पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् २०६ नोपस्थितो यदा कश्चित् छलं तत्र न कारयेत् ॥ 'देवराजकृतो दोषस्तस्मिन्काले यदा भवेत् । अवधित्यागमात्रेण न भवेत्स पराजितः ॥ (१) 'छलं तत्र न कारयेदि ति वदन्नन्यत्रार्थहानि- प्रतिपादकवचनाच्छलानिरसनेनाऽपि व्यवहारनयनं कार्यमिति ज्ञापयति । एवं चार्थविवादेषु यत्र नार्थहानि - वचनं तत्रैव हीनस्य वादो ग्राह्यो नान्यत्रेत्यत्रगन्तव्यम् । स्मृच. ४९ (२) आचारी व्यवहारः । छलं पराजयम् । दैवेति । अनुपस्थाने भङ्गमङ्गीकृत्यापि दैवादेरनुपस्थितस्यापि न भङ्ग इत्यर्थः । व्यचि. ३२ (३) आचारकरणे उत्तरादौ । चन्द्र. १२१ । (४) न कारयेद् निरस्येदित्यर्थः । अत्र पराजित इत्यभिधानात् पूर्वे हानिपदं भङ्गपरमित्येके । व्यवहारे छलस्य निरस्यत्वान्न निगदनमात्रेण भङ्गः, उपन्यस्ता- नामपि साक्षिणां मध्ये दोषनिश्चयसंभवात् । किन्तु निग दकपक्षे अनुत्कटकोटिक: संशय इत्यपरे । त्रीमि. २ । ७७ (५) 'छलं तत्र न कारयेत्' इति वदता यत्र वचने- नार्थहानिः प्रतिपादिता तत्रैव पुनर्विवादाभावोऽन्यत्र तु हीनतानिमित्तं दण्डं कृत्वा पुनर्वादः प्रवर्तनीय एवेति सूचितम् । व्यप्र. ७६ कात्यायनः अभियोगस्य प्रत्यभियोगेन न निराकरणम् । अस्यापवादश्च । अभियुक्तोऽभियोक्तारं नाभियुञ्जीत कर्हिचित् । अन्यत्र दण्डपारुष्यस्तेयसंग्रहणात्ययात् ।। ४९ दिव्ये(sनेन) त्वो (तो) निर्ण (निश्च); स्मृसा. १२२ ( नोपस्थायी भवेद्यस्तु हीनं तमपि निर्दिशेत् ); व्यचि. ३२ यदा कश्चित् (भवेद्वादी); सवि. १०४ (= ) ; चन्द्र. १२० स्मृसावत्; ब्यसौ.३४ त्वो (तो) निर्ण (निश्च) या कश्चित् (भवेद्वादी); बीमि. २१७७ व्यचिवत्; व्यप्र. ७६; प्रका. ३१ दिव्ये ( ऽनेन); समु. २४. (१) अप. २११६ नारदः; व्यक. ३५; स्मृच. ४९; पमा. ८२ तस्मिन्काले (तत्काले तु); स्मृसा. १२२ नारदः; व्यचि. ३२; व्याने. स्मृत्यन्तरम्; चन्द्र. १२१ देवराज ( राजदैव ) ; व्यसौ.३४; वीमि.२।७७ दैव (देव); व्यप्र. ७६; विता. ५४; प्रका. २१ यदा (यथा) रमृत्यन्तरम्; समु. २४. (२) व्यमा. २९९ नाभि (अभि); व्यचि.१७. दण्डादिषु च ममाप्यनेन दण्डपारुण्यादि कृतमिति प्रत्यभियोगो दातव्य एव । तथैव तदभियोगस्य निस्ता. रात् । व्यमा. २९९ अप्रतिवचने अभियुक्तस्य दण्ड्यत्वम् उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः । अतिक्रान्ते सप्तरात्रे जितोऽसौ दातुमर्हति ।। दुष्टत्वलिङ्गानि आकारेङ्गितचेष्टाभिस्तस्य भाव विभावयेत् । प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते || कॅम्पः स्वेदोऽथ वैवर्ण्यमोष्ठशोषाभिमर्षणे । भूलेखनं स्थानहानिस्तिर्यगूर्ध्वनिरीक्षणम् ॥ स्वरभेदश्च दुष्टस्य चिह्नमाहुर्मनीषिणः ॥ (१) प्रतिवादीति - द्वयोरप्युपादानम्, अन्योन्यं प्रति- पक्षवादात् । ओष्ठाभिमर्षणं लेहनम् । (२) आकारोऽत्र क्रोधजनिता शरीरविकृतिः ।

  1. व्यमा. ३१३

+ व्यक. ३२ (३) इदं संभावनार्थ न निश्चयार्थम् । विता. १०४ विविधानि वादहानिकारणानि श्रावयित्वा यदा कार्य त्यजेदन्यद्वदेदसौ । अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते ॥

  • व्यप्र. व्यमावत् । + शेषं व्यमावत् ।

(१) पमा.८ १; वीमि. २|७ उपायैश्वोद्यमानस्तु ( पूर्वपक्षे यथार्थ तु) दातु (दण्ड). (२) व्यमा. ३१३; व्यक. ३२ भाव (चार); व्यसौ.३१; व्यप्र. ७१; विव्य. १०. ( ३ ) व्यमा. ३१३ वर्ण्य (कल्य); व्यक. ३२ भिमर्षण (वमशनम् ) ; व्यनि. (प्रस्वेदो पथ चैवर्ण्यमोष्ठशोपाभिमर्श- नम्) नारदः; व्यसौं.३१ णे (णम्); व्यप्र. ७१ व्यसौवत्; विता. १०४ भिमर्पणे (वमर्शने) भू (अ); प्रका. ३१ पेणे (शेनम् ) नारदः, समु. २४ प्रकावत, नारदः; विष्य.१० आष्ठेशोषाभिमषेणे (मुखशोषोऽभिमर्शनम् ) भूलेखनं स्थानहानिः (भूलेखं स्थानहानिश्च). (४) व्यमा. ३१३ हमा ( हान्या); व्यक. ३२; व्यनि. नारदः; व्यसौ. ३१ चिह्न ( हेतु); व्यप्र. ७१; विता. १०४; प्रका. ३१ व्यमावत्, नारदः; समु. २४ व्यमावत्, नारदः; विव्य. १० व्यमावत् . (५) शुनी. ४।६३३ यदा (तु यत्) (अन्यपक्षाश्रयाद्वादी हीनो दण्ड्यश्च स स्मृतः ); अप. २११६; स्मृच. ४६ ; सवि. १०२ यदा (तदा); व्यप्र. ७२; प्रका. २९; समु. २३.