार); व्यसौ. ३४॥ व्यप्र. ७७; विता. ८०; प्रका. ३१; समु. २४. (२) व्यक. ३६; स्मृचि. ४२) व्यसौ. ३४; व्यप्र.७७. (३) व्यक.३६ थं (मैं) राज्ञां (नृणां); स्मृचि. ४२) धर्म्य (धनं ) हातू (हो)