पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० विरुद्धम् । यथा सुवर्ण रूपकशतं चानेन गृहीतमित्य भियोगे सुवर्णे न गृहीतं रूपकशतं गृहीतं प्रतिदत्तं चेति । कारणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रिया- द्वयम् --- ‘प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्कि- याम्' इति । यथा सुवर्ण गृहीतं प्रतिदत्तं रूपके व्यव हारमार्गेण पराजित इति । अत्र च प्राङ्न्याये जय- पत्रेण वा प्राङ्न्यायदर्शिभिर्वा भावयितव्यम् । कार णोक्तौ तु साक्षिलेख्यादिभिर्भावयितव्यमिति विशेधः । एवमुत्तरत्रयसंकरेऽपि द्रष्टव्यम् । यथा, अनेन सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्ण गृहीतं प्रतिदत्तं, रूपकशतं न गृहीतं, वस्त्रविषये तु पूर्व न्यायेन पराजित इति । एवं चतुःसंकरेऽपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यांशस्य तेन तेन विनाऽसिद्धेः क्रमेणोत्तरत्वमेव । क्रमश्रार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनरुभयोः संकरस्तत्र यस्य प्रभूतार्थविषयत्वं तत्कियोपादानेन पूर्व व्यवहारः प्रव र्तयितव्यः पश्चादल्पविपयोत्तरोपादानेन च व्यवहारो द्रष्टव्यः । यत्र च संप्रतिपत्तरुत्तरान्तरस्य च संकरस्त त्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः । संप्रतिपत्तौ क्रियाभावात् । यथा हारीतेन – 'मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं वाऽपि सहान्येन तत्र ग्राह्यं किमुत्तरम् ॥ इत्युक्त्वोक्तम् – 'यत्प्रभूतार्थविषयं यत्र वा स्यात्क्रियाफलम् । उत्तरं तत्र तज्ज्ञेयमसंकीर्ण मतोऽन्यथा' || संकीर्ण भवतीति शेषः । शेषापेक्षया ऐच्छिकः क्रमो भवतीत्यर्थः । तत्र प्रभूतार्थ यथा, अनेन सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सुवर्ण रूपकशतं च न गृहीतं वस्त्राणि तु गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वाद- निः क्रियामादाय प्रथमं व्यवहारः प्रवर्तयितव्यः १ संप्रतिपत्तौ क्रियाभावाच्चतुःसंकरो नोदाहार्य: । संकर संभवमात्रेण तु मिताक्षराकारेण ‘एवं चतुःसंकरेऽपि' इत्यु - क्तम् । अत एवाग्रे ‘यत्र संप्रतिपत्तेरुत्तरान्तरेण संकरः तत्रोत्त रान्तरोपादानेन व्यवहारः प्रवर्तनीयः । संप्रतिपत्तौ क्रियाभा- वात्' इति तेनैवोक्तम् । व्यप्र. ६५ (त्र); चन्द्र.११९; व्यसौ.२७; वीमि.२१७; व्यप्र.६४: १३२ पू.; व्यउ. ४१; व्यम.८; विता. ६७-६८:१८१ पू.; प्रका. २८; समु. २२; विग्य. ७ यमः व्यवहारकाण्डम् पश्चाद्वस्त्रविषयो व्यवहारः एवं मिथ्याप्राङ्याय- संकरे कारणप्राङ्न्यायसंकरे योजनीयम् । तथा तस्मिन्नेवाभियोगे सत्यं सुवर्णं रूपकशतं च गृहीतं प्रति- दास्यामि, वस्त्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा वस्त्रविषये पूर्वं पराजित इति चोत्तरे संप्रतिपत्तभू- रिविषयत्वेऽपि तत्र क्रियाभावान्मिथ्याद्युत्तरक्रियामादाय व्यवहारः प्रवर्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः कृत्स्नपक्षव्यापित्वं, यथा-शृङ्गग्राहिकया कश्चिद्वदति, इथं गौर्मदीया अमुकस्मिन्काले नष्टा अद्यास्य गृहे दृष्टेति । अन्यस्तु मिथ्येतत्, प्रदर्शितकालात्पूर्वमेवास्मद्गृहे स्थिता मम गृहे जाता चेति वदति । इदं तावत्पक्षनिरा- करणसमर्थत्वान्नानुत्तरम् । नापि मिथ्यैव, कारणोपन्या- सात् । नापि कारणम्, एकदेशस्याप्यभ्युपगमाभावात् । तस्मात्सकारणं मिथ्योत्तरमिदम् । अत्र च प्रतिवादिनः क्रिया, 'कारणे प्रतिवादिनि' इति वचनात् । ननु ‘मिथ्या क्रिया पूर्ववादे' इति पूर्ववादिनः कस्मात्क्रिया न भवति । तस्य शुद्धमिथ्याविषयत्वात् । कारणे प्रति- वादिनीत्येतदपि कस्मात् शुद्धकारणविषयं न भवति । नैतत् । सर्वस्यापि कारणोत्तरस्य मिथ्यासहचरितरूप- त्वाच्छुद्धकारणोत्तरस्थाभावात् । प्रसिद्धकारणोत्तरे प्रति- ज्ञातार्थैकदेशस्याभ्युपगमेन एकदेशस्य मिथ्यात्वम् । यथा, सत्यं रूपकशतं गृहीतं न धारयामि प्रतिदत्तत्वा दिति । प्रकृतोदाहरणे तु प्रतिज्ञातार्थैकदेशस्याप्यभ्युप- गमो नास्तीति विशेषः । एतच्च हारीतेन स्पष्ट मुक्तम् – 'मिथ्याकारणयोर्वापि ग्राह्यं कारणमुत्तरम् इति । यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वम् -- यथा, रूपकशतं धारयतीत्यभियोगे मिथ्यैतदस्मिन्नर्थे पूर्वमयं पराजित इति । अत्रापि प्रतित्रादिन एव क्रिया -- 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्कियाम्' इति वचनात् । शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्व- प्रसङ्गात् । संप्रतिपत्तरपि साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणत्वादेवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः यथा शतमनेन गृहीत- मित्यभियुक्तः प्रतिबदति सत्यं गृहीतं प्रतिदत्तं चेत्य- स्मिन्नेवार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रति- वादिनो यथारुचीति न क्वचिद्वादिप्रतिवादिनोरेक-