पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् क्रामकोऽपराध्यति, जैह्म्यात्तु तदतिक्रमणे दण्ड्यः भङ्गी निर्णिनीषुकथायाः सिद्धसाधनस्यादोपत्वान्न निग्रहोऽपी- च भवतीत्यर्थः ।

  • व्यचि.१७

त्याह । न चैवं धर्माधिकरणप्रवेशपक्षलिखने पूर्ववादिनो वृथेति वाच्यम् । प्राग्विप्रतिपन्नस्यानुतापवतः प्रत्यर्थिनः पश्चादपि संप्रतिपत्तिसंभवात् । संधिकरणोत्तरमिव । संधिकरणं च निरूपयिष्यते । मिथ्योत्तरं तु न धारया- मीत्यादि । यथाह कात्यायनः--- 'अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यव- हारतः' इति ॥ व्यासोऽपि - मिथ्या स्यात्साध्यनिहुतिः इति । साध्यस्य सहेतुकसाव्यस्य शब्दतोऽर्थतो वा निह्नवो मिथ्योत्तरमित्यर्थः । केवलसाध्यनिह्नवस्य संप्रतिपत्ति- भिन्नोत्तरान्तरेष्वपि प्रसङ्गादिति वाचस्पतिः । तच्चिन्त्यम्। सहेतुकसाध्यनिह्नवस्य तत्रापि संभवात् । तस्मादपह्नव- मात्रं कारणाद्यसंवलितं मिथ्योत्तरम् । कारणप्राडून्याय- संचलितं तूत्तरान्तर मिति वयम् । व्यप्र. ५६-५७ मिथ्यैतन्नाभिजानामि मम तत्र न संनिधिः । अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधम् ॥ (१) चतुर्ष्वपि ऋणग्रहणार्थकत्वे हेत्वन्तरमुखेन धार्यमाणस्यानुपपत्तिं ब्रुवतः सहेतुसाध्यापहृतवन्मिथ्यो- त्तरम् । घ्यमा. ३०० (२) अत्र मिथ्येतदिति शब्दतः न जानामीत्यादिकं त्रिकमर्थतोऽपह्नवः । +व्यचि. १९ उत्तर चतुष्टयस्वरूपम् सांध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता । कारणं स्यादवस्कन्दो मिथ्या स्यात्साध्यनिहुतिः ॥ (१) धारयसीत्यभियुक्तस्य धारयामीत्युत्तरं संप्रति- पत्तिः साध्यस्य विधानात् । न तु विप्रतिपत्त्या न्याया- र्थमागतस्य कथं संप्रतिपत्तिरेवेति वाच्यम् । यतो भाषा- वादिनो मूर्खत्वेनापटुवाक्तया वा कदाचित् भाषा- दोषादेवायं हीयते इति भाषाविमर्षपर्यन्तं विप्रतिपन्न- स्यापि भाषार्थं सम्यगवगम्य तन्निषेधार्थ सम्यगुत्तरा संभवाद्विद्वत्सभायां चासत्यवचनमत्यन्तमधर्मकरं परोक्त- पराजयाय च द्विगुणं राजदण्डं वादिना च वैरमित्या- दिप्रतिसंदधतः संप्रतिपयुत्तरं भवत्येव एतेभ्य एव निस्तारात् उत्तरमपि, सिद्धसाधनेनाऽपि संप्रतिपत्तुर्वा दिनः प्रत्यवस्थानमिति त्रोत्तरता । व्यमा. ३०० (२) साध्यस्य भाषितस्य सहेतुकसाव्यस्य शब्दतोऽ- र्थतो वा निह्नवो मिथ्योत्तरम् । केवलसाध्यनिह्नवस्तु संप्रतिपत्तिभिन्नेष्वेव त्रिष्वप्युत्तरेषु समान इति द्रष्टव्यम् । व्यति. १८ (३) यथा रूपकशतं मह्यं धारयसीत्युक्ते सत्यं धार- यामि दास्यामीति च । यद्यपि भाषार्थस्यानिराकरणादनु- त्तरत्वमस्याभाति, तथाप्य भियोक्त्रा साध्यतयोपन्यस्तस्य सिद्धत्वोपन्यासात् साध्यत्वनिराकरणादुत्तरत्वमस्यावसे यम् । तथा च स्मरणम् 'अनुक्त्वा कारणं यत्र पक्षं वादी प्रपद्यते । प्रतिपत्तिस्तु सा ज्ञेया कारणे दूपणं पृथक्’ ॥ कारणं परोक्तहेतुदूपणम् । वादी प्रत्यर्थी । कारणे कारणोत्तरे। थैंक् दूषणं भवेदित्यर्थः । न चास्याः सिद्ध- साधनत्वेन सदुत्तरत्वे पूर्ववादिनो निग्रहस्थानं स्यादिति शङ्क्यम् । इष्टापत्तेः । पराजयेऽपि पूर्ववादिनो दण्डः परं न भवति । अपराधाभावात् । वाचस्पतिस्तु तत्त्व- ८ (

  • व्यत., सेतु. व्यचिवत् ।

(१) व्यमा. ३००:३०२ कारणं (कारणे) उत्त.; स्मृसा. ९२ म्हुति: (न्हव:) चतुर्थपाद: हारीत: ; व्यचि. १८ निन्हुतिः (निर्हति:); व्यसौ. २९ चतुर्थपादः, हारीतः; वीमि. २ व्यप्र. ५६ पू.:५७ चतुर्थपाद:. .२१७; (३) अत्र मिथ्येतदिति कण्ठतो न जानामीत्यादि त्र्यं अर्थतोऽपन्हवः । 'न जानामि' इति योग्याऽस्मरण- प्रतिपादनद्वाराऽभावप्रतिपादकम् । वाराणस्यां त्वया ऋणं गृहीतमिति भाषायां वाराणस्यां नासं इति, चत्वारिंशे वर्षे त्वया गृहीतमिति भाषायां न हि तदा जात इति चावापोद्वापदर्शनेनाभावबोधकम् | त्वत्पित्रा शतं सुवर्णानां गृहीतमिति भाषायां नाऽहं जानामीति

  • व्याख्यानविस्तर: 'श्रुत्वाभापाथम्' इत्यादिकात्यायन-

श्लोके (पृ.१७४) द्रष्टव्यः । + व्यत, चन्द्र., व्यप्र., सेतु वाक्यार्थी व्यचिवत् । (१) व्यमा. ३०० इति (एवं ) धम् (धा); व्यक. २८ मम ( तदा ) ; पमा ७३ व्यकवत् क्रमेण प्रजापतिः; व्यचि. १९; व्यनि. धम् (धा) हारीत: ; व्यत २०७ व्यासनारदौ; व्यसौ. २४ इति मिथ्या ( मिथ्यैव स्यात् ); वीमि. २१७; व्यप्र. ५७ व्यकवत् ; व्यड्. ३८ मम (तदा) ले (लं ); सेतु. १०६ धम् (घा) व्यासनारदौ; विव्य. ७.