विषयं, तत्र मिथ्योत्तरमेव ग्राह्यम् । पूर्ववादिन एव क्रिया । कारणस्य प्रभूतविषयत्वे तु कारणोत्तरमेव ग्राह्यम् । अत्रोत्तरवादिन एव क्रिया, यत्प्रभूतार्थविषय मित्यभिधानात् । यदि तु मिथ्याकारणयोर्द्वयोरपि तुल्यार्थ- विषयत्वं, तदा यस्य लिखितसाक्षिभुक्तीनां मध्ये अन्य- तमक्रियायाः सम्यक्. शीघ्रं फलं प्रत्येतुं शक्यते तत्रैक स्यैव क्रियानिर्देश: ‘यत्र वा सात्क्रियाफलम्' इति वच नात् । यत्र मिथ्याकारण संप्रतिपत्तीनामंशभेदेन सांकर्य तत्रापि मिथ्याकारणसंकरवदेव व्यवस्था | सत्यस्यावि चार्यत्वेन मिथ्याकारणयोरविचारात् । यत्र शतपुराणा- भियुक्तो वक्ति न मया शतं पुराणा गृहीताः किन्तु पञ्चाशत्पुराणाः गृहीतास्तत्राऽपि पञ्चविंशतिपुराणा: परि- शोधिताः पञ्चविंशतिपुराणान् धारयामीति । तत्रोत्तरम संकीर्ण संकरदोषशून्यम् । अतः अस्मादन्यथा संकीर्ण- मित्यर्थः । चन्द्र. ११८-१९९ वृद्धशातातपः . चतुर्विधमुत्तरम् उत्तरम् ' मिथ्या संप्रतिपत्त्या वा प्रत्यवस्कन्दनेन वा । प्राङ्न्यायविधिना चैवमुत्तरं तु चतुर्विधम् || • वृद्धशातातपवचनं तु बहुज्ञजीर्ण (?) कृतनिबन्धे अस्माभिर्दृष्टं, न पुनर्भोजदेवे । व्यमा. ३०५ पड्विधमुत्तरम् 'मिथ्यापदेशसंसृष्टं विप्रतीतिस्तथा परा । विज्ञेया व्यवहारेषु षडेवोत्तरजातयः ।। अर्थान्तरापदेशेन पूर्वपश्नार्थनिह्नवे । 'मिथ्यापदेशसंसर्गात् तत्संसृष्टमुदाहृतम् || गृहे जातेऽथवा क्रीते प्रतिज्ञाते गवादिके । गृहे जातो ममापीति विप्रतीत्युत्तरं हि तन || वृद्धवसिष्ठः चतुर्विधमुत्तरम् १८९ इति प्रत्यवस्कन्दनस्थाने कारणं वदता अनयोरेक त्वं दर्शितम् । तत्राबाधकरूपं प्रत्युत्तरमेकं, निषेधात्मकं त्रिविधम् | त्रिभिरेव वादिनः साध्यनिषेधात् । कारणविशेषो हि प्रत्यवस्कन्दनम् । कारणं वनभ्यु- पगम्यापीति । सामान्यकारणं तृतीयमुत्तरम् । अत एव जितेन्द्रियेण प्रपद्येत्युपलक्षणमित्युक्तम् । दीक्षितप्रभृति भिस्तु प्रतिपाद्येति व्याख्यातम् । व्यमा. ३००, ३०२ संत्यानृते कारणं च प्राङ्न्यायश्चोत्तरं पृथक् || (१) व्यमा. ३०५. (२) व्यमा. ३०५ देश (देश) (३) व्यमा ३०५ नंतरा (न्तरो) देश (देश). (४) व्यमा. ३०५. (५) व्यमा. ३००, ३०२; व्यनि.; प्रका. २७; समु. २१. बृहद्यमः समविद्योत्तरं चैव प्रत्यवस्कन्दनं तथा । पूर्वं न्यासविधिश्चैव उत्तरः स्याञ्चतुर्विधः ।। शुक्रनीति: सद्योविवाद विषयाः मनुष्यमारणे स्तेये साहसे स्तेयिके सदा । न कालनियमस्तत्र सद्य एव विवेचनम् || प्रतिपयुत्तरम् अङ्गीकृतं यथार्थ यायुक्तं प्रतिवादिना । सत्योत्तरं तु तज्ज्ञेयं प्रतिप्रतिश्च सा स्मृता || प्राङ्न्यायत्रैविध्यम् जयपत्रेण सभ्यैर्वा साक्षभिर्भावयाम्यहम् । मया जितः पूर्वमिति प्राङ्न्यायस्त्रिविधः स्मृतः ॥ प्रतिज्ञोत्तराविचारणे सभ्यदण्डः अन्योन्ययोः समक्षं तु वादिनो: पक्षमुत्तरम् । न हि गृह्णन्ति ये सभ्या दण्ड्यास्ते चौरवत्सदा ॥ संग्रहकारः उत्तरलेखकाल: अनन्यार्थमहीनार्थं न्यायागमसमन्वितम् । अन्यूनानधिका भ्रष्टमनन्याक्षरसंभवम् ।। भाषायामिति पत्रेषु लिखितायामनन्तरम् । प्रत्यर्थिनः श्रुतार्थस्य कालोऽयं दातुमुत्तरम् || अनन्यार्थमित्यादि लक्षणजातं यथा भवति तथा भाषायां लिखितायामित्यर्थः । स्मृच. ४१ (१) बृयस्मृ.५/२४.२५. (२) शुनी. ४/५५३. (३) शुनी. ४६४२. (४) शुनी. ४६४७-४८. (५) स्मृच. ४१; सवि. ९१ महीना (मभिन्ना) का (कं); प्रका. २५; समु. २०, (६) स्मृच.४१; सवि. ९ १; प्रका. २५ पू.; समु. २०,
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२६७
दिखावट