पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरदाने कालावधिविचारः ' कृते कार्ये विवादे तु सद्योऽनन्तरमुत्तरम् । . अपरत्रागते काले काले दत्तेऽपि दीयते || उत्तरदापनोपाया: उत्तरम् पूर्वपक्षे यथार्थं तु न दद्यादुत्तरं यदा | प्रत्यर्थी दापनीय: स्यात् सामादिभिरुपक्रमैः ।। • प्रियपूर्व वचः साम भेदस्तु भयदर्शनम् । अर्थापकर्षणं दानं दण्डस्ताडनबन्धनम् || सदुत्तरस्वरूपम् पूर्वपक्षार्थ संबद्धमनेकार्थमनाकुलम् । अनल्पमव्यस्तपदं व्यापकं नातिभूरि च ॥ सारभूतमसंदिग्धमपक्षैकांशसंभवम् । अर्थिश्रवमगूढार्थ देयमुत्तरमीदृशम् ॥ (१) पूर्वपक्षार्थसंबन्धं अभियोगानुगतम् । अने- कार्य निष्कृष्टार्थजातम् । अव्यस्तपदं निश्चितप्रतिज्ञा - पूर्वकम् । अपक्षैकांशसंभवं अनवशेषितस्वपक्षक- देशम् । अर्थिश्रवं पूर्वावेदक श्रुतम् । अगूढार्थमवक्रोक्ति- प्रसिद्धपदैकवेद्यम् । एवं लक्षणमुत्तरं चतुर्विधं ज्ञेयम् । 'चतुर्विधः पूर्वपक्षः प्रतिपक्षस्तथैव च' इति बृहस्पति- स्मरणात् । स्मृच.४३ (२) अनेकार्थ अनेकेऽर्था उपयुक्ता विशेषणादयो यत्र तत्तथा । न त्वनेकार्थपदयुक्तं, तस्य संदिग्धत्वेन दुष्टत्वात् । अनाकुलं उक्तार्थम् । उपयुक्तशब्दैरन्यून- मनल्पम् । अव्यस्तानि व्यत्यासयोजनानपेक्षाणि पदानि यत्र तदव्यस्तपदम् । व्यापकं परिपूर्णार्थम् । नातिभूरि अनुपयोगिविस्तररहितम् । सारत्यासंदिग्धत्वे व्याख्याते । स्वपक्षैकान्तसंभवं स्वपरिगृहीतपक्ष एवैकान्तेन नियमेन ( १ ) व्यनि. काले दत्तेऽपि दीयते (काल: काले विधीयते); प्रका. २७ काले दत्ते (काल: काले); समु. २१. (२) शुनी. ४।६३९ र्थ (थें) यदा (तु यः); स्मृच. ४६; प्रका. २९; समु. २२. (३) स्मृच.४६; प्रका. २९; समु. २२-२३. (४) स्मृच. ४३; पमा. ६९; व्यप्र. ५५; व्यउ. ३७ मन्यस्त (मध्यम ) नातिभू (नाभिपू ); प्रका. २७; समु. २१. (५) स्मृच.४३; पमा.६९ अपक्षैकांश (स्वपक्षैकान्त); व्यप्र. ५५ श्रव (श्रव्य) शेषं पमाबत्; ब्यड. ३७ श्रव (श्राव्य) शेषं पमावत् ; प्रका. २७; समु. ३१. व्य. का. २४ संभवति न कथञ्चिदपि पक्षान्तरकक्षामवगाहते तत् । अन्यद्व्यक्तार्थम् । व्यप्र. ५५ प्राङन्यायोत्तरम् अ॑स्मिन्नर्थे ममानेन वादः पूर्वमभूत्तदा । जितोऽयमिति चेद्ब्रूयात् प्राङ्न्यायः स्यात्तदु- त्तरम् ॥ अनेकविधोत्तरयोगपये ग्राश्थमुत्तरम् ' मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं वाऽपि सहान्येन तत्र ग्राह्यं किमुत्तरम् ॥ 3 मिथ्याकारणयोर्वापि ग्राह्यं कारणमुत्तरम् ॥ यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् । उत्तरं तत्तु विज्ञेयमसंकीर्णमतोऽन्यथा ॥ (१) पूर्वमिति शेषः । पूर्व यद्ग्राह्यं तदाह - यत्प्रभू- तार्थति । अयमर्थः । सत्येतरोत्तरानेकत्वे बह्वर्थविषय- मग्रे ग्राह्यम् । सह सत्येनानेकत्वे बर्थमपि सत्यं विहा-

  • अत्रत्या मिता. व्याख्या 'पक्षैकदेशे यत्सत्यम्' इति कात्या-

यनीयश्लोके (पृ. १७९-१८०) द्रष्टव्या | तत्रैव च पमा., सवि., व्यउ., व्यम, विता. एते ग्रन्था गतार्थाः । (१) शुनी. ४।६४६ मिति (मस्ति) स्था...म् ( स उदा हृतः); स्मृच.४३; सवि. ९३; व्यप्र. ६१; व्यउ. ४०; प्रका. २७; समु. २१. (२) मिता. २१७; स्मृच. ४५ मिथ्यो (सत्यो); पमा ७८ ; स्मृसा ९१ वापि सहान्येन (चापि सहा- नेन); व्यचि.२४ च (तत्) शेषं रमृसावत् ; व्यनि. (चैव हि); स्मृचि.४ .४० वा (चा) व्यासहारीतौ; नृप्र. ७ ; व्यत. २०९ स्मृसावत्, व्यासहारीसौ; सवि. ९६ वा (चा); चन्द्र. ११९ स्मृसावत् ; व्यप्र. ६५; व्यउ. ४२; व्यम. ८ वा (चा); विता.६९ वा (चा); सेतु. १०८ स्मृसावत्, व्यास- हारीती; प्रका. २९; समु. २२. (३) मिता. २१७ ; स्मृच. ४५, ५३; व्यत. २०९ व्यासहारीती; सवि.९६ नारदः; व्यम. ९; विता. ७०; सेतु. १०८; समु. २६. (४) मिता. २|७ तु वि (त्र तत् ) ; व्यमा ३०५ पू स्मृच.४५ मितावत् ; पमा ७९, त्तु (त्र); स्मृसा.९ १; व्यचि. २४; व्यनि. मितावत् ; स्मृचि.४० मितावत्, व्यासहारीतौ; नृप्र. ७; व्यत. २०९; सवि. ९६ त्तु (त्र); चन्द्र. ११९ पू.; व्यप्र. ६५, ६७-६८ मितावत् ; व्यउ. ४२ तु (त्र); व्यम.८ मितावत् ; विता. ६९ तु विशे (त्र तदे); सेतु. १०८६ प्रका. २९ मितावत् ; समु. २२ मितावत्. 2 पमा.८०३ चन्द्र. ११९)