पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ प्रमाणमेकमेकस्य वा प्रमाणद्वयं भवितुमर्हम् । उभयोः साध्याभावादेकसाव्यस्य चैकेनैव प्रमाणेन सिद्धावितर- वैयर्थ्यात् । तस्मात् युक्तमुक्तम् – 'संकरात्तदनुत्तरम्' इति । तथा च सर्वत्र पक्षव्यापकमेवोत्तरं देयं दापनीयं च । यत्र पुनः सर्वथा तथाविधमुत्तरं न लभ्यते किन्त्वे- कैकांशव्यापकमेवोत्तरम्, तत्र नानोत्तरवशेन नाना- प्रतिज्ञाः कृत्वा क्रमेणै कैकप्रतिज्ञाया मेकैकोत्तरोपादानेन व्यवहारः प्रवर्तनीयोऽन्यथा तत्र निर्णयाभावप्रसंगः । स चानुचितः । 'छलं निरस्य' इत्यादिवचनात् । 'संक- रात्तदनुत्तरम्' इति हेतूपादानादुक्तविधया संकरे निरा- कृते स्यादेवोत्तरत्वमित्यभिप्रायः । एतदेव व्यतिरेक मुखेनोक्तम् -- 'यत्प्रभूतार्थविषयं यत्र वा स्यात्क्रिया फलम् | उत्तरं तत्र तज्ज्ञेयमसंकीर्णमतोऽन्यथा' इति ॥ अतोऽन्यथा यौगपद्ये संकीर्ण स्यादिति प्रागेव व्याख्या- तम् । पक्षव्यापकानेकोत्तरविकल्पे तु न जातुचित्सं कराऽवसरः । तस्मान्न क्वापि संकरे सदुत्तरत्वमिति । व्यप्र. ६६-६८ पितामहः विषयविशेषे उत्तरदाने कालावधिविचार: व्यवहारकाण्डम् 'ऋणोपनिधि निक्षेपदानसंभूयकर्मणाम् । समये दायभागे च कालः कार्यः प्रयत्नतः ॥ एवमादिष्वपि कालदानं विस्मृत्यादिकारणतः प्रत्य थिनः कालार्थित्वे एव । स्मृच.४२ प्रजापतिः विषय विशेष उत्तरदाने कालावधिविचार: 2 दिनमेकमथ द्वे वा त्रीणि वा पञ्च सप्त वा । कालस्त्वृणादौ गहन आ त्रिपक्षादपि स्मृतः ।। सदुत्तरस्वरूपम् पक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥ (१) स्मृच.४२; पमा. ७१ ; सवि. ९ १; प्रका. २६; समु. २०. (२) गौमि. १३१२८; व्यनि. दपि ( दह :); प्रका. २७ दपि स्मृतः (अहः स्मृतम् ); समु. २० प्रकावत्. (३) मिता. २|७ (=); व्यक. २८ नारदप्रजापती; स्मृच. ४२; मा. ६९; मसा.८८ (=); सवि. ९० (-); चन्द्र. | ११३; व्यसौ. २४; व्यप्र. ५५ नारदप्रजापती; प्रका. २७; समु. २१. पक्षस्य व्यापकं कृत्स्नपक्षाच्छादकम् । सारं वाद्य- भियोगोत्तरणक्षमम् । असंदिग्धं खण्ड श्लेषादिरहितम् । अनाकुलमन्वितार्थम् । अव्याख्यागम्यं सुबोधम् । स्मृच.४३ उत्तरचतुष्टयस्वरूपम् यावदावेदितं किञ्चिन्मत्संबद्धमिहार्थिना । तत्सर्वसद्भुतमिति मिथ्योत्तरं स्मृतम् ।। अस्यैतदेवमेवैतन्नासद्भाषितमर्थिना । इति संप्रतिपत्याख्यं द्वितीयमिदमुत्तरम् ॥ दत्तमेव ममानेन किन्त्वस्यापि मया पुनः । प्रतिदत्तमितीदृक्च प्रत्यवस्कन्दनं स्मृतम् || अस्मिन्नर्थान्तरे पूर्व प्रारब्धोऽस्म्यहमर्थिना | जितश्चायं मया तत्र प्राङ्न्यायविधिरुच्यते ॥ हारीतः उत्तरदानकाल: स्वल्पवर्णोऽर्थबहुल: प्रतिज्ञादोषवर्जितः । साक्षिमान्कारणोपेतो निरवद्यः सुनिश्चितः ।। • ईश: पूर्वपक्षस्तु लिखितो यत्र वादिना । दद्यात्तत्पक्षसंबन्धं प्रतिवादी तदोत्तरम् ॥ साक्षिमान् प्राड्विवाकादिप्रत्यवेक्षणवान् । स्मृच. ४१ उत्तरानईविषयः साधारणी च या भूमिर्यच्च द्रव्यं गणाश्रितम् । एकस्य प्रार्थ्यमानस्य न बदेदुत्तरं बुधः ॥ यदा त्वनीदृशस्तदा न दद्यादित्यर्थसिद्धं स्पष्टयितुं पक्षाभासमेकमुदाहृत्य तस्योत्तरं न देयमित्याह - साधारणीति । स्मृच. ४१ उत्तरदानविधिः तंत्राभियोगानुगतमुत्तरं प्रतिवादिना । निष्कृष्यार्थ प्रदेयं स्याद्दोषसंज्ञाविवर्जितम् ॥ (१) स्मृच.४३; पमा.७२ बज्र (बन्ध) सद्भू (संभू); प्रका. २८; समु. २१. (२) स्मृच. ४३; पमा. ७३ अ (य) सद्भाषि (संभावि); प्रका. २८; समु. २१. (३) स्मृच. ४३; पमा ७३ प्रारब्धो (प्रलब्धो ) ; प्रका. २८; समु. २१. (४) स्मृच.४१; प्रका. २५; समु. २०. (५) स्मृच. ४१; प्रका. २५ न्धं (द्धं ) दो (थो); समु. २० न्धं (द्धं). (६) स्मृच.४१; प्रका.२५; समु. २२. (७) स्मृच. ४६; सवि.९८ स्मृतिः; प्रका.२९; समु. २२ कृष्या (क्रिया). i