पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् १८३ 1 , - तिर्धार्यन्ते पञ्चविंशतिर्नैव गृहीता इत्युत्तरे कारणभाग | सचेतसा दुरपह्नवत्वात् । किं त्र, भवदुक्तरीत्या न्याया- आदौ विचार्यः, पश्चात्तु अपन्हुताः पञ्चविंशतिरपि अर्थिप्रमाणेन वा साध्याः, प्रत्यार्थप्रमाणेन वा बाध्याः । न चैवं सत्येतद्वचनविरोध एव । न्यायवचनानामुत्सर्गतो न्यायमूलकत्वेनैव तद्वचनस्यापि लघुत्वप्रमाणपरिग्रहा- बाधकत्वात् । सति निर्णयप्रमाणे च तदंशेऽपि प्रकरणारम्भकसंशयस्यावश्यनिरस्यत्वात् । न च ‘यत्प्रभूतार्थविषयमि’त्यादिवचनबलाद् एव लघुत्व प्रमाणाग्राह्यता । तथा सत्येतत्स्मृतीनां श्रुतिमूलता पत्तेः । न चैतदिष्टमेव । असंभवन्मूलान्तरत्वस्य तत्रो पाधित्वात्, यूपहस्त्यादिस्मृतौ तथा सिद्धान्तात् आसां च न्यायमूलकत्वस्यैव संभवात् । 'मिथ्याकारणसंभेदे ग्राह्यं कारणमुत्तरम्' इत्यादि वचनमप्येवमेव नेयम् । तस्मात् यावत् प्रकरणारम्भकसंशयोऽनुवर्तते, निर्णायकं च प्रमाणं लभ्यते, तावद् विचारणीयमिति परमार्थः । भवदेवप्रदीपादयोप्येवम् । *व्यचि.२३-२५ (६) मिता. टीका---' एवं चतुःसंकरेऽपी'ति । 'अनेन सुवर्णे रूपकशतं वस्त्राणि धान्यं च गृहीतमि त्यमियोगे, 'सुवर्ण धारयामि', 'रूपकशतं न गृहीतं,' 'वस्त्राणि प्रतिग्रहेण लब्धानि’, ‘धान्यविषये पूर्वे पराजित,' इत्येवं क्रमादुत्तरसंकरो द्रष्टव्यः । भासमूलकतया 'न चैकस्मिन्' इत्यादेरप्रामाण्यप्रसंगः । यच्चैकदेशपदस्यैक विषयपरत्ववर्णनमेकदेशपदद्वयस्य चा- नुवादत्वप्रतिपादनं तदतिमन्दम् । एकदेशपदे रूढि- त्यागप्रसंगात् । संभवत्यस्मदर्थेनार्थवत्त्वे निरर्थकानु- वादस्यानर्थक्यापरपर्यायस्याभ्युपगमानौचित्याच्च । यच्चै- कविषयसंकर उदाहृतं तदपि संदिग्धादिदोषसंकीर्ण- मसाधारण्येनैतद्वचनविपयतानर्हमिति समस्तवचनान- र्थक्यम् । यदप्युक्तम् – 'असंभवन्मूलान्तरत्वस्य श्रुति- मूलकत्वे प्रयोजकत्वमिति, तदपि मीमांसानध्ययन नित्र- धनम् । न ह्यसंभवन्मूलकत्वमष्टकादिस्मृतीनां श्रुतिमूल- कत्वे प्रयोजकम् । तथा सति तुलापुरुषादिस्मृतीनां लोभादिमूलकत्वस्य सुतरां संभवात् श्रुतिमूलकत्वाभाव- प्रसंगः । यथाहुः वार्तिककारा :--'रागद्वेषमदोन्माद- प्रमादालस्यलुब्धताः । व वा नोत्प्रेक्षितुं शक्याः स्मृत्य प्रामाण्यहेतवः' ॥ यृपहस्त्यादिस्मृतिषु मुक्तकत्वेनाप्तप्रणीत- त्वानवधारणान्मूलभूतश्रुत्यकल्पनम् । कर्तृसामान्याभा- वादिति भाष्याभिमताप्रामाण्ये मूलयुक्तिः । हेतुदर्शनं तदुपष्टम्भकमन्वाचयमात्रमिति तत्रैव व्याचक्षाणैः क्षुण्णमाकरे । वार्तिककाराणां तु दृढतरवैदिकं परिग्रहीतुं प्रामाण्यमेव तासामभिमतमित्यपि तदभियोगभाजां न दुर्लभम् । यदपि अपि चेत्याद्यसंभवदुक्तिकस्वकपोलक- सितविकल्पजालमुद्भाव्य खण्डितं, तदपि प्रस्तुत प्रतीपम् । तादृशोत्तरस्य सर्वैरभ्युपगन्तव्यत्वात् । शत- ग्रहणाभावस्य तदर्थस्यादुष्टत्वाच्च । अयमत्र सकलवचन- संदर्भसमाधानानिष्कृष्टोऽर्थः । क्रिया लिखितादिप्रमाण- रूपा प्रत्यवस्कन्दने प्राङ्न्याये च प्रत्यर्थिन एव भवति । मिथ्योत्तरे चार्थिन एव | संप्रतिपत्तौ न कस्यापि इति व्युत्पादयिष्यते । एवं च सत्येन यत्रेतरेषां त्रयाणामुक्त- राणां संकरस्तत्र प्रत्यार्थिन: कारणप्राङ्न्यायसाधनाय प्रमाणद्वयमर्थिनच स्वसाध्यसाधनायैकं प्रमाणं प्राप्नोति । यत्र कारणप्राङ्न्याययोस्तत्र प्रत्यर्थिनः प्रमाणद्वयम् । यत्र पुनर्मिंथ्याकारणयोर्मिथ्याप्राङ्न्याययोर्वा तत्रार्थि प्रत्यर्थिनोरेकैकं प्रमाणम् । न च यथाप्राप्तमेवाऽस्त्विति वाच्यम् | प्रमाणं हि साध्यसिद्धयर्थम् | एकस्मिन्ध्यव हारे चैकमेव साध्यमेकस्यैवोचितम् । तेन तत्र नोभयोः तस्मिन्नेवाभियोग इति । अनेन 'सुवर्ण रूपकशतं वस्त्राणि च गृहीतानी’ति पूर्वोक्त एवाभियोग इत्यर्थः । प्रत्याकलितस्येति । पौनःपुन्येन विचारणं प्रत्याक सुत्रो. २१७ लितम् । (७) (उपरिनिर्दिष्टवाचस्पतिमिश्रोक्तपक्षमुपन्यस्त्र खण्डनं प्रारभते व्यवहारप्रकाशकारः ·) तदेतद्वागांडम्बरमात्रान्नार्थक्षोदक्षमम् । तथा हि- मिताक्षरायुक्तरीत्या दृष्टार्थतयैव सकलवचनस्वरसाभङ्ग संभवात् । ' न चैकस्मिन्' इत्यादिवचनपर्यालोचनया युगपदनुत्तरत्वस्यैवास्य वर्णितत्वात् । क्रमिकोत्तरत्वस्य सर्वेरपि इष्टत्वात् । न चायौगपद्यमेव निर्वाजम् । युग पद्व्यवहारासंभवस्यैतादृशि विषये उपपादितत्वात् । व्यव हारस्य चतुष्पात्त्वात् । क्रियारूपपादभेदे साध्यभेदेन भाषारूपपादभेदे चातद्घटिते व्यवहारभेदप्रसङ्गस्य

  • व्यत., चन्द्र, वाक्यार्थो व्यचिवत् ।

,