पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादहानिः वदेत् । स यथा पराजितो दण्डार्हश्च स्यात् । एवं योऽपि प्रत्य र्थिसंदिग्धं न्यायेन निश्चयमकृत्वैव हठात् स्वतन्त्रः साध- येत्, सोऽपि पराजितो दण्ड्यश्चेत्यभिप्रायः । विश्व.२।१६ (२) किञ्च संदिग्धमर्थमधमर्णेनानङ्गीकृतमेव यः स्वतन्त्रः साधननिरपेक्षः साधयत्यासेधादिना स हीनो दण्ड्यश्च भवति । यश्च स्वयं संप्रतिपन्नं साधनेन वा साधितं याच्यमानो निष्पतेत् पलायेत, यश्चाभियुक्तो राज्ञा चाहूतः सदसि न किञ्चिदति सोऽपि हीनो दण्डयश्च स्मृत इति संबध्यते । ' अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः' । इति प्रस्तुतत्वाद्धीनपरिज्ञानमात्रमेव मा भूदिति दण्डय ग्रहणम् । दण्डयश्चापि 'शास्योऽप्यर्थान्न हीयते' इत्यर्था । दहीनत्वदर्शनादत्र तन्मा भूदिति हीनग्रहणम् । मिता. (३) साधकबाधकप्रमाणयोरपरीक्षणाद्ग्राह्याग्राह्यत्वेन संदिग्धमर्थ स्वतन्त्रः परीक्षकादिनिरपेक्षो यो हठेन साध- येत्परमङ्गीकारयेत् । यश्च शास्त्रदृष्टोपायेन साधितमप्यर्थ मप्रदाय निष्पतेत् पलायेत । यश्च व्यवहारार्थं राज्ञा आहूतः स्वपक्षसाधकं परपक्षबाधकं वा न वदेत् । स हीनः स पराजितश्च राज्ञा च दण्ड्यः । साधितं च साधकाय देयम् । हीनस्य दण्डो यत्र वचनं तत्रैवेति ज्ञापयितुं दण्ड्यश्चेति पृथग्वचनम् । अप. (४) निष्पतेत् देयमदत्वा निष्पत्य तिष्ठेत् पलायेत +स्मृच.४८ वा । (५) स्वतन्त्रः विचारकदत्तजयपत्रादिनिरपेक्षः । आदिचकारेण विचारस्थानानुपस्थायिनः समुच्चयः । द्वितीय चकारेण स्वाशक्तौ प्रतिनिधिद्वारापि न वादये- दिति समुच्चीयते । तृतीयचकारेण विवादास्पदं दापथि- तव्यः । एतार्श्वं विकृतयोऽतिनिपुणेनाऽनन्यथासिद्धयोऽव- तारिता भङ्गस्याऽनुमापिकाः । इतरथा तु भङ्गसंभाव- नामात्रापादिकाः । एताभिरेव च निर्णयो लोके प्रत्यक्ष- विचार इत्युच्यते । वीमि. नारदः विविधानि वादहानिकारणानि अनावेद्य तु यो राज्ञे संदिग्धेऽर्थे प्रवर्तते ।

  • पमा, व्यप्र, विता. मितागतम् | + शेषं मितागतम् ।

(१) नासं. १९४० अना (अनि) राशे (राश:) चास्या ब्य. का. २६ २०१ प्रसह्य स विनेयः स्यात्स चास्यार्थो न सिध्यति ।। (१) राजसाधारणसंदिग्धेऽर्थे यो राज्ञेऽनावेद्यैव प्रवर्तते, स विनयप्राप्तो भवति । तदर्थसिद्धिरपि नास्त्ये- वेति । अभा. १३ (२) अनिवेद्य अनाख्याय राज्ञः संदिग्वेऽर्थे प्रवर्तते अनिर्णीते, धारयति न धारयतीति । यः प्रवर्तते साधयितुं स्वयमेवारभते । बलादाक्रम्य स दण्ड्यः स्यात् । सोऽप्यर्थः संदिग्धो न लभ्यते हीयते इत्यर्थः । नांभियुक्तोऽभियुञ्जीत तमनीत्वार्थमन्यतः । न चाभियुक्तमन्येन न विद्धं वेद्रुमर्हति ।। नाभा. १९४० वादिना प्रतिवादी योऽभियुक्तः स तं वाद्यभियोग- मन्तेऽनीत्वा परिसमातिमनीत्वा तमेव वादिनं न प्रत्यभि- युञ्जीत । द्वयोवीदिनोरेककालमनिर्णयगमकत्वात् । तं च स्वकीयाभियोगं निर्वाह्य यदि सत्यमेव किमपि तस्य स्वकीय मभियोगकारण मध्यस्ति, ततः स एव प्रतिवादी तस्य वादिनस्तत्क्षणमेवाभियोगं दत्वा स्वयं वादी भवति । यश्चान्येनाभियुक्तः प्रारब्धव्यवहारस्तिष्ठति, तमपि नाभियुञ्जीत । यतो न विद्धं वेद्भुमर्हति । येन व्याधेन , , मृगः प्रथमं विद्धः तं यदि द्वितीयोऽपि विध्यति तस्य वृथाश्रमः | प्रथमस्थैव तत्राधिकारी न द्वितीयस्येति । अभा. १५ यैमर्थमभियुञ्जीत न तं विप्रकृतिं नयेत् । नान्यत्पक्षान्तरं गच्छेद्गच्छन्पूर्वात्स हीयते ॥ (१) अत्र प्रथमं भाषाकृता अस्य पार्श्वे मयोपलभ्य- सुवर्णगद्याणकदश, द्वितीयवेलायां विंशतिद्रम्माणकाव- ( चाप्य ); नास्मृ. ११४६; अभा. १३; अप. २११६ अना (अनि); व्यक. ३४ अना (अनि) चास्या ( चाप्य); स्मृच.४८ व्यकवत् ; व्यसौ ३३ () चास्या ( चाप्य); व्यप्र. ७५ अपवत् ; विता. ७६ व्यकवत् ; प्रका. ३० व्यकवत् ; समु. २४ चास्या ( चाप्य ) ध्यति (ध्यते). (१) नासं. १९४८ नीत्वार्थमन्यतः (तीत्वार्थमन्तरा) न विद्धं वेद्धु ( विद्धं न व्य); नास्मृ. ११५५ नीत्वा (तीर्त्वा ); अभा. १५ र्थमन्यतः (र्थसंमत:). (२) नासं. १९४९; नास्मृ. ११५६; अभा. १५ यम (तम); व्यमा २९२ यम (यचा) नान्यत्प ( न च प ) बृहस्पतिः; व्यक. २४ न्यत्प (न्यप) सही (प्रही); व्यचि. १२ व्यमावद, बृहस्पति: ; व्यसौ. ३२; वीमि. २१६ व्यमावत्, बृहस्पतिः