पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ व्यवहारकाण्डम् योत्तरान्तरमेवादावादेयम् । सत्ये क्रियाफलाभावादिति । न चैवं क्रमवाचिपदाध्याहारापत्तेः । यत्रैवोत्तरकाले पक्ष व्यापकानेकोत्तरोपन्यासः, यथा 'केनचिन्मानवेन मदीया गौर्नष्टा दृष्टाऽस्य सद्मनि' इत्यभियुक्तो वक्ति 'मिथ्यैतद - स्मद्भवन एव सा संभूता' इत्येवमादि तद्विषयमेवेदं वचनमिति वाच्यम् । यत उक्तं 'असंकीर्णमतोऽन्यथा' इति । तस्यायमर्थः । असंकीर्णमुत्तरमेवंक्रमे भवति । अतोऽन्यथा यौगपद्ये संकीर्णमेव स्यादिति पक्षव्यापका- मेकोत्तरहेतुविकल्पविषये न जातुचित्संकरावसरः । तस्मा- त्संकरोत्तरविषयमेवेदं वचनम् । अत एव पक्षव्यापकाने कोत्तरविषये वचनान्तरप्रारब्धं तेनैव- 'मिथ्याकारणयो •र्वाऽपि ग्राह्यं कारणमुत्तरम्' इति कारणोत्तरस्यानन्यथा- सिद्धत्वादिना मिथ्यातो गुरुतरत्वादित्यभिप्रायः । अतो मिथ्याकारणयोरुदाहरण मात्रत्वादुत्तरान्तरसंनिपाते ऽपि गुरुतरं ग्राह्यमित्यूह्यम् । यत्र पुनः संकरोत्तरे तुल्यबल तया न पूर्वोक्त महेतुरस्ति तत्राप्यैच्छिक क्रमेणोत्तरं ग्राह्यम् । निर्णयस्य आवश्यकत्वात् । स्मृच.४५ (२) यत्रैकं प्रभूतार्थविषयं तत्र भूयो विषयोत्तरानु सारेण व्यवहारः । यत्र द्वयोस्तुल्यविषयता तत्र यस्य लिखितसाक्षिभुक्तीनां मध्ये अन्यतमक्रियायाः फलं शीघ्रं प्रतीयते तस्यैव क्रियानिर्देशः । तदुक्तं यत्र वा स्यात् क्रियाफलमिति । तदसंकीर्णमेव विज्ञेयम् । अतोऽ- न्यथा तत्संकीर्णम् । तच्चैवं, यथा परेण शताभियोगे दत्ते उत्तरवाद्येवमाह मया न गृहीतं, गृहीतमेव चेत्तदा मम सहायो अनेन दण्डितः तेनैव मया परिशोधितमि त्यादि, अत्र मया न गृहीतमिति वाक्यैकदेशे मिथ्या देशान्तरे च कारणम् । अत एवंविधमुत्तरं हेयम् । स्मृसा. ९९ (३) एवमुत्तरमसंकीर्ग भवति । अतोऽन्यथा संकीर्ण वादभेदापादकं भवतीत्यर्थः । उदाहरणम् - मत्तः सुवर्ण- शतमेकं च रजतं गृहीत्वा याच्यमानो न प्रयच्छतीत्य- भियोगे सुवर्णशतं न गृहीतं रजतमेकं प्रतिदत्तमित्यभि- हिते न वादभेदः । मिथ्याशेषपूर्ववादिनः क्रिया प्राप्ता प्रभूतविषयेति पूर्ववाद्येव तत्साधनादेव रजतप्रतिदाना- भावमपि साधयेदिति न वादभेदप्रसङ्गः । क्रियाफल- स्योदाहरणम्-ततोऽसावेकं सुवर्ण गृहीत्वा याच्यमानो न केवलं न ददाति, किन्तु मम शिरसि ताडित- वानित्यासाधयेत् । तेन यत्र मिथ्याकारणयोर्दण्ड स्याभियोगेन शिरसि ताडितं सुवर्ण च प्रतिदत्त- मित्युत्तरेऽभिहितेन वादभेदः । पूर्ववादिनः क्रियाया दण्डगुरुत्वात्पूर्ववाद्येवोरसि ताडनं सुवर्णशतप्रतिदाना- भावं च साधयेत् । तत्र मिथ्याकारणयोर्दममर्थसाम्यं च भवति तत्र भाषाभेदः । उदाहरणम्-असौ मत्तः सुवर्ण- शतं गृहीत्वा याच्यमानो न प्रयच्छतीत्यभियोगे एकं न गृहीतम् एकं गृहीतं च प्रतिदत्तमित्युत्तरे दण्डार्थयोः साम्याद्वादभेदः । यत्र पुनः एकस्मिन्नेव मिथ्याकारणे भवतः । उदाहरणम्-शृङ्गिणी गौर्मदीया अमुकस्मिन्मासि नष्टा साऽस्य गृहे दृश्यमाना प्रार्थ्यमानाऽपि न प्रदीयते इत्यभियोगे उत्तरवादी तु न तदीया सा गौरिति प्रतिषिध्य मदीयैव सेत्यात्मसंबन्धं प्रतिज्ञाय कारणमभि- हितवान् । मिथ्याऽभिप्रायेण न भवति । मैवम् । कारणे प्रतिवादिनि इत्यनेन संकरोत्तरे मिथ्यानिराकरणमात्र मेवोच्यते । मिथ्या क्रिया पूर्ववादीत्यनेन यस्य साधकमस्ति अमौ साधयेदित्युच्यते । कारणोत्तरे पुनरुत्तरवादिन एक साध्यं, 'कारणात्पूर्वपक्षोऽप्युत्तरत्वं प्रतिपद्यत इति वच- नात् । तेन मिथ्योत्तरे पूर्ववादीत्यनेन कारणोत्तरे उत्तरं सुधूक्तम् ।

  • व्यनि.

(४) असंकीर्ण संकरप्रयुक्तव्यवहारयोगपद्यासंभव- दोषाभावात् । अतोऽन्यथा संकीर्णमिति शेषः । +व्यप्र.६५ व्यासः उत्तरदाने कालातिपातदोषापवादविचार: रोज दैवकृतो दोपस्तस्मिन्काले यदा भवेत् । अवधित्यागमात्रेण न भवेत्स पराजितः ॥ राजदैवकृतं दोषं साक्षिभिः प्रतिपादयेत् । जैह्म्येन वर्तमानस्तु दण्डो दाप्यस्तु तद्धनम् ॥ अवध्यतिक्रमहेतोः राजदैविकस्य प्रमितौ न तदति-

  • शेषतात्पर्य मितावत् । + सर्व व्याख्यानं मितावत्।

(१) व्यचि. १७; व्यत. २०३ वधित्याग ( वध्ययोग); वीमि. २१७ (राजदैवं ततो दोषास्तस्मिन्काले यदा न चेत् ); ! सेतु. १०२. (२) व्यचि. १७ जैह्म्येन (भैक्ष्येण) प्यस्तु (प्यश्च); वीमि. २।७ जैह्म्थेन (भैक्ष्येण).