पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० लिङ्गादवगतेऽपि न पराजय निमित्तकार्यप्रसङ्गः । #मिता (३) वाक्चक्षुर्न पूजयति न मुखमवलोकयन् ब्रूते इत्यर्थः । ओष्ठौ निर्भुजति कम्पयति । सुव्यक्तमपरम् । तदेवमादिभिर्लिङ्गेर्वादिनो हीनपक्षत्वमनुमीयते । व्यवहारकाण्डम् Xव्यमा. ३१२ (४) सृक्किणी, गल्लयोरन्तर्भागौ परितः सर्वतो लेढि, जिह्वया स्पृशति । परिशुष्यतास्येनोच्चार्यमाणं वाक्यं परिशुष्यत् । परिशुष्यत्स्खलद्वाक्यमस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धम् । वाक्चक्षुषोः पूजा प्रसन्नता । निर्भुजति वक्रीकरोति । स्वाभाविको धर्मः स्वभावः । तस्मात्स्वभावाद्विकृतिर्वैपरीत्यम् । तत्र मनः कर्मणो विकृति रज्ञानसंशयविपर्ययाः । वाकर्मणस्तु गद्गदत्वादिकम् । कायकर्मण: कम्पादि । य एवंविधः सोऽभियोगे व्यव हारे साक्षित्वे च दुष्टो वितथवादी प्रकीर्तितः । अन्य त्सुगमम् । तत्र मनुः – 'बाह्यैर्विभावयेल्लिङ्गैर्भावमन्त- र्गतं नृणाम् । स्वरवर्णङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ आकारेणेङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्र विकारैश्च गृह्यतेऽन्तर्गतं मनः' ॥ यदि दुष्टलक्षणानां दुष्टतायां प्रामाण्यं तदा तैरेव बादिनः प्रतिवादिनो वा पराजयेऽवधारिते दैवमानुष- प्रमाणमन्तरेणैव व्यवहारसमाभिः स्यादिति दिव्यादि प्रमाणवैयर्थ्य स्यात् । दुष्टलक्षणाभावे तदर्थवदिति यद्यु- च्यते, तर्हि लिखितादिप्रमाणानामसाक्षिकत्वेन विधानं नोपपद्यते । उक्तं हि 'क्रियापादस्तृतीयः स्यात्' इति । तस्मान्नैतानि दुष्टतायां प्रमाणानि किन्तु वादिप्रतिवादि- नोर्मध्ये कः प्रमाणं करोत्विति जिज्ञासायाम् । यत्रैतानि न सन्ति स प्रमाणार्ह इत्यवधारणोपयोगितया एपामुप- न्यासः । ननॄत्तरविशेषे सति वादिविशेषं प्रति प्रमाणो- पन्यासे वचनतोऽवधृते पूर्वोक्तजिज्ञासाया अनवसर एव । सत्यमेवमृणादानादौ । चौर्याद्यभिशापादौ तु दिव्ये प्राप्ते भवति जिज्ञासा | दिव्यं हि मिथ्योत्तरवादिनोऽपि संभवति न लेख्यसाक्ष्यादिकम् । तस्मात्तर्कवदेषां प्रमाणानुग्राहकत्वं न प्रमाणत्वम् | युक्तं चैतत् । दोष- मन्तरेणापि भयादिना तेषामुपपत्तेः । अप. (५) एवं दुष्टान्तःकरणतया ज्ञातस्यापि न दण्डो न

  • चन्द्र., व्यप्र., विता. मितागतम् | Xन्यत. व्यमावद्भावार्थ: ।

प्रकृतार्थाद्धानिर्वा । तयोर्मुनिभिरनभिधानात् । अदुष्टं स्यापि कथञ्चिदेवंविधचिह्नान्वयसंभवादुष्टाभिधायक- वचनानां च तद्रक्षणादाववधान विधानार्थत्वेनावैय- र्थ्यात् ॥ एवं च दुष्टचिन्हविहीनाः साक्षिलक्षणलक्षि- ताश्च साक्षिणो यद्युपस्थितास्तदा तैर्निर्णेतव्यम् । अथ विपरीतास्तदा प्रमाणान्तरेणेत्यनुसंधेयम् । स्मृच.४९,८५ (६) मिता. टीका - मनोवाक्कायकर्मभिरित्युद्दिश्य देशा- न्तरं यातीत्यादिना व्युत्क्रमेण कर्मकायवाङ्मनसां विकृतिं प्रदर्शयतो योगीश्वरस्यायमभिप्रायः । उद्देशक्रमेणोत्तरस्य बाह्यत्वेन अत्यन्तस्थूलत्वेन स्थूलतमप्रक्रमेण विकार- दर्शन मिति एते वक्ष्यमाणास्त्रयो न केवलं दुष्टा अपि तु अर्थादपि हीना दण्डयाश्च इति । सुत्रो. (७) वादिलेखनीयं प्रमाणं प्रागभिहितमिदानीं तद- लेखनीयं प्राविवाकसभ्याद्यवधारणीयं प्रत्याकलितापर- नामकमनुमानाख्यं प्रमाणं दर्शयति- देशादित्यादिभिः । मनोवाक्कायकर्मभिर्यः स्वभावाद्भङ्गादिसंभावनातिरि- तनिमित्तमन्तरेण विकृतिं विकारं याति प्राप्नोति स अभि- योगे वादे साक्ष्ये साक्षिकृत्ये दुष्टः परिकीर्तितः । शास्त्रे तेन तत्कृतोऽभियोगः सायं च न सिद्धयतीति तात्पर्यम् । चकारापिकारतथाशब्दैर्बहुभिः 'ब्रूहीत्युक्तश्च न ब्रूयाद्' इत्यादि मनूक्तानां समुच्चयः । वीमि (८) मिता. टीका - - एवं च दुष्टः संभावितदोष एव इत्येवं व्याख्येयमिति बोध्यम् । बाल. विविधानि वादहानिकारणानि 'संदिग्धार्थ स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । न चाहूतो वदेत्किञ्चिद्धीनो दण्ड्यश्च स स्मृतः ।। (१) यदा पुनर्द्वयोर्व्यवहारविप्रतिपत्तौ स्वबलावष्ट- म्भेनैवान्तरेणापि राजावेदनं साधयितुं सामर्थ्य स्यात्, तदापि किमवश्यं राज्ञ एव निवेदनीयम् | सत्यम् । एवं युक्तम् । यतः - २ - संदिग्धेति । यथैव यो राशाहूतो निष्पतेत् प्रणश्येत् । यो वा राजान्तिकं गतः संभावितप्रतिभानवानपि न किञ्चिद् (१) यास्मृ. २११६; झुनी. ४।६१८ चा (वा) उत्त; विश्व. २११६; मिता.; अप.; व्यक. ३४ सस्मृ (संस्म); स्मृच. ४८; पमा.८४ थे (र्थ); सवि. ४९०; व्यसौ. ३३; वीमि.; व्यप्र. ७२; विता. ७६:१०४ (); प्रका. ३०; समु. २४.