१७८ अप्रसिद्धं विरुद्धं यदत्यल्पमतिभूरि च । संदिग्धासंभवाव्यक्तमन्यार्थ चातिदोषवत् ॥ अव्यापकं व्यस्तपदं निगूढार्थ तथाऽऽकुलम् | व्याख्यागम्यमसारं च नोत्तरं शस्यते बुधैः || ' चिह्नाकारसहस्रं तु समयं चाविजानता । भाषान्तरेण वा प्रोक्तमप्रसिद्धं तदुत्तरम् || प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि । यदेवमाह विज्ञेयं विरुद्धं तदिहोत्तरम् ॥ "जितः पुरा मया चायमस्मिन्नर्थे विवक्षिते । पुरा मयाऽयमिति यत्तदूनं चोत्तरं स्मृतम् ॥ गृहीतमिति वाच्ये तु कार्य तेन कृतं मया । पुरा गृहीतं यद्रव्यमिति यच्चातिभूरि तत् ॥ "देयं मयेति वक्तव्ये मयाऽदेयमितीदृशम् । संदिग्धमुत्तरं ज्ञेयं व्यवहारे बुधैस्तथा ॥ बलाबलेन चैतेन साहसं स्थापितं पुरा । अनुक्तमेतन्मन्यन्ते तदन्यार्थमितीरितम् ॥ अस्मै दत्तं मया साधं सहस्रमिति भाषिते । प्रतिदत्तं तदर्ध यत्तदिहाऽव्यापकं स्मृतम् || 'पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेशयेत् । मया गृहीतं पूर्व नो तव्यस्तपदमुच्यते ॥ व्यवहारकाण्डम् (१) स्मृच.४४; पमा. ७३; नृप्र. ६ वत् ( कृत् ) ; व्यप्र. ६३; प्रका. २७; समु.२२. (२) स्मृच. ४४; प्रका. २७; समु. २२. (३) स्मृच.४४; पमा.७३ चा (वा); व्यप्र. ६३; प्रका. २७; समु. २२. (४) स्मृच.४४; पमा. ७३; सवि.९३ पू.; प्रका. २७; समु.२२. (५) स्मृय.४४ चायमस्मिन्नर्थे विवक्षिते ( ऽयं तु अथेंड- स्मिन्निति भाषितम्); पमा.७४ चाय ... क्षित (ऽयं तु अर्थेऽ स्मिन्निति भाषिते) ऽयमिति यत्तदूनं चोत्तरं (च प्रमितमङ्गीकारो त्तरं ); व्यप्र. ६३; प्रका. २७ स्मृचवत्; समु. २२ स्मृचवत्. (६) स्मृच.४४ च्ये (च्यं ); पमा ७४ यच्चाति (चेद्वक्ति); व्यप्र. ६३ ति यच्चा (त्येतद) तत् (तु); प्रका. २७; समु. २२. (७) स्मृच.४४; पमा ७४ ये (मे); सवि. ९४; व्यप्र. ६३ तथा (सदा); प्रका. २७; समु. २२. (८) स्मृच.४४; पमा. ७४; उयप्र. ६३; प्रका. २७; समु. २२. (९) स्मृच.४४; पमा. ७४ दर्घ (दर्थ); सवि. ९४; प्रका. २७-२८; समु. २२. (१०) स्मृच.४४; पमा ७४ दी (द); सवि. ९४ श (द) ; समु. २२. तैत्कि तामरसं कश्चिद्गृहीतं प्रदास्यति । निगूढार्थ तु तज्ज्ञेयमुत्तरं व्यवहारतः ॥ २ किं तेनैव सदा देयं मया देयं भवेदिति । एतदाकुलमित्युक्तमुत्तरं तद्विदो विदुः ॥ कैाकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम् । असारमिति तत्तेन सम्यङ् नोत्तरमिष्यते || (१) अत्र आद्यान् प्रञ्चोत्तराभासान् स एव व्याचष्टे चिह्नाकारेति । लाञ्छनावयव संस्थान संख्यासमयानभिज्ञो- अदेशभाषयोक्तं चाप्रसिद्धमित्यर्थः । पूर्वापरविरु- द्धाभिधानं विरुद्धोत्तरमित्यर्थः । अस्मिन्नथें पुराऽयं मया जित इति वक्तव्ये पुरामयेत्येतावन्मात्रं ऊनमुत्तर- मित्यर्थः । गृहीतमित्येतावन्मात्रेण सत्योत्तरे वक्तव्ये कार्यं तेनेत्यादिकमुत्तरमतिभूरीत्यर्थः । मया देयमित्यत्र त्वकारप्रश्लेषसंभवाददेयमित्यप्यवगमात् संदिग्धमेत्रं- विधमित्यर्थः । असंभवमस्माभिर्देयं धनं अस्मत्प्रपौत्र- पुत्रेण दत्तमित्येवंविधमुत्तरम् । अव्यक्तमेतदुत्तरमिति सुखेनाभिधातुमशक्यम् । एतौ चोत्तराभासौ स्पष्टाविति न तेन व्याख्यातौ । अन्यार्थ व्याचष्टे-बलाबलेनेति । अर्थिनो यदसद्वृत्तकथन एव पर्यवसितं मिश्रो विरुद्ध पदवच्च तदन्यार्थमित्यर्थः । अतिदोपवत् अत्युक्त्या दोषवत्, शतं देयमित्युक्ते द्विशतं दत्तमित्यादि, अव्यापकादिचतुष्टयं तेनैव व्याख्यातम् । पूर्वपक्षनिश्चया- दर्वाक् दीयमानं मिथ्यात्तरं व्यस्तपदमित्यर्थः । अगृहीतं पद्ममतो न प्रददामीति उदाहृतोत्तराभासस्यार्थः । सार्वभौमप्रयोगासिद्धतामरसादिपदवद् वक्रोक्त्यादिमच्चो- त्तरं निगूढार्थ विज्ञेयमिति श्लोकार्थः । अनन्वितानेक पदार्थपदमाकुलमित्यर्थः । व्याख्यागम्यं स्वतो दुरव बोधम् । असारं तेनोक्तम्- काकस्येत्यादिना । काकदन्त- समुद्भवोत्तरवन्निष्प्रयोजनमसारमित्यर्थः । *स्मृच. ४४ (२) अत्र चिह्नेत्यादेरयमर्थः । विवादविषयस्य गो. क्तम्,
- सवि. स्मृचवत् ।
(१) स्मृच.४४ कश्चि (किंचि); पमा ७४ कश्चि (किंचि) शेयं (प्रोक्तं); सवि.९४ प्र (न); प्रका. २८; समु. २२. (२) स्मृच.४४; पमा. ७५; सवि. ९४ पू.; प्रका. २८; समु. २२. (३) स्मृच. ४४; पमा. ७५ यदु ( तदु ) सत्तेन (तत्वेन); व्यप्र.६३ सम्यङ् ( समं ) ; प्रका. २८; समु. २२.