पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् १७५ इत्यनेनार्थादेव हेत्वभावप्रतिपादनम् । अत एव आ- थिंकभाषाप्रतिषेधस्त्रिविधः सापदेशमिथ्योत्तरम् । आग्रस्तु केवलं मिथ्योत्तरमिति | न चैवं ग्रहणास्कन्दकयोरसंनि- धानाजन्मनोरेव प्रतिपाद्यताऽस्तु, किमार्थिकाग्रहणपर्यन्त तात्पर्येणेति वाच्यम् । यद्यपि तदा जातस्तत्र संश्च तथापि न गृह्णाति तादृशां सर्वेषां ग्रहणाभावादतः संनिधान- मया न गृहीत मिति शब्दतः । कालविशेषगर्भायां तस्यां नासम्' इत्यर्थादेव | सर्वस्यामपि तस्यां ' न जानामि ' तदा नाहं जात इत्यर्थात् । देशकालविशेषगर्भायां तस्यां तदा तत्र नाहमासमित्यर्थतः । देशादिमत्यां तच्छ्रन्यायां वा तस्यां न जानामीत्यर्थत एव । योग्या स्मरणेनार्थतस्तद्ग्रहणप्रतिपादनात् । अत्र च चरमत्रयं ग्रहणास्कन्दमुखेन ग्रहणाभावप्रतिपादकं सापदेश मिथ्योत्तरमित्युच्यते । आद्यं मिथ्योत्तरमात्रम् । न जानामीति तु सापदेशमिथ्योत्तरं अभिमानमात्रात् । शेषं तु द्वयोर्व्याप्ततया सम्यक् । न चैवं समीचोर्ग्रहणा स्कन्दकयोरसंनिधानाऽजन्मनोरेव प्रतिपाद्यता स्यादिति वाच्यं तस्याभावरूपतया ग्रहणापेक्षया प्रतिपादनगौर वात् । ताभ्यां चाग्रहणस्य व्यापकानुपलब्ध्या प्रत्यायने ऽपि गौरवात् । तत्प्रत्यायनशक्तावपि संशयतादव स्थ्याच्च । न हि तदा जातस्तत्र च सन्न गृह्णात्येवेति नियमः | धर्मव्यवहारे च छलमवश्यं निरस्यम् । तस्मा च्चतुर्वपि मिथ्योत्तरेषु स्थापकेनैव दृष्टेन ग्रहणं प्रमा पणीयमिति । यत्तु पित्रादिगृहीतत्वभाषायां तद्ग्रहणा घिकरणत्वेनाभिमतकालापेक्षया चरमजातस्य तत्पुत्रस्य न जानामीत्यादिकं उत्तरं तदुत्तरप्रतिरूपकम् अर्थ तोऽपि स्थापितहेत्वपह्नवासंभवात् । न चैवमुत्तरा भावादेव तत्र स्थापकस्य जय इति वाच्यम् । धर्म व्यवहारे छलस्य अवश्यनिरस्यत्वेन तत्र स्थापकेन ग्रहणस्य अवश्यप्रमापणीयत्वात् । अत एव प्रकाशक्रये नाष्टिकेनादत्तत्वादिकमपि प्रमापणीयमिति स्मरन्ति । अन्यथा दत्तत्वादेर्दूषकेनानुक्तत्वाद दत्तत्वादिप्रतिपादनं तत्राधिकं स्यात् । तेन च दत्तत्वाभिधाने तेनैव तत्प्रति पाद्यमित्यपि स्यात् ।

  • व्यचि.१९-२०

(३) अत्र वाचस्पतिः भाषार्थस्य सहेतुसाध्यस्य मिथ्योत्तरेण निह्नवेऽपि हेत्वपहवांश एवं स्वरूपा सिद्धिरूपस्थापनादोषः । साध्यापह्नवांशस्तु कारणोत्तरा दिव्यवच्छेदकतया अत्रान्तर्भाव्यते । तथा हि । गृहीत त्वाद्धारणे भाषावादिना साध्य उपन्यस्ते कालदेश विशेषागर्भायां तस्यां 'मयान गृहीतम्' इति हेत्व भावः शब्देनैवोच्यते । कालविशेषगर्भायां तु 'तदा नाहं जात' इत्यर्थात् । देशविशेषगर्भायामपि 'तदा तत्राहं

  • व्यत. वाक्यार्थी व्यचिवत् । सेतु व्यचिवत् ।

जन्ममात्रस्य ग्रहणाव्याप्यत्वाव्यापकत्वाभावात् व्याप्य ग्रहणाभावासिद्धे: (१) तत्कालीनजन्माभावसंनिधाना भावयोरेव ग्रहणाभावसाधकता । न ह्यनुत्पन्नो गृह्णात्य- संनिहितो वेति संभवतीति तात्पर्यम् । तत्तात्पर्यावश्य संभवात् । अत एव सर्वस्मिन्नपि मिथ्योत्तरे स्थापकस्य ग्रहणस्थापनाय क्रियोपन्यास इत्याह । । तत्तुच्छम् । साथ्यानालिङ्गितहेत्वभावमात्रोपन्यासेऽ श्रन्तरत्वापातात् । हेतुत्वस्य साध्यनिरूपितत्वेन तद- भावमुखेन साध्याभावव्यवस्थान एवं स्थापनादूदूषणा संभवात् । उत्तरान्तरव्यवच्छेद मात्रस्याऽदृष्टार्थतापत्तेश्च । यत्र तु पूर्ववादिनः पित्रर्णादिग्रहण हेतुकधारणादि- प्रतिज्ञा तंत्राज्ञानद्वारकः साक्षाद्वा तद्पह्नवो मिथ्यो- त्तरम् । तत्कालाऽजन्म तद्देशासंनिधान योरेतदीययोस्त- दीयग्रहणाभावासाधकत्वात् । अत एव प्रकाशाऽस्वामि- क्रये नाष्टिकेनादत्तत्वादिकमपि प्रमापणीय मित्यभियुक्त- स्मरणमपि संगच्छते । अन्यथा दूपणे दत्तत्वाद्यनुपन्या- साददत्तत्वादिप्रमापणमधिकं स्यात् । तेन तत्प्रतिपादने दत्तत्वादेर्नाष्टिकोक्ततत्स्वत्वास्कन्दकत्वादस्य प्रत्यवस्क- न्दनरूपत्वात्तस्यैव तत्साधनापत्तौ 'मिथ्या क्रिया पूर्व- वाद' इति विरुध्येत । इष्टापत्ताबुच्यमानायां मिथ्योत्तर- भेदत्वोक्तिविरोधात् । व्यप्र. ५७-५८ (४) अत्र मिथ्यैवेत्युत्तरस्य गृहीत्वा न ददातीति हेतुविशिष्टसाध्यविषयस्यापि हेतुरूपग्रहणांशे स्वरूपासि द्विरूपतया दोपलं अज्ञानाऽजन्मात्मसांनिध्याभाववा- क्यानां संनिधिग्रहणरूपहेत्वभावसाधनद्वारा साध्याभाव- साधनत्वमिति वाचस्पतिः । अत्र प्रथमं वित्तग्रहणवि शिष्टसमर्पणीयत्वरूपसाव्य स्वरूपासिद्धिस्वरूपम् । द्वितीयं पित्रादिकृतर्णविशिष्टसाध्यतावच्छेदक स्वरूपासिद्धरूपम् । तृतीयचतुर्थ च साध्यतावच्छेदकस्वरूपा सिद्धिरूपमिति