पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ ● व्यवहारकाण्डम् वादहानिकारणानि पेलायते य आहूतो मौनी साक्षिपराजितः । स्वयमभ्युपपन्नश्च अवसन्नश्चतुर्विधः ॥ (१) य आहूतः आकारितोऽपि राजपुरुषैः प्रस्तुत ब्यवहारखेटनार्थं पलायते स अवसन्नः प्राप्तावसाय उच्यते । मौनीति ––यः प्रस्तुतव्यवहारे स्वकीयं प्राप्ता वसरं प्रोत्साह्यमानोऽपि न वदति मौनी तूष्णीं स्थितः तिष्ठति, अयमप्यवसायं प्राप्तो द्वितीयः । तथा च साक्षि भिर्यः पराजयं प्रापितः, अयमप्यवसन्नस्तृतीयः । तथा व्यवहारार्थमागतः स्वकीयमन्यायं यः स्वयमेव प्रति पद्यते, सः स्वयमभ्युपपन्नश्चतुर्थोऽवसायं प्राप्तः । इत्ययं अवसन्नश्चतुर्विध इति । अभा. २५ (२) अत्र अवसन्नचतुष्टयमध्ये आद्यौ संभावितभङ्गौ, अन्त्यौ निर्णीतभङ्गो । व्यचि. ३२ अंन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ अन्यवादी तथा हीनः स एव विवृताननः || (१) अत्र ये समनन्तरपूर्वश्लोके ('पलायते य आहूत इत्यादिश्लोके ) दर्शिताश्चत्वारः प्राप्तावसाया उक्ताः पुनरस्मिन् श्लोके मौनी आहूतप्रपलायी च हीनवादित्य विनयमात्रेणाऽनुगृह्य पुनरपि वादयोग्यत्वमापादितौ । ततस्तेषां चतुर्णा मध्ये निश्चितौ द्वावेवाऽवसन्नौ प्राप्ता- वसायौ प्रतिष्ठितान्तौ एको यः साक्षिभिः पराजितो, द्वितीयो यः स्वयमभ्युपपन्नः स्वकीयमन्यायवादित्वं प्रति (१) नास्मृ. २ | ३२; अभा. २५ पन्न ( पन्ना) अव (न्यव); व्यक. ३४ य आहूतो (भियुक्तश्च); स्मृला. १२२ व्यकवत्; ब्यचि.३२ यते (यतो) क्षि (क्षी); व्यसौ ३२ त : (ता:) शेषं व्यकवत् . (२) नास्मृ. २१३३; अभा. २५ प्रप (व्यप); मिता. २१६, २१९१; अप. २।१६ स्थाता (स्थायी); व्यक. ३४स्थाना (स्थायी) तप्र (त: प्र); स्मृच. ४६; पमा.८१ अपवत् ; दीक. ३२ व्यकवत् ; स्मृसा. १२२ अपवत् ; व्यचि. ३२ व्यकव; व्यनि. अभावत् ; स्मृचि.४१ स्थाता (स्थायी) आहूत (दिव्यषु); व्यत. १०५-२०६ व्यकवत्; सवि. ८४,१०१ अभाव ! ; चन्द्र.१२२ (=); ब्यसौ.३२ अपवत् ; वीमि, २|७ अपव; व्यप्र. ७२ ; व्यउ.४५ (=); विता. ५४: १२४(=); सेतु. १०५ व्यकवत् ; प्रका. २९ प्रप (विप); समु. २३ प्रकावत्. (३) व्यप्र. ७२. पन्नः । अतो ये हीनवादशब्देन प्राप्ताः विनयमात्रा को- टनाः, न तु प्राप्तावसायाः पुनरपि वादयोग्या भव- । न्तीति । ते चात्रोच्यन्ते । तत्र अन्यवादी यो मतिभ्रंशात् किंञ्चिदन्यद्वदति, यश्च क्रियाद्वेषाद्दूषणं प्रयच्छति, यश्च राजदैविकादिना नोपस्थानकर्ता जातः । यश्च तत्क्षण- मेवोत्तरमदत्वा उत्तरकालं प्रार्थयति, यश्च स्वकीय वैरिणं दानग्रहणिकं वा दृष्ट्वा तद्भयात् प्रपलायनः, एते पञ्चापि एतैरेव छलैश्च प्राप्तावसाया न भवन्ति । तत्क्षण- मात्रवादहीनाः पुनरपि वादयोग्या भवन्तीत्यर्थः । अभा. २५-२६ (२) तत्र न जयपत्रकमस्ति अपि तु हीनपत्रकमेव । तच्च कालान्तरे दण्डप्राप्त्यर्थम् | जयपत्रं तु प्राङ्न्याय- विधिसिद्धयर्थमिति विशेषः ।

  • मिता. २।९१

(३) आहूतविपलायी तु अभियोगपरिहारार्थमा- ह्वानं बुध्वा प्रच्छन्नचारी । एतेषां तूत्तरोत्तरस्य हीनता गुर्वीति ज्ञापयितुं हीनः पञ्चविध इत्युक्तम् । न पुनः पञ्चविध एव हीन इत्यवधारयितुम् । विधान्तरेणापि हीनानां स्मरणात् । हीनताया गुरुत्वज्ञापनं तूत्तरोत्तरस्य दण्डभूयस्त्वज्ञापनार्थम् । Xस्मृच. ४७ (४) पञ्चविधाभिधानस्याऽपि साक्षाद्भङ्गपर्यवसाय्यभि धायकत्वेनैवोपपत्तेः । अन्यथा तदाधिक्यात् । चन्द्र. १२२ प्रेपलायी त्रिपक्षेण मौनकृत्सप्तभिर्दिनैः । क्रियाद्वेषी तु मासेन साक्षिभिन्नस्तु तत्क्षणात् ॥ क्रिया लेख्यादिका । साक्षिभिन्नः साक्षिभिः परा जितः । व्यत. २०६ बृहस्पतिः वादहानिकारणानि मृषायुक्तं क्रियाहीनमसारान्यार्थमाकुलम् । पूर्वपक्षं लेखयतो वादहानिः प्रजायते ॥

  • व्यउ, विता, मितागतम् । x सवि., व्यप्र. स्मृचवत् ।

(१) दीक. ३२ भिन्न (छिन्न); व्यत. २०६; सेतु. १०५ प्रपलायी (विप्रलापी). (२) अप. २।६ क्तं (क्ति) सारान्यार्थ (साध्याद्यर्थ) पूर्व (पूर्व); व्यक. २५ युक्तं ( युक्तं) न्यार्थ (क्षर) वाद ( वादे); पमा ६५; ब्यसौ.२१ (पूर्व लेखयतः पक्षं वादे हानिः प्रजायते); राकौ. ३८८ क्तं (क्ति) रान्यार्थ (रं व्यर्थ); समु. १९ मृषा (भाषा).