पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् १८२ ममानेन सुवर्णशतं देयमित्यादि लिखितादिना साध्यते । परेणापि न देयमिति,तत्रोभयोर्नार्थसिद्धिरन्योन्यविरोधात् । किञ्च प्रत्यवस्कन्दोत्तरप्राङ्न्यायोत्तरयोः संकीर्णयोः सम्यगु- त्तरत्वे प्रमाणद्वयमेकत्र वादिनि प्राप्नोति । तथा हि प्रत्यव- स्कन्दवादित्वाद्गृहीतस्य दत्तत्वादौ कारणे काऽपि क्रिया कार्या । प्राङ्न्यायोत्तरत्वे तु जितपत्रादिका क्रिया । न च क्रियाद्वयस्य प्रामाण्यं, प्रमेयभेदात् । एकया हि क्रियया साध्यसिद्धौ व्यर्थाऽपरा । तस्मादसंकीर्गमेव सम्यगुत्तरम् । ननु चैकस्मिन्व्यवहारे वादिप्रतिवादिनोः कथं साक्षि संबन्धः, उक्तं हि—सा चेति । सत्यं, तुल्यवदुभयोर्नास्ति क्रियाप्राप्तिः । यदा यस्य क्रिया शास्त्रतः प्राप्ता तदा तस्य तां मिथ्याभूतां विदित्वा तस्या मिथ्यात्वख्यापनाय साक्ष्यन्तरमुपन्यसनीयमित्येतेनोच्यते । अप. २/७,२७९ (४) अयमर्थः । क्रिया लिखितादिप्रमाणं, तत्प्रत्य- वस्कन्दने प्राङ्न्याये च प्रत्यर्थिन एव भवति । मिथ्यो- त्तरे त्वर्थिन एव । सत्ये तु न कस्यापीति वक्ष्यते । एवं च यत्र सत्येतरेपां त्रयाणां संकरस्तत्र प्रत्यर्थिनः प्रमाण- द्वयमार्थिन चैकं प्रमाणं प्राप्नोति । यत्र सत्यमिथ्येतरयोस्तत्र प्रत्यर्थिन एव प्रमाणद्वयम् । यत्र पुनर्मिथ्याकारणयो- र्मिथ्याप्राङ्न्याययोर्वा तत्रार्थिप्रत्यर्थिनोरेकैकं प्रमाणम् । न च यथा प्राप्तं तथैवास्त्विति वाच्यम् । प्रमाणं हि साध्य सिद्धयर्थं क्रियते । एकस्मिन्व्यवहारे चैकमेव साध्यमेक- स्यैव वादिनस्तेन तत्र नोभयोः प्रमाणमेकस्य वा प्रमाणद्वयं भवितुमर्हति । उभयोः साध्याभावात् । एकस्य साध्यस्य चैकेन प्रमाणेन सिद्धावन्यस्य वैयर्थ्यात् । सत्यस्य तु इतरैः संकरे यद्यपि नायं दोषः, तथाऽप्येक स्मिन् व्यवहारे पादचतुष्टये तदर्धे च समाप्तिर्विरुद्धेति तत्राप्यनुत्तरत्वमेव । तस्मायुक्तमुक्तम् – 'संकरात्तद- नुत्तरमिति' । एवं च सर्वत्र पक्षव्याप्येकमेवोत्तरं ग्राह्यम् । यत्र पुनः सर्वथा तथाविधमुत्तरं न लभ्यते किन्तु एकैकांशव्यापक मनेकमुत्तरं तत्रागत्योत्तरवशेन नानाप्रतिज्ञाः पक्षदोषपरिहाराय कृत्वा क्रमेणैकैकप्रति ज्ञाया एकैकमुत्तरं ग्राह्यम् । अन्यथा तत्र निर्णयाभाव एव स्यात् । अत एवोक्तम्-‘संकरात्तदनुत्तरमि' ति उक्तवि-

  • व्यक. अपवत् ।

धया संकरे निराकृते स्यादेवोत्तरमित्यभिप्रायः । स्मृच.४५ (५) अत्र केचित् - यथा शतग्रहणे भाषिते पञ्चा- शतं धारयाम्येव पञ्चविशतिः परिशोधिताः पञ्चविंशतिर्न गृहीता इत्यायुदाहरणम् । अत्र च कात्यायनवचनं बीज तथा हि न चेति । एकत्र द्वयोर्वादिनोर्न क्रिया, द्वयी चन क्रिया, द्वयोश्च न जय इति वाक्यार्थः । यथोक्त- संकीर्णोत्तरस्य च ग्राह्यत्वे तत्सर्व प्रसजेतेत्याहुः । तन्मन्दम् | न हीदृशो विषय एव न संभवति । बहुशो दर्शनात् । न चेदृशमुत्तरं न देयम् । यथावस्थितोत्तर-

दानस्य निषेध्दुमशक्यत्वात् । न च सकल एवाक्षेपे

मिथ्योत्तरमेव कार्य शतस्यागृहीतत्वादिति वाच्यम् । न हि विज्ञा एव विवदन्ते किन्तु अज्ञा अपि, न च ते इत एव पर्यनुयोज्याः, किन्तु तत्वतो निरूप्याः । ‘छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः' इत्यादिवचनात् । किञ्च न मदु- त्तरान्तरमत्र संभवतीत्यत एवास्य हेयता, उपायस्योपा- यान्तरादूपकत्वात् । न च वचनादेवास्य हेयता । एत- ! द्वचनस्यादृष्टार्थतापत्तेः । अपि च शतं न गृहीतमित्यस्य नाग्रहणमात्रमर्थः । शतपदानर्थक्यापत्तेः । नापि शता- ग्रहणम् । विशेषनिषेधे शताभ्यनुज्ञापत्तेः । नापि शतपदं पक्षप्राप्तानुवादः । एवमेकदेशस्य गृहीतस्य गृहीतत्व- विभावनादेव स्थापको निरपवादमेव तावद्धनं लभेतेत्य- | निष्टफलकमुत्तरं स्यात् । तस्माद् एकदेशे एकस्मिन्नेव देशे यदुत्तरं संकीर्यते तदनुत्तरम् । शेषं एकदेशपद- द्वयं चानुवादः । तथा हि, मया शतं न गृहीतं, गृहीतं वा परिशोधितं धारयाम्येवेत्यादि । यत्तु भिन्नभिन्नावच्छे- देन कारणादिस्पर्शि तत् सदुत्तरमेव । अवच्छेदभेदेन सांकर्थस्यैवाभावात् । अत्रैव हारीतेनापि मीमांसितम्- 'मिथ्योत्तरं कारणं तत्स्यातामेकत्र चेदुभे । सत्यं चापि सहानेन तत्र ग्राह्यं किमुत्तरम् ॥ यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् । उत्तरं तत्तु विज्ञेयमसंकीर्ण- मतोऽन्यथा ॥ यदिति । प्रभूतांशमादाय विचार उपक्रम- णीयः तुल्यार्थकत्वे तु यत्र क्रियाया भुक्त्यादेः फल- निर्णयः शीघ्रं भवति, तदंशस्यैव प्रमाणं ग्राह्यम् । तदुक्तं 'यत्र वा स्यात्क्रियाफलमि'ति । इदं चोत्तरं अ संकीर्णमेव । यत्तु इतोऽन्यथा तत्संकीर्णे हेयमिति । तदयं वर्णनार्थः शताभियोगे पञ्चाशत् परिशोधिताः पञ्चविंश