पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ याज्ञवल्क्यः -- न्यायसाम्यात् विशेषाग्रहे यस्यैव गुणवन्तो वा कुलीना: प्रत्यासन्ना वा बहवो वा साक्षिणः सन्ति तस्यैव प्रष्टव्याः । सर्वथा साम्ये तु पूर्ववादिन एव प्राथम्यात् । तथा च नारदः–'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥ याज्ञवल्क्य:- 'साक्षिषूभयतः सत्सु विज्ञेयाः पूर्ववादिनः । पूर्वपक्षेऽध रीभृते भवन्त्युत्तरवादिनः' | दुर्बलं च कारणोत्तरं यथा–मदीयेयं भूमिः क्रमागतत्वादित्युक्ते मदीयेयं दश वर्षभुक्तत्वादित्युत्तरम् । अत्र हेतुत्वेनोपन्यस्तदशवर्ष- भुक्तर्भूम्यतिरिक्तविपये प्रामाण्यं न भूमावपि । तथा च --'पश्यतोऽब्रुवतो हानिर्धनस्य दशवार्षिकी । परेण भुज्यमानाया भूमेर्विंशतिवार्षिकी' || अस्य च दुर्बलत्वे फलतः असदुत्तरत्वे उत्तरगणनया यावत्कालं भोगो न दृश्यते तेन दशवर्षभोगादुत्सर्गतः तावदस्येति प्राप्तम् । अतो यदि पूर्ववादिनः क्रमागतत्वे प्रमाणं भवति तदा पूर्ववादिन एव सा | प्रमाणाभावे तु दश- वर्षभोगादुत्सर्गतः प्राप्तस्वत्वस्य अनपायादित्वात् ? तदुत्तरवादिन एव क्रियेति निर्णयः । तेनात्र क्रिया निर्देशोऽपि पूर्ववादिन एवेति । तथा च कात्यायन:- 'प्रपद्य कारणं पूर्वमन्यद्गुरुतरं यदि । प्रतिवाद्यगतं ब्रूयात्साध्यते तद्धि नेतरत्' || अस्यार्थ:-- यदि गुरु तरं कारणं ब्रूयात्तदैवोत्तरवादिना साध्यते । तद्धि नेत- रत्, गुरुतरकारणं विना तुल्यबलहीन बलकारणयोः पूर्ववादिनोत्तं साध्यते इत्यर्थः । तथा च चिरन्तन निबन्धेऽपि लिखितम्——'गुराव भिहिते हेतौ प्रतिवादि क्रिया भवेत् । दुर्बले वादिनः प्रोक्ता तुल्ये पूर्वक्रियैव च' इति ॥

  • स्मृसा. ९३.९५

व्यवहारकाण्डम् (४) प्रत्यवस्कन्दनं नाम 'सत्यं गृहीतं' परन्तु प्रति दत्तं प्रतिग्रहलब्धं वा इत्यादि । यथाह नारदः -- अर्थिनेति । प्रपद्य स्वीकृत्य । यद्यपि भापार्थस्य न सर्वाशस्वीकारोऽत्र | संप्रतिपत्तित्वापत्तेः । कारणोक्त्या नर्थक्यापाताच्च । तथापि ग्रहणेन धारणं-तेन च प्रत्यर्पणीयत्वे साध्यत्वेन प्रतिज्ञातेन ग्रहणांशमभ्युपेत्य प्रतिदानेन प्रतिग्रहादिना वाऽधारणं प्रत्यर्पणीयत्वाभावं प्रत्यर्थी साधयति । मिथ्योत्तरादत एवास्य भेदः । तत्र

  • वीमि, स्मृसागतम् ।

भाषार्थस्य सर्वस्यापह्नवत्वादत्र त्वेक देशानपह्नवात् । प्राङ्न्याये तु यथायथमुभयसंभव इति ततोऽपि भेदः । एतच्च तत्र विवक्ष्यामः । यत्तु प्राङ्न्यायो धार्यमाण- त्वादिसामान्याभावज्ञापकः । कारणोत्तरं तु तद्ध्वंस- ज्ञापकमिति तयोर्भेद इति वाचस्पतिनोक्तम् । तत्तुच्छम् । प्राङ्न्यायेनापि कारणमुखेनोभयोरपि ज्ञापनसंभवात् । तस्मादस्मदुक्तमेव भेदकं ज्यायः । त्रिविधं चैतत् । स्थापनाधिकबलं तत्समबलवत् तदूनबलं चेति । उदा- हृतमेवाधिकबलम् । तत्र हि मह्यमयं शतस्य धारयति प्रतिदेयतया मत्तो गृहीततावद्धनत्वादित्यादि भाषायां निर्यातनादिस्थले व्यभिचारवारणायेदानीन्तनधारणाद्य- र्थापत्तिगम्यमपरिशोधितत्वादिविशेषणमर्थिनोऽवश्यं हृ- दिस्थमास्थेयम् । तथा च प्रतिदानाद्युपन्यासेन तद- सिद्धिः प्रत्यर्थिनोक्ता भवतीति ध्येयम् । कात्यायनोऽपि स्पष्टमाचष्टे - 'अर्थिनाऽभिहितो योऽर्थः प्रत्यर्थी यदि तं तथा | प्रपद्य कारणं ब्रूयादाधर्य भृगुरब्रवीत्' इति ॥ आधर्य अधरत्वम् । दुर्बलत्वमिति यावत् । पूर्व- पक्षस्येति शेषः । पूर्वपक्षदौर्बल्य उत्तरस्य प्राबल्यं अर्थत उक्तम् । अत एव नारद: - 'आधर्य पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् । विवादे साक्षिणस्तत्र प्रष्टव्या: पूर्ववादिनः ॥ अत्र साक्षिग्रहणं प्रमाणमात्रोपलक्षणम् । प्रदीपकृतस्तु धार्यमाणत्वे कारणं गृहीतत्वं प्रपद्य ब्रूयात् परिशोधनादिकमिति शेषः । अपरिशोधितत्वादिकं च स्थापना हेतुविशेषणं कण्ठरवेण ज्ञेयमित्याहुः । तन्न व्यवहितयोजनाध्याहारयोर्विना कारणमनुचितत्वात् । कारणं प्रपद्येत्यन्वये तमित्यस्य साकाङ्क्षत्वेनानन्वयप्रसं- गाच्च । अन्ये तु प्रपद्य स्थापना हेतुमभ्युपेत्य यत्तद्विपरीत- वचनं तत्कारणोत्तरमिति त्रितयपरमेवेदं वचनमिति बदन्ति । अत्राधिकसमबलकारणोत्तरयोः स्थापनाया आधर्या- संभवेनैतद्वाक्यस्य त्रितयविषयत्वायोग इति वाचस्पत्युक्तं दूषणं कारणोत्तरस्य त्रैविध्यं तदुक्तं खण्डयद्भिरनुपदमे- वोद्धरिष्यते । समबलम् – 'इयं भूर्मदीया क्रमागतत्वात् ' इत्येकेन भाषितेऽपरोऽपि तदेवोत्तरयति सत्प्रतिपक्षरी - त्येति । दुर्बलं कारणोत्तरं तु ममेयं विंशतिवर्षावधि भूमिरमुक स्वामिनाहितत्वात्' इति भाषायां स्वामिनैव