पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् पक्षैकदेशव्याप्येव तञ्च नैवोत्तरं भवेत् ॥ ये व्यस्तपदमव्यापि निगूढार्थ तथाऽऽकुलम् | व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ॥ (१) तत्र संदिग्धम् - सुवर्णशतमनेन गृहीतमित्युक्तं सत्यं गृहीतं सुवर्णशतं माषशतं वेति । प्रकृतादन्यत् सुवर्णशताभियोगे पणशतं धारयामीति । अत्यल्पम्- सुवर्णशताभियोगे पच धारयामीति । अतिभूरि-सुवर्ण शतामियोगे द्विशतं धारयामीति । पक्षैकदेशव्यापि- हिरण्यवस्त्राद्यमियोगे हिरण्यं गृहीतं नान्यदिति । व्यस्त पदम् - ऋणादानाभियोगे पदान्तरेणोत्तरम् । यथा, सुवर्ण शताभियोगे अनेनाहं ताडित इति । अव्यापि – देश- स्थानादिविशेषणाव्यापि । यथा, मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रमनेनापहृतमिति पूर्वपक्षे लिखिते क्षेत्र मपहृतमिति । निगूढार्थ-यथा, सुवर्णशताभियोगे किमह मेवास्मै धारयामीत्यत्र ध्वनिना प्राविवाकः सभ्यो वा अर्थी वा अन्यस्मै धारयतीति सूचयतीति निगूढार्थम् । आकुलं-पूर्वापरविरुद्धम्, यथा, सुवर्णशताभियोगे कृतं सत्यं गृहीतं न धारयामीति | व्याख्यागम्यं-दुःश्लिष्ट विभक्तिसमासाध्याहाराभिधानेन व्याख्यागम्यं अदेश भाषाभिधानेन वा । यथा, सुवर्णशतविषये पितृऋणाभि योगे गृहीतशतवचनात् सुवर्णानां पितुर्न जानामीति । अत्र गृहीतशतस्य पितुर्वचनात् सुवर्णानां शतं गृहीत. मिति न जानामीति । असारं-न्यायविरुद्धम् सुवर्ण शतमनेन वृद्धया गृहीतं वृद्धिरेव दत्ता न मूलमित्यभि योगे सत्यं वृद्धिर्दत्ता न मूलं गृहीतमिति । ÷ मिता.२|७७ ÷ व्यनि, ग्यउ, विता. मितावत् । (१) मिता.२१७ स्मृत्यन्तरम् ; व्यमा. ३०३; अप. २१७ तथा (अना) गम्य ( गम ); व्यक.३० यव्यस्तपदमव्यापि १७७ प्रकृतादन्यद्यथा-सुवर्णशतं धारय से त्वं मदीय- मित्युक्तो नाहं त्वां ताडयामीति वदति । अथ वा चकारादिना निपातेनाने कविवक्षितार्थप्रतिपादनम् । अति- भूरि-स्वल्पेऽर्थे वक्तव्ये महावाक्यमसंग्राह्यार्थम् । व्यस्त पदं - व्यवहितान्वयम् । अव्यापि- देशविशेषेण काल विशेषेण वा विशिष्टं पूर्वपक्षं निराकरोति न स्वरूपेण । यथा, चैत्रमास्युजयिन्यां सुवर्णशतं मदीयमनेन गृहीत मित्यभियुक्तो ब्रूते, न मयोजयिन्यां चैत्रे गृहीतमिति । नैवमाचष्टे न मया गृहीतमिति | निगूढार्थम्-अप्रसि- द्वार्थपदम् । यथा, अर्जुनीशब्देन गोरभिधानम् । काश्यपी- शब्देन वा भूमेः । असारं - अदृढम् । यत्रोक्त एव नैतत्संभवतीति सर्वेषां बुद्धिर्जायते । ÷अप. २।७ (यस्यास्ति पदमन्यायि); स्मृच. ४४ यद्वयस्तपत्रमव्यापि (अव्या- पकं ब्यस्तपदं) स्वार्थसिद्धये (शस्यते बुधैः); पमा. ७३; स्मृसा. ८९ यव्यस्तपद मव्यापि (असंबद्धपदव्यापि) स्वार्थसिद्धये (शस्यत बुधैः); ब्यचि.२५ स्मृसावत् ; व्यनि स्वार्थसिद्धये ( शस्यते बुधैः) हारीत: ; स्मृचि.४० नारदः; नुप्र. ६; व्यत. २०७ यब्चस्तपदमण्यापि (अस्तब्यस्तपदध्यापि) शेषं स्मृचवस्; व्यसौ. २७; ग्यप्र. ६२-६३३ व्यम. ८ स्मॄत्यन्तरम् ; विता.६२ स्मृत्यन्तरम् । सेतु. १०५ यन्यस्तपत्रमण्यापि ( अस्तव्यस्तपद- व्यापि) था (दा) स्वार्थसिद्धये ( मन्यते बुधैः); प्रका. २७ स्मृचवत् । समु. २२ स्मृचवत्, हारीत: य. का. २३ (३) प्रकृतेन त्वसंबद्धमिति -प्रकृतभाषास्वरूपेणा- संबद्धमिति । अत्यल्पमिति-हेतुशून्यप्रतिज्ञामात्रम् । अति- भूरि चेति-यत्र हेत्वादिद्वितयं त्रितयं वा । यथा, शताभि- योगे वृत्ते यदि ब्रूते मयाऽस्य शतं गृहीतमेव किन्तु प्रसादेन ह्यनेन दत्तं किञ्चाइमस्य दायादा, तथा, ममाप्यनेन गृहीतं तेनैव मया परिशोधितमित्येवमादि भूरिकारणा- भिधानेन विवेचकानां अनिरूपणात् उत्तराभासत्वम् । पश्चैक देशव्याप्येवेति- व्याख्यातमेव । अस्तव्यस्तपदव्या- पीति- अनन्वितार्थपदव्यासम् । असारमिति जात्युत्तरम् । सर्वस्यास्य विवक्षिताऽप्रतिपादकत्वादनुत्तरत्वमिति वेदितव्यम् । Xस्मृसा.८९९० , (४) अत्र क्वचित्पूर्वपश्चानिराकरणात्, कचिदसंब द्धार्थत्वात् कापि विलम्बितार्थप्रत्यायकत्वाद्यथायथम- नुत्तरत्वमवसेयम् । यद्यप्युदाहृतमसारं पूर्वापरविरोध एवं पर्यवस्थति, तथापि कचित् साक्षात् क्वचिन्त्यायविरो- धात् तथात्वमिति भेदकं द्रष्टव्यम् । स्मृतिचन्द्रिका कारस्तु काकदन्तसद्भावोत्तरमिष्यत इति । कात्यायनवचनं च तत्र संवादितवान् । 'काकस्य दन्ता नो सन्ति सन्ती- |त्यादि यदुत्तरम् । असारभिति तत्तेन समं नोत्तरमिष्यते इति ॥ +व्यप्र.६२-६३ - शेषं मितावत् ।

  • ‘पक्षस्य ब्यापकमि’ ति नारद कोकव्याख्याने (पु. १६२ )

x शेषपदार्थः अपगतः । व्यत्रि स्मृसावत् । + सर्वेषां पदानां व्याख्या मितावत् । द्रष्टव्यम् ।