पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ तूत्तरप्रतिरूपकं न तु मिथ्योत्तरम् । न चैवमुत्तराभावा- द्भाषितुर्जय इति वाच्यम् । धर्मव्यवहारेण छलस्यावश्य निरस्यत्वेन तत्र स्थापन ग्रहणस्यावश्यप्रमापणीय त्वात् । अत एव प्रकाशक्रये नाष्टिकेनादत्तत्वादिकमपि प्रमापणीयमिति वदन्ति । अत्र च हेत्वसिद्धिर्भाषायां दोषः ।

  • वीमि.२१७

व्यवहारकाण्डम् अनेकविधोत्तरयौगपधे ग्राह्यमुत्तरम् ' मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं वाऽपि सहान्येन तत्र ग्राह्यं किमुत्तरम् ॥ 2 मिथ्याकारणयोर्वाऽपि ग्राह्यं कारणमुत्तरम् । यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् । उत्तरं तत्तु विज्ञेयमसंकीर्णमतोऽन्यथा || (१)अस्यार्थः– यदेकोत्तरावयविनि मिथ्याकारणरूप- मवयवद्वयं परस्पराविरुद्धं, सत्येन वा सहावयवत्रयं, तदा क्रियैकत्वार्थमवयवविशेषग्रहणमिति ब्रूते । अस्य तूत्तरा- भासत्वे व्यासवचनं निर्विषयं स्यात् तस्माच्छताभियोगे शतग्रहणं मिथ्या पञ्चाशदेव गृहीतास्ते च परिशुद्धा इति मिथ्यांशकारणांशयोस्तुल्यविषयत्वात् कारणोत्तरं ग्राह्यम् । यदि च शतं मिथ्या पञ्चविंशतिः पुराणा गृहीतास्ते च परिशुद्धा इति मिथ्यांशस्य प्रभूतार्थविषयत्वात् मिथ्यो- तरग्रहणं ( तदा ) पूर्ववादिन एव क्रिया इत्यर्थः । सत्यमिथ्याकारणैरपि संकीर्णोदाह यथा - नवत्यभियोगे मिथ्यैतत् षष्टिपुराणा एव गृहीतास्तत्रापि त्रिंशत् परि- शुद्धस्त्रिंशत् धारयामि इति, तत्रापि कारणोत्तरमेव ग्राह्यम् । मिथ्याकारणयोर्वाऽपीत्यपिशब्देन त्रिभिरपि संसृष्टे कारणमेव ग्राह्यमिति दर्शितत्वात् । प्रभूतार्थ विषयत्वं च कारणोत्तरग्रहणापवादकम् । द्वयोरेवापवादकं 'यत्र वा स्यात् क्रियाफलम्' इति । क्रिया हि पत्रि- कादिः, तस्याः फलं सम्यगिष्टनिर्णयः । तत्र यदि शत-

  • वाक्यार्थी व्यचिवत् ।

(१) व्यमा. ३०४ सत्यं ( स्वयं ) तत्र (एव); अप. २ । ७; व्यक. २९; स्मृचि.४० वा (चा) व्यासहारीतौ; व्यत. २०९ बा (चा) न्येन (नेन) व्यासहारातौ; व्यसौ. २५, सेतु. १०८ व्यतवत्, व्यासहारीतौ; विन्य ७ सत्यं ( स्वयं ) तत्र (एव) (२) व्यमा. ३०४ यत् ( तत् ) त्तु (च्च); अप. २ ७ तत्तु वि ( तत्र तत् ) ; व्यक. २९ अपवत् ; स्मृचि. ४० व्यासहारीतौ; व्यत. २०९; व्यसौ. २५ अपवत् ; सेसु. १०८; विष्य. ७. ग्रहणे पत्रमस्ति, शतापहवे च पञ्चाशत् विशोधने साक्षिणस्तदा मिथ्योत्तरमेव ग्राह्यम् । लिखितस्य साक्षिभ्यो बलवत्वेन सभ्यनिर्णयफलत्वादित्यर्थः । तदेतदुक्तम्- 'यत्प्रभूतार्थविषयं यत्र वा स्यात्क्रियाफलम्' इति । ननु युक्तर्भूयोऽनुरोधात् प्रभूतार्थक्रियाग्रहणस्यैव | विनिगमनावारणत्वात् बलवत्वाच्च बलवत् प्रमाणग्रहणं, मिथ्याकारणयोस्तु तुल्यविषयत्वं, क्रियायाश्चाऽविशेषे, | कुतः कारणग्रहणम् । मिथ्योत्तरे सति ग्रहणस्य प्रति पाद्यत्वात्, कारणे च सति परिशोधनस्य शाप्यत्वात्, भावाभावरूपेणाऽपि कुपण्डितोक्नेति ( विशेषः ) ? उच्यते । ग्रहणस्य चिरातीतत्वात् परिशोधनस्य त्वनन्तरभावित्वेन स्मरणार्हतया कारणस्यैव ग्रहणम् । अस्यैव विनिगमनाकारणत्वात् । कश्चित्तु वचनादित्याह तदयुक्तं, वचनस्याऽदृष्टार्थतापत्तेः । अस्मदुक्तोदाहरणेषु संकीर्णोत्तरवादिनो हेयवचना एव । श्रव्यमा. ३०४-३०५ (२) अस्यार्थः -- एकत्रोत्तरावसरे मिथ्योत्तरं कारणं चोत्तरवादी ब्रूते | यथा मदीया गौरस्मिन्कालेऽनेनाप- हृता साऽस्य गौर्विद्यते गृह इति पूर्ववादिनोक्ते अन्यो ब्रूते - मिथ्येतत्किन्त्वस्मद्गृह जातैवेति । तथा चौरोऽयं यतो देवदत्तस्य गौर्विनष्टा साऽस्य गृहे वर्तत इति पर्यनुयुक्तो ब्रूते - सत्यं देवदत्तस्य गौरस्मद्गृहे वर्तते, किन्तु ना चौरो यतोऽस्मद्गोधनेन सार्धमस्मद्गृहमागतेति । अत्र प्रत्यवस्कन्दांश एवोत्तरत्वेन ग्राह्यः । यद्वा यस्मिन्नर्थे साघिते द्वितीयोऽर्थात्सिध्यति तत्प्रभूतविषय मुत्तरं ग्राह्यम् । यत्र वांडशे प्रमाणफलं हानमुपादानं वा संभवति स ग्राह्यः । अतः प्रकारात्प्रकारान्तरमसंकीर्णमेव वाच्यं न तु संकीर्णमिति । अप. २।७ (३) प्राङ्न्यायेन सह सर्वथैव संकरानुपपत्तेरिति तन्नोक्तम् । + व्यत. २०९ (४) यथा मिथ्योत्तरमेकत्रांशे सर्वथा समान एवां- शान्तरे कारणं तत्र कारणोत्तरं ग्राह्यम् । अत्रोत्तरवादिन एव क्रियानिर्देशः । यथा मत्क्रीतोऽयं वृषभस्तमयं त्यज त्वित्युक्ते मिथ्यैतद्वदसि किन्तु देवदत्तस्याऽयं तेन म विक्रीत इति । यत्र मिथ्योत्तरं प्रभूतविषयं कारणमल्प-

  • व्यक. वाक्यार्थो व्यमावत् । उदाहरणानि त्वन्यानि । सेतु.

व्यमागतम् । + शेषं व्यमावत् ।