पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादहानिः १९१ सामर्थ्यात् कार्षापणस्यैव ग्राह्यः । पथिभक्तमिति । संनिधानेऽपसरतः अभियुक्तस्य कुयात् । अभियोक्तः, । निष्पातसमकालः साक्ष्यानेतॄणां मार्गगतागतभोजनार्थदेयम् । अर्घविशे- प्रतः तण्डुलादिमूल्यभेदमनुसृत्य, कल्पनीयमिति शेषः । तदुभयमिति । पुरुषभृतिं पथिभक्तं च, नियम्यः परा जितः, दद्यात् । अभियुक्त इति । केनचित् कृतामियोगः, न प्रत्यभि युजित अर्थादमियोक्तारं अनिस्तीर्ण स्वाभियोगे । तत्रापवादः -- अन्यत्र कलहसाहससार्थसमवायेभ्य इति । कलहसाहसादिषु तु विषये प्रत्यभियुञ्जीतैव । अभियुक्त मपि केनचित् तदन्यो नाभियुञ्जीतेत्याह - न चाभियुक्त इत्यादि । यदाह योगीश्वरः – ' अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । न चाभियुक्तमन्येन नोक्तं विप्र कृतिं नयेत्' इति ॥ अभियोक्तेति । सः, प्रत्युक्तः अभियुक्तदत्तोत्तरः, तदहरेव न प्रतिब्रूयाच्चेत् यस्मि न्दिने प्रत्युक्तस्तस्मिन्नेव दिने प्रत्युत्तरमभियुक्तोक्त्युप मर्दैन स्वपक्षसमर्थनक्षमं न दद्याच्चेत्, परोक्तः स्यात सद्यः प्रतिवचनाभावमात्रेण स पराजितो मन्तव्य इत्यर्थः । कुत इत्याह – कृतकार्यविनिश्चयो ह्यभियोक्ता नाभियुक्त इति । इदमीदृशमेवं साधनीयमिति प्रागेव संप्रधार्य कार्य प्रवृत्त इत्यभियोक्ता सपदि प्रत्युत्तरदान प्रतिबद्धः, अन्यस्तु संप्रधारणीयकार्यगतित्वान्न तथेत्यर्थः । निष्पातोऽभियुक्त संनिधानेऽपसरणं तत्समानकालः, परोक्तभावः पराजितत्वं मन्तव्यम् । प्रेतस्य व्यसनिनो वा साक्षिवचनाः सारमिति | प्रमीतस्य विपद्गतस्य वाऽभियोक्तुरथवाऽभियुक्तस्य धनं साक्षिभि विभाव्यमानाः तत्पुत्रादयो दीर्वा । अभियुक्ते पराजिते निरुपाये किमभियोक्ता कुर्यादित्यत्राह-अभि योक्तेति । सः, दण्डं पराजयदण्डं, दत्वा स्वयं राज्ञे, कर्म कारयेत्, अर्थादभियुक्तम् । आधिं वा स कामं प्रवेशयेदिति । अथवा, सः अभियोक्ता अभियुक्तबन्ध्व न्यतममाधित्वेन कर्मकरणार्थं गृह्णीयाद् यथेच्छम् । रक्षोप्नेत्यादि । वाशब्दश्रार्थं | रक्षोनरक्षित अकुशलपरि- हारार्थः शिरसि सितसर्षपप्रक्षेपो रक्षोन्नरक्षा तयुक्तं यथा भवति तथा, कर्मणा प्रतिपादयेत् योजयेत्, अर्थात् परा- जितं तदर्पितमाधिपुरुपं वा । एतेन, कर्म कारयितुरात्म रक्षणे प्रयत्नः कर्तव्यतयोपदिष्टो द्रष्टव्यः । इतरथा हि पराजित आधिपुरुषो वा कर्म कुर्वन्नवेतनकर्मकरण निर्बन्धमात्मनोऽसहमान: कारयितारं कदाचिजिघांसे दिति । 'कर्म कारयेदि 'त्यस्य विधेः संकोचमाह- अन्यत्र ब्राह्मणादितीति । इतिशब्दात् क्षत्रियादिरपि तपस्वी ब्राह्मणप्रकारो ग्राह्यः । , अभियुक्तप्रतिवचनकालावधिमाह -- तस्याप्रति ब्रुवतस्त्रिरात्रं सप्तरात्रमिति । तस्य अभियुक्तस्य श्रुता र्थस्य प्रतिवचनदानकालावधिस्त्रिरात्रात् प्रभृति आ सप्तरात्राद् अनुमन्तव्यः । अत ऊर्ध्वमिति । सप्तरात्रात परतः, त्रिपणावरार्ध्य त्रिपणोऽवरार्ध्यः अवरो यस्मिन् तं तथाभूतं, द्वादशपणपरं द्वादशपणोत्तमं, दण्डं कुर्यात् । त्रिपक्षात् पक्षत्रयात्, ऊर्ध्वम्, अप्रतिब्रुवतः अभियु क्तस्य, परोक्तदण्डं पराजितदण्डं पञ्चबन्धरूपं कृत्वा, यानि अस्य अभियुक्तस्य, द्रव्याणि धान्यहिरण्यलोह दारुभाण्डादीनि स्युः, ततः तैर्द्रव्यैस्तदुद्घृतद्रव्यैर्वा अभियोक्तारं प्रतिपादयेत् यथाप्रार्थितधनभाजं कुर्यादि त्यर्थः । किं सर्वैरेवाभियुक्तद्रव्यैः, नेत्याह- अन्यत्र वृत्त्यु पकरणेभ्य इति । कृप्यादिजीविकार्थानि हलखनित्र कुद्दालानि वर्जयित्वा । तदेवेति । अप्रतिब्रुवतोऽभि युक्तस्य यदुक्तं विधानं तदेव, निष्पततोऽभियोक्तू- श्रीमू विविधानि वादहानिकारणानि दोपः स्वयंवादः स्वपक्षपरपक्षयोः । अनुयोगार्जवं हेतुः शपथश्चार्थसाधकः ॥ पूर्वोत्तरार्थव्याघाते सानिवक्तव्यकारणे । चारहस्ताच निष्पाते प्रदेष्टव्यः पराजयः ॥ उक्तसाक्ष्याद्यतिरेकेण पञ्च व्यवहारसाधनान्याह- दृष्टेत्यादि । दृप्रदोपोऽर्थसाधकः दृष्टदोषः उपलब्धापराध- चिह्नः दह्यमाने गृहे ज्वलितालातपाणिस्तदन्तस्तिष्ठन् जनः स्वाग्निदत्वानुमापकः, कायगतनवत्रणक्षरत्क्षतजोक्ष्य- माणभूमेर्वा कस्यचित् रुधिराशस्त्रपाणिः पार्श्वे तिष्ठन् स्वात्मनस्तच्छेतृत्वानुमापकः । स्वयंवादः मयैवेदं कृत- मिति वादः, अर्थसाधकः अर्थनिर्णायकः | स्वपक्षपर पक्षयोग्नुयोगार्जवं वादिप्रतिवादिनोर जिह्मप्रश्नोत्तर- करणं, अर्थसाधकम् । यथा - पथि शकटचक्रारोपणेन (१) की. ३११.