व्यवहारकाण्डम् २०२ तारं परिकल्प स्वहृदये आवेदयति मया अस्य पार्श्वे लभ्यद्रव्यशतद्वयमिति । अथवा, प्रथमं लभ्यद्रव्यं जनं प्रार्थयित्वा द्वितीयवेलायामधिकं प्रार्थयते, अधिकं वा प्रथममुक्त्वा जनं वदति ---इमां सर्वथाऽपि अर्थविप्रकृतिं विनाशतां न नयेत् । तथाऽन्यत्पक्षान्तरं गच्छेदिति- प्रथमं स्वकीयसुवर्णस्य विंशतिगद्याणकप्रार्थनां कृत्वा द्वितीयवेलायां वदति, मदीय पुत्रस्यानेन दातव्यमस्ति द्रम्मपञ्चाशदिति । एतदन्यत्पक्षान्तरमुच्यते । तं न गच्छेत् । यतो द्वितीयपक्षान्तरं गच्छन्पूर्वपक्षात् वादी हीयत इति । नं च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः । यस्तत्र विनयः प्रोक्तः सोऽभियोक्तारमाव्रजेत् ॥ (१) न च अर्थसंबन्धं विनैव कामक्रोधलोभान्धतया मिथ्याभियोगः केनाऽपि कार्यः कर्तव्यः कदापि । यतो मिथ्याऽभियोगदातुर्महान्दोपः । यस्तत्र विनयः प्रोक्तः स मिथ्याऽभियोगदातारमाव्रजेत् आगच्छेदित्यर्थः । अभा. १५ (२) तत्प्रतिपदोक्तदण्डाभावविषयम् । सामान्य- शास्त्रत्वात् । तेन निह्नवेऽसद्वृत्तस्य यो दण्डोऽभिहितो अभा. १५ | विष्णुना स एव सद्द्वृत्तस्य मिथ्याभियोगिनो भवतीत्यव स्मृच. १२२ (३) अगुरुतल्पगः गुरुतल्पग इत्युक्ते गुरुतल्पगस्य यत्कार्यं तदभियोक्तुः कर्तव्यम् । सोपदेशं हरन्कालमब्रुवंश्चाऽपि संसदि । उक्त्वा वचो विब्रुवंश्च हीयमानस्य लक्षणम् || नाभा. १।५० तत्र अपदेशो व्याजः । सव्याजं कालहरणं कुर्वन् 'ताव दपटुरहं, तावदशुचिरहं, नोत्तरं प्रयच्छामि' इति । तथा च, यश्च सभ्यैः पृष्टो न ब्रवीति । यश्च प्रथमं वचनमुत्क्वा पश्चाद् ब्रवीति - न मया तदुक्तमिति । एतैश्चिन्हैस्तस्य हीयमानस्य लक्षणं ज्ञेयमिति । (२) विप्रकृतिर्यथा । मदीया महिषी धेनुरनेनापहृतेति | गन्तव्यम् । अभियुज्य लेखयित्वा पश्चाद्गोधेनुरित्याहुः । मदीयां पत्नी- मयमपहृतवानिति अभियुज्य पश्चादाह अवरुद्धवानिति । पक्षान्तरं यथा, निक्षिप्तं मया तस्मिन् सुवर्ण, तद्ददात्विति लेखयित्वा आस्तां तावदिदं मदीयां अवरुद्धकी कुतोऽपहृतवानिति । यत्र तु पूर्वोक्तमजहदेव प्रतिज्ञान्तरं गच्छेत्, यथा मम ऋणं गृहीत्वा न ददाति, तावत् तद्या चमानश्चाऽहमनेन मूर्ध्नि पादेन हत इति अधिकदण्ड- नीयार्थे, तत्र न दोपः । 'न तं विप्रकृतिं नयेत्' इति प्रतिज्ञातमर्थं न्यूनमधिकं वा न कुर्यात्, न च पूर्व प्रतिज्ञामुक्त्वा प्रतिज्ञान्तरं कुर्यात् । व्यमा. २९२ (३) विप्रकृतिं न्यूनतामधिकतां वा, यथा शतं धार यसीति भाषित्वा पश्चात् पञ्चाशतमेव वा सार्धशतं वेति पुनर्भाषणं पक्षान्तरमिति शतं, सुवर्णान् धारयसीत्यादि भाषित्वा विरम्य पश्चात् गांश्च धारयसीति पक्षान्तरमि त्यर्थः । इदं चोत्तरविरोधात् पूर्वमविरुद्धमेव तदनन्तरं तु विरुद्धम् । 'उत्तरेणावरुद्धस्य निवृत्तं लेखनं भवेत्' इत्यादिवचनात् । व्यचि. १३ (४) यमर्थ धान्यहिरण्यादिकमुद्दिश्य व्यवहारो लेखितः, तमर्थं क्रियाकालेऽन्यथा न ब्रूयात् । हिरण्यं लेखयित्वा साक्षिप्रश्नकाले धान्यमिति । नान्यत् पक्षान्त- रमिति । गच्छेत् साक्षिणमुद्दिश्येत्युक्तम्, नार्थान्तर मुद्दिश्येति । इदमन्यन्मम धारयति तत् तावद् दाप्यतां तिष्ठन्तु साक्षिण इति । स पूर्वोक्तादर्थाद्धीयते । तत्र पराजीयत इत्यर्थः । तच न लभते दण्ड्यश्चेति । नाभा. १९४९ अभा. १५-१६ पैलायते य आहूतः प्राप्तश्च विवदेन्न यः । विनेयः स भवेद्राज्ञा हीन एव स वादतः ॥ यश्च राज्ञा चाहूतः सन् पलायते, तथा पलाय मानोऽपि पुरुषैर्यत्नादानीतः, तत्र प्राप्तः प्रचोद्यमानोऽपि किंञ्चिन्न वदेत् स विनेयो राज्ञा भवति, यतो हीन एव स तस्माद्वादत इति । अभा. १६ सम्यक्प्रणिहितं चार्थ पृष्टः सन्नाभिनन्दति । अपदिश्य च यो देश्यं पुनस्तमनुधावति ॥ (१) नासं. १ 1५०; नास्मृ. ११५७; अभा. १५; उपक्र. १२८; स्मृच. १२२; प्रका. ७७; समु.६७. (२) नासं. १९५१; नास्मृ. ११५८ उक्त्वा वचो ( उक्ता वाचो); अभा.१'५; व्यक.३४ सा (सो) हरन् (हरेत् ); व्यनि, हरन् (हरेत्) ब्रुवं (भ्रमं); व्यसौ. ३३ सापदेशं ( अदेशं यो). (३) नासं. ११५२ विनयः स (स दण्ड्यश्च); नास्मृ. ११५९ः अभा. १६ विवदेन यः ( न वदेत्तु यः); व्यक. ३४ पला.... त: (आहृतो यः पलायेत) स वा (विवा); व्यसौ.३३ व्यकक्र. (४) नास्मृ. १ |६० सन्ना (सन्नोs); अभा.१६ चार्थ (वातं । सन्ना (सन्नोऽ); अप. २ | १६ चा (यो) च यो दे(यमुद्दे).
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२८०
दिखावट